SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ ४०८ _स्थानाङ्ग सूत्रम् ६/-/५८७ ‘छम्मासावसेसाउय’त्ति षण्मासा अवशेषा- अवशिष्टा यस्य तत्तथा तदायुर्येषां ते षण्मासावशेषायुष्काः, परभवो विद्यते यस्मिंस्तत्परभविकं तच्च तदायुश्चेति परभविकायुः 'प्रकुर्वन्ति' बध्नन्ति, असङ्खयेयानि वर्षाण्यायुर्येषां ते तथा तेच ते संज्ञिनश्च-समनस्काः पञ्चेन्द्रियतिर्यग्योनिकाश्चेत्यसङ्घयेयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकाः, इह च संज्ञिग्रहणमसङ्घयेयवर्षायुष्काः संज्ञिन एव भवन्तीति नियमदर्शनार्थं, न त्वसङ्घयेयवर्षायुषामसंज्ञिनां व्यवच्छेदार्थं, तेषामसंभवादिति, इह च गाथे 119 11 “निरइसुर असंखाऊ तिरिमणुआ सेसए उ छम्मासे । इगविगला निरुवक्कमतिरिमणुया आउयतिभागे ॥ “अवसेसा सोवक्कम तिभागनवभागसत्तवीसइमे । बंधंति परभवाउं निययभवे सव्वजीवा उ ।।" इति, इदमेवान्यैरित्थमुक्तम्-इह तिर्यङ्मनुष्या आत्मीयायुषस्तृतीयत्रिभागे परभवायुषो बन्धयोग्या भवन्ति, देवनारकाः पुनः षण्मासे शेषे, तत्र तिर्यङ्मनुष्यैर्यदि तृतीयत्रिभागे आयुर्न बद्धं ततः पुनस्तृतीयत्रिभागस्य तृतीयत्रिभागे शेषे बध्नन्ति, एवं तावत् सङ्क्षिप्तन्त्वायुर्यावत् सर्वजघन्य आयुर्बन्धकाल उत्तरकालञ्च शेषस्तिष्ठति इह तिर्यङ्मनुष्या आयुर्बध्नन्ति, अयं चासङ्क्षेपकाल 'उच्यते, तथा देवनैरयिकैरपि यदि षण्मासे शेषे आयुर्न बद्धं तत आत्मीयस्यायुषः षण्मासशेषं तावत्सङ्क्षिपन्ति यावत्सर्वजघन्य आयुर्बन्धकाल उत्तरकालश्चावशेषोऽवतिष्ठते इह परभवायुर्देवनैरयिका बध्नन्तीत्ययमसङ्क्षेपकालः । मू. (५८८) छव्विधे भावे पं० तं०-ओदतिते उवसमिते खतिते खतोवसमिते पारिणामिते सन्निवाइए । ॥२॥ वृ. अनन्तरमायुः कर्म्मबन्ध उक्तः, आयुः पुनरौदयिकभावहेतुरित्यौदयिकभावं भावसाधर्म्याच्छेषभावांश्च प्रतिपादयन्नाह - 'छव्विहे भावे' इत्यादि, भवनं भावः पर्याय इत्यर्थः, तत्रौदयिको द्विविधः- उदय उदयनिष्पन्नश्च तत्रोदयोऽष्टानां कर्म्मप्रकृतीनामुदयः- शान्तावस्थापरित्यागेनोदीरणावलिकामतिक्रम्योदयावलिकायामात्मीयात्मीयरूपेण विपाक इत्यर्थः, अत्र चैवं व्युत्पत्तिः- उदय एवौदयिकः, उदयनिष्पन्नस्तु कर्म्मोदयजनितो जीवस्य मानुषत्वादिः पर्यायः, तत्र च उदयेन निर्वृत्तस्तत्र वा भव इत्यौदयिकः इत्येवं व्युत्पत्तिरिति, तथा औपशमिकोऽपि द्विविधः-उपशम उपशमनिष्पन्नश्च तत्रोपशमो [ दर्शन] मोहनीयकर्म्मणोऽनन्तानुबन्ध्यादिभेदभिन्नस्योपशमश्रेणिप्रतिपन्नस्य [वा ] मोहनीयभेदान् अनन्तानुबन्ध्यादीनुपशमयतः, उदयाभाव इत्यर्थः, उपशम एवौपशमिकः, उपशमनिष्पन्नस्तु उपशान्तक्रोध इत्यादि, उदयाभावफलरूप आत्मपरिणाम इति भावना, तत्र च व्युत्पत्तिः-उपशमेन निर्वृत्त औपशमिक इति, तथा क्षायिको द्विविधः क्षयः क्षयनिष्पन्नश्च तत्र क्षयोऽष्टानां कर्म्मप्रकृतीनां ज्ञानावरणादिभेदानां, क्षयः कर्म्माभाव एवेत्यर्थः, तत्र क्षय एव क्षायिकः, क्षयनिष्पन्नस्तु तत्फलरूपो विचित्र आत्मपरिणामः केवलज्ञानदर्शनचारित्रादिः, तत्र क्षयेण निर्वृत्तः क्षायिक इति व्युत्पत्तिः, तथा क्षायोपशमिको द्विविधः क्षयोपशमः क्षयोपशमनिष्पन्नश्च तत्र क्षयोपशमश्चतुर्णां For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy