________________
४१२
स्थानाङ्ग सूत्रम् ७/-/५९२ व्याख्यातेवति, क्वचित्तु 'सव्वधम्मं जाणामि, एवंपि एगे अवक्कमे' इत्येवं पाठः, तत्र ज्ञानी अहमिति किं गणेनेति मदादपक्रामति १,
तथा 'एगइय'त्ति एककान् कांश्चन श्रुतधमश्चिारित्रधर्मान् वा रोचयामि-चिकीर्षामि एककांश्च श्रुतधाश्चारित्रधर्मान् वा नो रोचयामि-नचिकीर्षामीत्यतश्चिकीर्षितधाणां स्वगणे करणसामध्यभावादपक्रमामि भदन्त इति द्वितीयं २, तथा सर्वधर्मान्-उक्तलक्षणान् विचिकित्सामि-संशयविषयीकरोमीत्यतः संशयापनोदार्थं स्वगणादपक्रमामीति तृतीयं ३, एवमेककान् विचिकित्सामि एककान् नो विचिकित्सामीति चतुर्थं ४, तथा 'जुहुणामित्ति जुहोमि अन्येभ्यो ददामि, न च स्वगणे पात्रमस्त्यतोऽपक्रमामीति पञ्चमं ५, एवं षष्ठमपि ६,
तथा इच्छामि णं भदन्त !-धर्माचार्य एकाकिनो गच्छनिर्गत्वाग्जिनकल्पिकादितया यो विहारो-विचरणंतस्य या प्रतिमाप्रतिपत्तिः-प्रतिज्ञासाएकाकिविहारप्रतिमातामुपसम्पद्य-अङ्गीकृत्य विहर्तुमिति सप्तममिति ७।
अथवा सर्वधर्मान्ोचयामि-श्रद्दधेअहमितितेषां स्थिरीकरणार्थमपक्रमामि, तथा एककान् रोचयामिश्रद्दधे एककांश्च नोरोचयामीत्यश्रद्धितानांश्रद्धानार्थमपक्रामामीत्येन पदद्वयेन सर्वविषयाय देशविषयाय य सम्यग्दर्शनाय गणापक्रमणमुक्तं १ एवं सर्वदेशविषयसंशयविनोदसूचकेन 'सव्वधम्मा विचिकिच्छामी'त्यादिपदद्वयेन ज्ञानार्थमपक्रमणमुक्तमिति, तथा 'सर्वधर्मान्जुहोमी'ति जुहोतेरदनार्थत्वाद् भक्षणार्थस्य चासेवावृत्तिदर्शनादाचराम्यासेवाम्यनुतिष्ठामीतियावत् तथा एककान्नासेवामीति सर्वेषामासेव्यमानानां विशेषार्थमनोसेवितानां च क्षपणवैयावृत्त्यादीनां चारित्रधर्माणामासेवार्थमपक्रमामीत्यनेन पदद्वयेन तथैव चारित्रार्थमपक्रमणमुक्तमिति, उक्तं च॥१॥
“नाण? दंसट्ठा चरणट्ठा एवमाइ संकमणं । संभोगट्ठा व पुणो आयरियट्ठा व नायव्वं ।।" इति,
-तत्र ज्ञानार्थ॥१॥ “सुत्तस्स व अत्थस्स व उभयस्स व कारणा उ संकमणं।
वीसज्जियस्स गमणं भीओ य नियत्तए कोइ ।" इति,
दर्शनप्रभावकशास्त्रार्थं दर्शनार्थं, चारित्रार्थं यथा - ॥१॥ “चरितह देसि दुविहा, एसणदोसा य इत्थिदोसा य ।
गच्छंमि य सीयंते आयसमुत्थेहिं दोसेहिं ।।" इति, सम्भोगार्थं नाम यत्रोपसम्पन्नस्ततोऽपि विसम्भोगकारणे सदनलक्षणे सत्यपक्रामतीति, आचार्यार्थं नामाचार्यस्य महाकल्पश्रुतादिश्रुतं नास्त्यतस्तदध्यापनाय शिष्यस्य गणान्तरसङ्क्रमो भवतीति, इह च स्वगुरुपृष्ट्वै विसर्जिततेनापक्रमितव्यमिति सर्वत्र पृच्छार्थो व्याख्येयः, उक्तकारणवशात् पक्षादिकालात्परतोऽविसर्जितोऽपिगच्छेदिति, निष्कारणंगणापक्रमणं त्वविधेयं, यतः॥१॥ "आयरियाईण भया पच्छित्तभयान सेवइ अकिच्छ ।
वेयावच्चज्झयणेसु सज्जए तदुवओगेणं ॥" ॥१॥ तथा - “एगो इत्थीगंभो तेणादिभया य अल्लिययगारे ।
कोहादी च उदिन्न परिनिव्वावंति से अन्ने ॥ त्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org