SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ स्थानं -६, ४०३ वृ. कल्पाधिकारे सूत्रद्वयम्- ‘छ कप्पे' त्यादि, षट् कल्पस्य-कल्पोक्तसाध्वाचारस्य परिमथ्नन्तीति परिमन्थवः, उणादित्वात्, पाठान्तरेण परिमन्था वाच्याः, घातका इत्यर्थः, इह च मन्थो द्विधा-द्रव्यतो भावतश्च, यत आह॥१॥ “दव्वंमि मंथओ खलु तेणामंथिज्जए जहा दहियं । दहितुल्लो खलु कप्पो मंथिज्जइ कुक्कुयाईहिं ।।" ति, तत्र ‘कुक्कुइए'त्ति 'कुचअवस्यन्दन' इति वचनात् कुत्सितं-अप्रत्युपेक्षितत्वादिना कुचितंअवस्यान्दितं यस्य स कुकुचितः स एव कौकुचितः, कुकुचा वा-अवस्यन्दनं प्रयोजनमस्येति कौकुचिकः, स च त्रिधा-स्थानशरीरभाषाभिः, उक्तंच “ठाणे सरीर भा सा तिविहो पुण कुक्कुई समासेणं ।।" इति, तत्र स्थानतो योयन्त्रकवत् नर्तिकावद्वा भ्राम्यतीति,शरीरतो यः करादिभिः पाषाणादीन् क्षिपति, उक्तंच॥१॥ “करगोफणधणुपायाइएहि उच्छुहइ पत्थराईए। भमुहादाढियथणपुयविकंपणंणट्टवाइत्तं ॥” इति, -भाषातो यः सेण्टितमुखवादित्रादि करोति, तथा चजल्पतियथा परे हसन्तीति, उक्तंच॥१॥ “छेलिअ मुहंवाइत्तेजंपइ त तहा जहा परो हसइ। कुणइ य रुए बहुविहे वग्धाडियदेसभासाओ।" अयंच त्रिविधोऽपि 'संयमस्य' पृथिव्यादिसंरक्षणादेः कायगुप्तिपर्यन्तस्य यथासम्भवं परिमन्थुर्भवत्येवेति १, मोहरिएत्ति मुखं-अतिभाषणातिशयनवदस्तीति मुखरःसएव मौखरिको बहुभाषीअथवा मुखेनारिमावहतीति नीपातनात् मौखरिकः, उक्तंच “मुखरिस्स गोननामं आवहइ मुहेण भासंतो॥" इति, स च ‘सत्यवचनस्य' मृषावादविरतेः परिमंथुः, मौखर्ये सति मृषावादसम्भवादिति २, 'चक्खुलोल'त्ति चक्षुषा लोलः-चञ्चलः चक्षुर्वा लोलं यस्य स तथा, स्तूपादीनालोकयन् व्रजति य इत्यर्थः, इदं च धर्मकथनादीनामुपलक्षणं, आह च॥१॥ “आलोयंतो वच्चइथूभाईणि कहेइ वा धम्म । परियट्टणानुपेहण न पेह पंथं अनुवउत्तो॥” इति, 'इरियावहिए'त्ति ईर्या-गमनं तस्याः पन्था-मार्ग ईर्यापथस्तत्र भवा या समितिरीर्या'समितिलक्षणा सा ईर्यापथिकी तस्याः परिमन्थुरिति, आह च॥१॥ “छक्कायाण विराहण संजम आयाए कंटगाई वा। आवडणभाणभेओ खद्धे उड्डाह परिहाणी ॥” इति, 'तिंतिणिए'त्ति तितिणिकोऽलाभे सति खेदावत्किञ्चनाभिधायी, सचखेदप्रधानत्वादेषणा-उद्गमादिदोषविमुक्तभक्तपानादिगवेषणग्रहणलक्षणा तत्प्रधानो यो गोचरो-गोरिव मध्यस्थतया भिक्षार्थंचरणस एषणागोचरस्तस्य परिमन्थुः, सखेदो हि अनेषणीयमपि गृह्णातीति भावः ४, ‘इच्छालोभिए'त्ति इच्छा-अभिलाषः स चासौ लोभश्च इच्छालोभो, महालोभ इत्यर्थः, शुक्लशुक्लोऽतिशुक्लो यथा, य यस्यास्ति स इच्छालोभिको-महेच्छोऽधिकोपधिरित्यर्थः, उक्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy