SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ४१४ स्थानाङ्ग सूत्रम् ७/-/५९३ अस्वी जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, छठे विभंगनाणे ६ । अहावरे सत्तमे विभंगनाणे जया णं तहावरुवस्स समणस्स वा माहणस्स वा विभंगनाणे समुप्पज्जति, से णं तेणं विभंगनाणेणं समुप्पन्नेणं पासइ सुहुमेणं वायुकातेणं फुडं पोग्गलकायं एततं वेततं चलंतं खुभंतं फंदंतं घट्टतं उदीरेंतं तं तंभावं परिणमंतं, तस्सणं एवं भवति-अस्थि गंममअतिसेसे नाणदंसणेसमुप्पन्ने, सव्वमिणंजीवा, संतेगतिता समणा वा माहणावा एवमाहंसु -जीवाचेव अजीवा चेव, जेते एवमाहंसुमिच्छंते एव माहंसु, तस्सणं इमे चत्तारिजीवनिकाया नो सम्ममुवगता भवंति, तं० - पुढविकाइयाआऊतेऊवाउकाइया, इच्चेतेहिं चउहिंजीवनिकाएहिं मिच्छादंडं पवत्तेइ सत्तमे विभंगणनणे ७। वृ. 'सत्तविहे'त्यादि, ‘सप्तविधं' सप्तप्रकार विरुद्धो वितथो वा अन्यथा वस्तुभङ्गोवस्तुविकल्पो यस्मिंस्तद्विभङ्गं तच्च तज्ज्ञानं च साकारत्वादिति विभङ्गज्ञानं मिथ्यात्वसहितोऽवधिरित्यर्थः, एगदिसंतिएकस्यां दिशिएकयादिशापूर्वादिकयेत्यर्थः ‘लोकाभिगमो' लोकावबोध इत्येकं विभङ्गज्ञानं, विभङ्गता चास्य शेषदिक्षु लोकस्यानभिगमेन तत्प्रतिषेधनादिति १, तथा पंचसु दिक्षु लोकाभिगमो नैकस्यां कस्यांचिदिति, इहापि विभङ्गता एकदिशि लोकनिषेधादिति २, कियामात्रस्यैव-प्राणातिपातादे वैः क्रियमाणस्य दर्शनात्तद्धेतुकर्मणश्चादर्शना क्रियैवावरणंकर्म यस्य स क्रियावरणः, कोऽसौ ?- जीव इत्यवष्टम्भपरं यद्विभङ्गं तत्तृतीयं, विभङ्गता चास्य कर्मणोऽदर्शनेनानभ्युपगमादेवमुत्तरत्रापि विभङ्गताऽवसेयेति ३, 'मुयग्गे ति बाह्याभ्य-न्तरपुद्गलरचितशरीरोजीव इत्यवष्टम्भवत्, भवनपत्यादिदेवानां बाह्याभ्यन्तरपुद्गल- पर्यादानतो वैक्रियकरणदर्शनादिति चतुर्थं ४, ‘अमुदग्गे जीवे'त्ति देवानां बाह्याभ्यन्तरपुद्गलादानविरहेण वैक्रियवतां दर्शनाद् अबाह्याभ्य-न्तरपुद्गलरचितावयवशरीरो जीव इत्यवसयवत्पञ्चमं ५, तथा ‘रूवी जीवे'त्ति देवानां वैक्रियशरीर- बता दर्शनाद्रूप्येव जीव इत्येवमवष्टम्भवत् षष्ठमिति ६, तथा ‘सव्वमिणं जीव'त्ति वायाना चलतः पुद्गलकायस्य दर्शनात् सर्वमेवेदं वस्तु जीवा एव, चलनधर्मोपेतत्वादित्येवं निश्चयवत्सप्तममिति सङ्गङ्ग्रहवचनमेतत् । तत्थे' त्यादि त्वेतस्यैव विवरणवचनमुत्तानार्थमेव नवरं 'तत्थ'त्ति तेषु सप्तसुमध्ये ‘जया णं ति यस्मिन् काले ‘से णं ति इह तदेति गम्यते स विभंगी 'पासइत्ति उपलक्षणत्वाज्जानातीति च, अन्यथा ज्ञानत्वं विभंगस्य न स्यादिति, ‘पाईणं वे'त्यादि, वा विकल्पार्थः, ‘उड्डेजाव सोहम्मो कप्पो' इत्यनेन सौधर्मात् परतः किलप्रायोबालतपस्विनोनपश्यन्तीति दर्शितंतथाऽवधिमतोऽप्यधोलोकोदुरधिगमो विभङ्गज्ञानिनस्तु सुतरामित्यधोदिग्दर्शनमिह नाभिहितं,दुरधिगम्यता चाधोलोकस्य त्रिस्थानकेऽभिहितेति, ‘एवं भवइति एवंविधो विकल्पो भवति, यदुत-अस्ति मे अतिशेषं-शेषाण्यतिक्रान्तं सातिशयमित्यर्थो ज्ञानंच दर्शनंच ज्ञानेन वा दर्शनं ज्ञानदर्शनं, ततश्चैकदिशो दर्शनेन तत्रैव लोकस्योपलम्भादाह-एकदिशिलोकाभिगमइति, एकदिग्मात्र एव लोकस्तथोपलम्भादिति भावः, 'सन्ति' विद्यन्ते एकके श्रमणा वा ब्राह्मणा वा, ते चैवमाहुः-अन्यास्वपिपञ्चसुदिक्षुलोकाभिगमो भवति, तास्वपितस्य विद्यमानत्वात्, येते एवमाहुः यदुत-पञ्चस्वपि दिक्षु लोकाभिगमो मिथ्या ते एवमाहुरिति प्रथम विभङ्गज्ञानमिति १ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy