________________
स्थानं - ६,
शेषं सुगममिति । अनन्तरमुपपातस्य विरह उक्तः, उपपातश्चायुर्बन्धे सति भवतीत्यायुर्बन्धसूत्रप्रपञ्चं छव्विहेत्यादिकमाह
मू. (५८७) छव्विधे आउयबंधे पं० तं०-जातिनामनिधत्ताउते गतिनामनिधत्ताउए ठितिनामनिधत्ताउते ओगाहणानामनिधत्ताउते पएसनामनिधत्ताउए अनुभावनामनिधत्ताउते नेरतियाणं छव्विहे आउयबंधे पं० तं०- जातिनामनिहत्तउते जाव अनुभावनामनिहत्ताउए एवं जाव वेमाणियाणं । नेरइया नियमा छम्मासावसेसाउता परभवियाउयं पगरेंति, एवामेव असुरकुमारावि जाव धणियकुमारा, असंखेज्जवासाउता सन्निपंचिदियतिरिक्खजोणिया नियमं छम्मासावसेसाउया परभवियाउयं पगरेतिं । असंखेज्जा वासाउया सन्नि मणुस्सा नियमं जाव पगर्रिति, वाणमंतरा जोतिसवासिता वेमाणिता जहा नेरतिता ।
वृ. सुगमश्चायं, नवरं आयुषो बन्धः आयुर्बन्धः, तत्र जातिः-एकेन्द्रियजात्यादिः पञ्चधा सैव नाम-नाम्नः कर्म्मण उत्तरप्रकृ तिविशेषो जीवपरिणामो वा तेन सह निधत्तं निषिक्तं यदायुस्तज्जातिनामनिधत्तायुः, निषेकश्च कर्म्मपुद्गलानां प्रतिसमयानुभवनरचनेति, उक्तञ्च"मोत्तूण सगमबाहं पढमाए ठिईए बहुतरं दव्वं । सेसे विसेसहीणं जावुक्कस्संति सव्वासिं ॥" इति,
119 11
तथा गतिः-नरकादिका चतुर्द्धा, शेषं तथैवेति गतिनामनिधत्तायुरिति, तथा स्थितिरिति यत् स्थातव्यं केनचिद्वि वक्षितेन भावेन जीवेनायुः कर्मणा वा सैव नामः - परिणामो धर्मः स्थितिनामस्तेन विशिष्टं निधत्तं यदायुः दलिकरूपं तत्स्थितिनामनिधत्तायुंः, अथवेह सूत्रे जातिनामगतिनामावगाहनानामग्रहणाज्जातिगत्यवगाहनानां प्रकृतिमात्रमुक्तं, स्थितिप्रदेशानुभागनामग्रहणात्तु तासामेव स्थित्यादय उक्ताः,
ते च जात्यादिनासम्बन्धित्वान्नामकर्म्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थो घटत इति स्थितिरूपं नामकर्म्मस्थितिनाम तेन सह निधत्तं यदायुस्तत् स्थितिनामनिधत्तायुरिति, तथा अवगाहते यस्यां जीवः सा अवगाहना शरीरमौदारिकादि तस्या नाम - औदारिकादिशरीरनामकर्मेत्यवगाहनानाम तेन सह यन्निधत्तमायुस्तदवगाहनानामनिधत्तायुरिति, तथा प्रदेशानां - आयुः कर्म्मद्रव्याणां नामः तथाविधा परिणतिः प्रदेशनाम प्रदेशरूपं वा नाम-कर्म्मविशेष इत्यर्थः प्रदेशनाम तेन सह यन्निधत्तमायुस्तठप्रदेशनामनिधत्तायुरिति, तथा अनुभागः- आयुर्द्रव्याणामेव विपाकस्तल्लक्षण एव नामः-परिणामोऽनुभागनामोऽनुभागरूपं वा नामकर्मानुभागनाम तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति, अथ किमर्थं जात्यादिनामकर्म्मणाऽऽयुर्विशिष्यते ? उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थं, यस्मान्नारकाद्यायुरुदये सति जात्यादिनामकर्म्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव, यस्मादुक्तं प्रज्ञप्तयामू
“नेरइए णं भंते ! नेरइएसु उववज्जइ ? अनेरइए नेरइएसु उववज्जइ ?, गोयमा ! नेरइए नेरइएसु उववज्जइ”, एतदुक्तं भवति-नारकायुः संवेदनप्रथमसमय एव नारक इत्युच्यते, तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्म्मणामप्युदय इति, इह चायुर्बन्धस्य षड्विधत्वे उपक्षिप्ते यदायुषः षड्विधत्वमुक्तं तद् आयुषो बन्धाव्यतिरेकाद्बद्धस्यैव चायुर्व्यपदेशविषयत्वादिति । 'नियमं ति अवश्यंभावादित्यर्थः,
Jain Education International
४०७
For Private & Personal Use Only
www.jainelibrary.org