SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ स्थानं -७, ४१५ अथापरं द्वितीय, तत्र ‘पाईणं वे'त्यादौ, वाशब्दश्चकारार्थोद्रष्टव्यः विकल्पार्थत्वेतुपञ्चानां दिशां पश्यत्ता न गम्यते, एकस्या एव च गम्यते, तथाचप्रथमद्वितीययोर्विभङ्गयोर्भेदोन स्यादिति, क्वचिद्वाशब्दा न दृश्यन्त एवेति २, प्राणानतिपातयमानानित्यादिषु जीवानिति गम्यते, ‘नो किरिया- वरणे'त्ति अपितु कर्मावरण इति ३, 'देवामेव'त्ति देवानेव भवनवास्यादीनेव 'बाहिरब्भंतरे'त्ति बाह्यान् शरीरावगाहक्षेत्राद् अभ्यन्तरान्-अवगाहक्षेत्रस्थान्पुद्गलान्-वैक्रियवर्गणारूपान् ‘पर्यादाय' परि-समन्तात्वैक्रियसमुद्घातेनादाय-गृहीत्वा, ‘पुढेगत्तंतिपृथक्कालदेशभेदेन कदाचित्क्वचदित्यर्थः, ‘एकत्वं' एकरूपत्वं 'नानात्वं' नानारुपत्वं विकृत्य उत्तरवैक्रियतया 'चिउत्तए'त्तिस्थातुंआसितुंप्रवृत्तानिति वाक्यशेष इति सम्बन्धः, कथं विकृत्येत्याह ‘फुसित्ता'तानेव पुद्गलान् स्पृष्टवा तथाऽऽत्मना स्फुरित्वा वीर्यमुल्लास्य पुद्गलान् वा स्फोरयित्वा तथा स्फुटित्वा' प्रकाशीभूय, पुद्गलान् वा स्फोटयित्वा, वाचनान्तरेतु पदद्वयमपरमुपलभ्यते, तत्र संवर्त्य-सारानेकीकृत्य निवर्त्य-असारान् पृथक्त्येति, अथवापर्याप्तपदगलैरुत्तरवैक्रियशरीरस्यैकत्वंनानात्वंचकर्मतापन्नं स्पष्टवा-प्रारभ्यतथास्फुरत्कृत्वास्फुटं कृत्वा सम्-एकीभावेन वर्तितं-सामान्यनिष्पन्नं कृत्वा निर्वर्तितं कृत्वा-सर्वथा परिसमाप्य, किमुक्तं भवति?- विकुळ-वैक्रियं कृत्वा न त्वौदारिकतयेति, तस्येति विभङ्गज्ञानिनो बाह्याभ्यन्तरपुद्गलपर्यादानप्रवृत्तदेवान् पश्यत एवं भवति-इति विकल्पो जायते, 'मुदग्गे ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इति ४, .. _अथापरं पञ्चमं, तत्रबाह्याभ्यन्तरान्पुद्गलान्-अपर्यादायेत्यत्रनिषेधस्य वैक्रियसमुद्घातापेक्षित्वादुत्पत्तिक्षेत्रस्थांस्तूत्पत्तिकाले गृहीत्वा भवधारणीयशरीरस्यैकत्वमेकदवापेक्षया कण्ठाद्यवयवापेक्षया वा नानात्वं त्वनेकदेवापेक्षया हस्ताङ्गुल्याद्यवयवापेक्षया वा विकुर्व्यस्थातुं प्रवृत्तानित्यादि, शेषंप्राग्वत्, बाह्यपुद्गलप्रर्यादानं हि विनोत्तरवैक्रियैकत्वनानात्वे किल न भवत इति भवधारणीय मिहाधिकृतं, तदेवमबाह्याभ्यन्तरपुद्गलरचितशरीरदेवदर्शनात्तस्यैवं विकल्पो भवति - ‘अमुदग्गे'त्ति अबाह्याभ्यन्तरपुद्गलरचितावयवशरीरो जीव इति ५, _ 'रूवी जीवे'त्ति पुद्गलाना पर्यादानेऽपर्यादाने च वैक्रियरूपस्यैकानेकरूपस्य देवेषु दर्शनाद्रूपवानेव जीव इत्यवसायो जायते, तस्य अरूपस्य कदाचनाप्यदर्शनादिति ६, _ 'सुहुमे'त्यादि सूक्ष्मेण-मन्देन नतु सूक्ष्मनामकर्मोदयवर्तिना, तस्य वस्तुचलनासमर्थत्वात्, 'फुडं'तिस्पृष्टं पुद्गलकायं'पुद्गलराशि ‘एयंत'तिएजमानकम्मानं व्येजमानं विशेषेण कम्पमानं 'चलन्तं' स्वस्थानादन्यत्र गच्छन्तं 'क्षुभ्यन्तं' अधो निमज्जन्तं 'स्पन्दन्तं' ईषचलन्तं घट्टयन्तं' वस्त्वन्तरं स्पृशन्तमुदीरयन्तं-वस्त्वन्तरं प्रेरयन्तंतंतमनाख्येयमनेकविधं भावं' पर्यायं परिणमन्तं' गच्छन्तं 'तंसव्वमिणं तिसर्वमिदंचलत्पुद्गलजातंजीवाः स्पन्दनलक्षणजीवधर्मोपेतत्वात्, यच्च चलदपि श्रमणादयो जीवाश्चाजीवाश्चेति प्राहुः तन्मिथ्येति तदध्यवसाय इति, 'तस्स णं'ति तस्य विभङ्गज्ञानवतः ‘इमे'त्ति वक्ष्यमाणा न सम्यगुपगताः-अचलनावस्थायां जीवत्वेन न बोधविषयीभूताः, तद्यथा-पृथिव्यापस्तेजो वायवः, चलनदोहदादिधर्मवतांत्रसानामेव दोहदादित्रसधर्मवतां वनस्पतीनामेव च जीवतया प्रज्ञानात्, पृथ्व्यादीनां तु वायुचलनेन स्वतश्चलनेन च त्रसत्वेनैव प्रज्ञानात् स्थावरजीवतया तु तेषामनभ्युपगमाच्चेति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy