SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ स्थान- ७, ४१७ परंजित्ता भवति २ आयरियउवज्झाए णं गणंसि जे सुयपज्जवजाते धारेइ ते काले काले सम्म अनुप्पवाइत्ता भवइ ३ आयरियउवज्झाए णं गणंसि गिलाणसेहवे आवच्चं सम्मं अब्भुट्ठित्ता भवइ ४ आयरियउवज्झाए णं गणंसि आपुच्छियचारि यावि हवइ, नो अणापुच्छियचारी ५' स्थानद्वयं त्विहैवेति, व्याख्या तु सुकरैव, नवरमाप्रच्छनं गच्छस्य, यत उक्तम्"सीसे जइ आमंते पडिच्छगा तेण बाहिरं भावं । अह इयरे तो सीसा ते व समत्तंमि गच्छंति ॥ तरुणा बाहिरभावं न य पडिलेहोवही न किइकम्मं । मूलगपत्तसरिसगा परिभूया वञ्चिमो थेरा ।" इति, 11911 तथा 'अनुपन्नाई' ति अनुत्पन्नानि - अलब्धानि 'उपकरणानि ' वस्त्रपात्रादीनि सम्यग्एषणादिशुध्या 'उत्पादयिता' सम्पादनशीलो भवति, संरक्षयिता- उपायेन चौरादिभ्यः 'सङ्गोपयिता' अल्पसागारिककरणेन मलिनतारक्षणेन वेति । एवं सङ्ग्रहस्थानविपर्यवभूतमसङ्ग्रहसूत्रमपि भावनीयमिति । मू. (५९६) सत्त पिंडेसणाओ पन्नत्तातो । सत्त पाणेसणाओ पन्नत्ताओ सत्त उग्गहपडिमातो पन्नत्ताओ । सत्तसत्तिक्कया पन्नत्ता । सत्त महज्झयणा पन्नत्ता । सत्तसत्तमिया णं भिक्खुपडिमा एकूणपन्नाते रातिंदिएहिमेगेण य छन्नउएणं भिक्खासतेणं अहासुत्तं जाव आराहियावि भवति वृ. अनन्तरमाज्ञां न प्रयोक्ता भवतीत्युक्तमाज्ञा च पिण्डैषणादिविषयेति पिण्डैषणादिसूत्रषट्कम् - ‘सत्त पिंडे सणाउ'त्ति पिण्डः समयभाषया भक्तं तस्यैषणा-ग्रहणप्रकाराः पिण्डैषणाः, ताश्चैताः ॥२॥ 11911 “संसट्ट १ मसंसट्टा २ उद्धड ३ तह अप्पलेविया चेव ४ । उग्गहिया ५ पग्गहिया ६ उज्झियधम्मा य ७ सत्तमिया ॥" अत्रासंसृष्टा हस्तमात्राभ्यां चिन्तनीया 'असंसठ्ठे हत्थे असंसठ्ठे मत्ते' अक्खरडियत्ति वृत्तं भवइ, एवं गृह्णतः प्रथमा भवति, गाथायां सुखमुखोच्चारणार्थोऽन्यथा पाठः, संसृष्ठा ताभ्यामेव चिन्त्या 'संसठ्ठे हत्थे संसट्टे मत्ते' 'खरडिएत्ति वुत्तं भवइ, एवं गृह्णतो द्वितीया, उध्धृता नाम स्थायादौ स्वयोगेन भोजनजातमध्धृ तं, ततो असंसट्टे हत्थे असंसट्टे मत्ते संसट्टे वा मत्ते संसट्टे वा हत्थे, एवं गह्णह्वतः तृतीया, अल्पलेपा नाम अल्पशब्दोऽभाववाचकः निर्लेपं-पृथुकादि गृह्णतश्चतुर्थी, अवगृहीता नाम भोजनकाले शरावादिषूपत्तमेव भोजनजातं यत् ततो गृहतः पञ्चमी, प्रगृहीता नाम भोजनवेलायां दातुमभ्युद्यतेन करादिना प्रगृहीतं यद्भोजनजातं भोक्तुं वा स्वहस्तादिना तद् गृह्णत इति षष्ठी, उज्झितधर्म्मा नाम यत्परित्यागार्हं भोजनजातमन्ये च द्विपदादयो नावकाङ्क्षन्ति तदर्द्धत्यक्तं वा गृह्णत इति हृदयं सप्तमीति । पानकैषणा एता एव, नवरं चतुर्थ्या नानात्वं, तत्र ह्यायामसौवीरकादि निर्लेपं विज्ञेयमिति 'उग्गहपडिम' त्ति अवगृह्यत इत्यवग्रहो- वसतिस्तत्प्रतिमाः- अभिग्रहा अवग्रहप्रतिमाः, तत्र पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्याथाभूत इति तमेव याचित्वा गृह्णतः प्रथणा, तथा यस्य भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा - अहंच खल्वेषां साधूनां कृते अवग्रहं ग्रहीष्यामि, अन्येषां चावग्रहे गृहीते सति वत्स्यामीति तस्या द्वितीया, प्रथमा सामान्येन इयं तु गच्छान्तर्गतानां 327 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy