SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ स्थानं - ६, - 11911 "पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अनूनं उसासाणं हवेज्जाहि ॥” इति, - अनन्तरं प्रतिक्रमणमुक्तं, तच्चावश्यकमप्युच्यते, - मू. (५९०) कत्तितानक्खत्ते छतारे पन्नत्ते, असिलेसानक्खत्ते छत्तारे पं० । मू. (५९१) जीवाणं छट्टाणनिव्वत्तिते पोग्गले पावकम्मत्ताते विणिसु वा ३, तं०पुढविकाइयनिवत्तिते जाव तसकायनिवत्तिते, 'एवं चिण उवचिण बंधउदीरवेय तह निजरा चेव ४ । छप्पतेसिया णं खंधा अनंता पन्नत्ता, छप्पतेसोगाढा पोग्गला अनंता पन्नत्ता, छसमयद्वितीता पोग्गला अनंता, छगुणकालगा पोग्गला जाव छगुणलुक्खा पोग्गला अनंता पन्नत्ता । वृ. आवश्यकं च नक्षत्रोदयाद्यवसरे कुर्वन्तीति नक्षत्रसूत्रं शेषसूत्राणि चा अध्ययनपरिसमाप्तेः पूर्वाध्ययनवदवसेयानीति । स्थानं - ६ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता स्थानाङ्गसूत्रे षष्ठं स्थानस्यटीका परिसमाप्ता । ४११ स्थान- ७ वृ. व्याख्यातं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्धः इहानन्तराध्ययने षट्समयोपेताः पदार्थाः प्ररूपिताः, इह तु त एव सप्तसङ्घयोपेताः प्ररूप्यन्त इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रम् मू. (५९२) सत्तविहे गणावक्कमणे पं० तं०- सव्वधम्मा रोतेमि १ एगतिता रोएमि एगइया नो रोएमि २ सव्वधम्मा वितिगिच्छामि ३ एगतिया वितिगिच्छामि एगतिया नो वितिगिच्छामि ४ सव्वधम्मा जुहुणामि ५ एगतिया जुहुणामि एगतिया नो जुहुणामि ६ इच्छामि णं भंते! एगल्लविहारपडिमं उवसंपज्जित्ता णं विहरित्तते ७ । वृ. 'सत्तविहे 'त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः - अनन्तरसूत्रे पुद्गलः पर्यायत उक्ताः, इह तु पुद्गलविशेषाणामेव क्षयोपशमतो योऽनुष्ठानविशेषो जीवस्य भवति तस्य सप्तविधत्वमुच्यते इत्येवंसम्बन्धस्यास्य व्याख्या, संहितादिस्तु तत्क्रमः प्रतीत एव, नवरं सप्तविधंसप्तप्रकारं प्रयोजनभेदेन भेदात् गणाद्-गच्छादप्रक्रमणं-निर्गमो गणापक्रमणं प्रज्ञप्तं तीर्थकरादिभिः तद्यथा सर्व्वान् 'धर्म्मान्' निर्जराहेतून श्रुतभेदान् सूत्रार्थोभयविषयान् अपूर्वग्रहणविस्मृतसन्धानपूर्वाधीतपरावर्त्तनरूपान् चारित्रभेदांश्च-क्षणपवैयावृत्त्यरूपान् 'रोचयामि' रुचिविषयीकरोमि चिकीर्षामि, ते चामुत्र परगणे सम्पद्यन्ते नेह स्वगणे, बहुश्रुतादिसामग्रयभावाद्, अतस्तदर्थं स्वगणादपक्रमामि भदन्त ! इत्येवं गुरुपृच्छाद्वारेणैकं गणापक्रमणमुक्तं १ अथ 'सर्वधर्मान् रोचयामी' त्युक्ते कथं पृच्छार्थोऽवगम्यते इति ?, उच्यते, 'इच्छामि णं भंते! एकल्लविहारपडिम'मित्यादिपृच्छावचनसाधर्म्यादिति, रूचेस्तु करणेच्छार्थता 'पत्तियामि रोएमी' त्यत्र For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy