________________
४०६
स्थानाङ्ग सूत्रम् ६/-/५८५ ॥१॥ “जइ तवसा वोदाणं संजमओऽनासवोत्ति ते कहनु ।
देवत्तं जंति जई ? गुरुराह सरागसंजमओ॥इतिः मिथ्याभिनिवेशेन विप्रतिपत्त्येत्यर्थः, परपक्षदूषणार्थंयः क्रियते प्रश्नः स व्युद्ग्रहप्रश्नो,
यथा
॥१॥ (यथा) “सामनाउ विसेसो अन्नोऽणन्नो व होज जइ अन्नो।
सो नत्थि खपुष्फपिव णन्नो सामन्नमेव तयं ।" ति 'अनुयोगीति अनुयोगो-व्याख्यानं प्ररूपणेतियावत् स यत्रास्ति तदर्थं यः क्रियत इति भावो, यथा-'चउहिंसमएहिलोगो' इत्यादिप्ररूपणाय 'कइहिंसमएही'त्यादिग्रन्थकारएवप्रश्नयति, 'अनुलोमे' अनुलोमनार्थ-अनुकूलकरणाय परस्य यो विधीयते, यथा क्षेमं भवतामित्यादि, 'तहनाणे'त्ति यथा प्रच्छनीयार्थे प्रष्टव्यस्य ज्ञानं तथैव प्रच्छकस्यापि ज्ञानं यत्र प्रश्ने स तथाज्ञानो, जानत् प्रश्न इत्यर्थः, सच गौतमादेः, यथा 'केवइकालेणं भंते ! चमरचञ्चा रायहाणी विरहिया उववाएण'मित्यादिरिति, एतद्विपरीतस्त्वतथाज्ञानोऽजानप्रश्न इत्यर्थः, क्वचित् 'छविहे अडे' इति पाठस्तत्र संशयादिभिरर्थो विशेषणीय इति।
मू. (५८६) चमरचंचा णं रायहाणी उक्कोसेणं छम्मासा विरहिते उववातेणं । एगमेगे णं इंदट्ठाणे उक्कोसेणं छम्मासा विरहिते उववातेणं । अधेसत्तमा णं पुढवी उक्कोसेणं छम्मासा विरहिता उववातेणं । सिद्धिगती णं उक्कोसेणं छम्मासा विरहिता उववातेणं।
वृ. इहानन्तरसूत्रेऽतथाज्ञानप्रश्नो दर्शितस्तत्र चोत्तरवस्तुना भाव्यमिति तद् दर्शयति'चमरचंचे'त्यादि, 'चमरस्य'दाक्षिणात्यस्यासुरनिकायनायकस्य चञ्चा-चञ्चाख्या नगरीचमरचञ्चा, या हिजम्बूद्वीपमन्दरस्यपर्वतस्यदक्षिणेन तिर्यगसङ्खयेयान्द्वीपसमुद्रान्व्यतिव्रज्यारुणवरद्वीपस्य बाह्याद् वेदिकान्तादरुणोदं समुद्र द्विचत्वारिंशद्योजनसहाण्यवगाह्य चमरस्यासुरराजस्य तिगिच्छिकूटोनामा य उत्पातपर्वतोऽस्ति सप्तदशैकविंशत्युत्तराणियोजनशतान्युच्चस्तस्य दक्षिणेन षड्योजनकोटीशतानि साधिकान्यरुणोदे समुद्रेतिर्यग्वतिव्रज्याधोरत्नप्रभायाः पृथिव्याःचत्वारिंशतं योजनसहाण्यवगाह्य व्यवस्थिताजम्बूद्वीपप्रमाणाच, साचमरचञ्चा राजधानी उत्कृष्टेनषण्मासान् विरहिता-वियुक्ता उपपातेन, इहोत्पद्यमानदेवानां पण्मासान्यावद्विरहो भवतीति भावः । विरहाधिकारादिदं सूत्रत्रयं
‘एगे' त्यादि, एकैकमिन्द्रस्थानं-चमरादिसम्बन्ध्याश्रयो भवननगरविमानरूपस्तदुत्कर्षण षण्मासान् यावद्विरहितमुपपातेनेन्द्रापेक्षयेति । अधःसप्तमीत्यत्र सप्तमी हि रत्नप्रभापि कथञ्चिद्भतीति तद्वयवच्छेदार्थमधोग्रहणं अतस्तमस्तमेत्यर्थः, साषण्मासान् विरहितोपपातेन, यदाह॥१॥ "चउवीसइं मुहुत्ता १ सत्त अहोरत्त २ तह य पन्नरस ३।
मासो य ४ दो य ५ चउरो ६छम्मासा विरहकालो उ७॥ इति, सिद्धिगतावुपपातो-गमनमात्रमुच्यते न जन्म, तद्धेतूनां सिद्धस्याभावादिति, इहोक्तम्॥१॥ “एगसमओ जहन्नं उक्कोसेणं हवंति छम्मासा।
विरहो सिद्धिगईए उव्वट्टणवजिया नियमा।" इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org