SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ४१८ स्थानाङ्ग सूत्रम् ७/-/५९६ साम्भोगिकानामसम्भोगिकानांचोधुक्तविहारिणां, यतस्तेऽन्योऽन्यायाचन्त इति, तृतीयत्वियंअन्यार्थमवग्रहं याचिष्ये अन्यावगृहीतायां तु न स्थास्यामीति, एषा त्वहालन्दिकानां, यतस्ते सूत्रावशेषमाचार्यादभिकासन्तः आचार्यार्थं तां याचन्त इति, चतुर्थी पुनरहमन्येषां कृते अवग्रह न याचिष्ये अन्यावगृहीते तु वत्स्यामीति, इयं तु गच्छ एव अभ्युद्यतविहारिणां जिनकल्पाद्यर्थ परिकर्मकुर्वतां, पञ्चमीतुअहमात्मकृतेअवग्रहमवग्रहीष्यामिनचापरेषां द्वित्रिचतुःपञ्चानामिति, इयं तु जिनकल्पिकस्येति, षष्ठी पुनर्यदीयमवग्रहं ग्रहीष्यामि तदीयमेव चेत्कटादि संस्तारकं ग्रहीष्यामि, इतरथोत्कुटुकोवा निषण्णउपविष्टोवा रजनीं गमिष्यामीत्येषाऽपिजिनकल्पिकादेरिति, सप्तमी एषैव पूर्वोक्ता, नवरंयथाऽऽस्तुतमेवशिलादिकंग्रहीष्यामिनेतरदिति।अयंचसूत्रत्रयार्थः क्वचित्सूत्रपुस्तक एव दृश्यत इति। _ 'सत्तसत्तिक्कय'त्ति अनुद्देशकतयैकसरत्वेन एककाः-अध्ययनविशेषा आचाराङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपास्ते च समुदायतः सप्तेतिकृत्वा सप्तकका अभिधीयन्ते, तेषामेकोऽपि सप्तैकक इति व्यपदिश्यते, तथैव नामत्वात्, एवंचते सप्तेति, तत्र प्रथमः स्थानसपतैकको, द्वितीयोनैषेधिकीसप्तककः, तृतीयउच्चारप्रश्रवणविधिसप्तैककः चतुर्थः शब्दसप्तककः, पञ्चमो रूपसप्तैककः, षष्ठः पर क्रियासप्तैककः, सप्तमोऽन्योऽन्यक्रियासप्तैकक इति । - 'सत्तमहज्झयण'त्तिसूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धेमहान्ति-प्रथमश्रुतस्कन्धाध्ययनेभ्यः सकाशाद् ग्रन्थतो बृहन्ति अध्ययनानि महाध्ययनानि, तानि च-पुण्डरीकं १ क्रियास्थानं २ आहारपरिज्ञा ३ प्रत्याख्यानक्रिया ४ अनाचारश्रुतं ५ आर्द्रककुमारीयं ६ नालन्दीयं ७ चेति। “सत्तसत्तमिय'त्ति सप्तसप्तमानि दिनानि यस्यां सा सप्तसप्तमिका, सा हि सप्तसप्तभिर्दिनसप्तकैर्यथोत्तरं वर्द्धमानदत्तिभिर्भवति, तत्र प्रथमे सप्तके प्रतिदिनमेका भक्तस्य पानकस्य चैका दत्तिर्यावत्सप्तमे सप्त दत्तयः, भिक्षुप्रतिमा-साध्वभिग्रहविशेषः, साचैकोनपञ्चाशता रात्रिन्दिवैःअहोरात्रैर्भवति, यतः सप्त सप्तकान्येकोनपञ्चाशदेव स्यादिति, तथा एकेन च षण्णवत्यधिकेन भिक्षाशतेन, यतः प्रथमे सप्तके सप्तैव द्वितीयादिषु तद्विगुणाद्याः यावत्सप्तमे एकोनपञ्चाशदिति, सर्वाः सङ्कलिताः शतं षण्णवत्यधिकं भवति, भक्तभिक्षाश्चैताः पानकभिक्षा अप्येतावत्यो न चेह गणिता इति, एतत्स्वरूपमेवम् - ॥१॥ __ “पडिमासु सत्तगा सत्त, पढमे तत्थ सत्तए। एक्केक्कं गिण्हए भिक्खं, बिइए दोन्नि दोन्निऊ ।। ॥२॥ अहवा एक्कक्कियं दत्तिं, जा सत्तेकेक्कसत्तए। आएसो अस्थि एसोवि, सिंहविक्कमसन्निहो ॥ इत्यादि, 'अहासुत्तं तियथासूत्र-सूत्रनतिक्रमेण यावत्करणात् 'अहाअत्थं यथार्थ-निर्युक्त्यादिव्याख्यानानतिक्रमेणेत्यर्थः, अहातच्चं' यथातत्त्वंसप्तसप्तमिकेत्यभिधानार्थानतिक्रमेणअन्वर्थसत्यापनेनत्यर्थः 'अहामग्गं' मार्गः-क्षायोपशमिकोभावस्तदनतिक्रमेण, औदयिकभावागमनेनेत्यर्थः, 'अहाकप्पं' यथाकल्पं-कल्पनीयानतिक्रमेण प्रतिमासमाचारनतिक्रमेण वा ‘सम्मं कारणं' कायप्रवृत्त्या न मनोमात्रेणेत्यर्थः, ‘फासिया' स्पृष्टा प्रतिपत्तिकाले विधिना प्राप्ता, 'पालय'त्ति पुनः पुनरुपयोग-प्रतिजागरणेन रक्षिता, सोहिय'त्तिशोभिता तत्समाप्तौगुर्वादिप्रदानशेषभोजना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy