________________
४२६
स्थानाङ्ग सूत्रम् ७/-१६१० मू. (६१०) सज्जं रवति मयूरो, कुक्कुडो रिसहं सरं।
हंसो नदति गंधारं, मज्झिमंतु गवेलगा। वृ. 'सज्ज'मित्यादिश्लोकः, 'नदति रौति ‘गवेलग'त्तिगावश्च एलकाश्च-ऊरणका गवेलकाः अथवा गवेलका-ऊरणका एव इति. । मू. (६११) अह कुसुमसंभवे काले, कोइला पंचमं सरं।
छठेच सारसा कोंचा, निसायं सत्तमंगता। वृ. 'अह कुसुम' इत्यादिरूपकं गाथाभिधानं.॥१॥ "विषमाक्षरपादं वा पादैरसमं दशधर्मवत् ।
तन्त्रेऽस्मिन् यदसिद्धं, गाथेति तत् पण्डितै यम् ॥" इति वचनात्, ‘अथेति विशेषार्थः, विशेषार्थता चैवं-यथा गवेलका अविशेषेण मध्यम स्वरं नदन्ति न तथा कोकिलाः पञ्चमं, अपि तु कुसुमसम्भवे काल इति, कुसुमानां बाहुल्यतो वनस्पतिषु सम्भवो यस्मिन् स तथा तत्र, मघावित्यर्थः।
मू. (६१२) सत्त सरा अजीवनिस्सिता पं०,(तं०)
वृ. 'अजीवनिस्सिय'त्ति तथैव नवरं जीवप्रयोगादेत इति । मू. (६१३) सज्जं रवति मुइंगो, गोमुही रिसभं सरं।
संखो नदति गंधारं, मज्झिमं पुण झल्लरी ॥ वृ. 'सज्ज'मित्यादि श्लोकः, मृदङ्गो-मर्दलः गोमुखी-काहलायतस्तस्या मुखेगोश्रृङ्गमन्यद्वा क्रियत इति.। मू. (६१४) . चउचलणपतिट्ठाणा, गोहिया पंचमं सरं।
आडंबरो रेवतितं, महाभेरी यसत्तमं । वृ. 'चउ' इत्यादिश्लोकाः चतुर्भिश्चरणैः प्रतिष्ठानं भुवि यस्याः सा तथा, गोधाचर्मणा अवनद्धेति गोधिकावाद्यविशेषो दर्दरिकेति यत्पर्यायः, डम्बरः-पटहः सप्तममिति-निषादं ।
मू. (६१५) एतेसिणं सत्तसराणं सत्त सरलक्खणा पं० (तं०)
वृ. 'एएसि ण'मित्यादि, ‘सत्त'त्ति स्वरभेदात् सप्त स्वरलक्षणानि यथास्वं फलं प्रति प्रापणाव्यभिचारीणि स्वररूपाणि भवन्ति, तान्येव फलत आहमू. (६१६) “सज्जेण लभति वित्तिं, कतं च न विनस्सति।
गावो मित्ताय पुत्ता य, नारीणं चेव वल्लभो ॥ वृ. 'सज्जेणे'त्यादिश्लोकाः सप्त, षड्जेनलभतेवृत्तिं, अयमर्थः-षड्जस्येदंलक्षणं-स्वरूपमस्ति येन वृत्तिं-जीवनं लभतेषड्जस्वरयुक्तःप्राणी, एतच्चमनुष्यापेक्षया लक्ष्यते, मनुष्यलक्षणत्वादस्येति, कृतं च न विनश्यति तस्येति शेषः, निष्फलारम्भो न भवतीत्यर्थः, गावो मित्राणि च पुत्राश्च भवन्तीति शेषः। मू. (६१७) रिसभेण उ एसज्जं, सेणावच्चं धनानि य।
वत्थगंधमलंकारं, इथिओ सयणाणि व॥ वृ. 'एसज्जंति एश्वर्यं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org