SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ४०२ स्थानाङ्ग सूत्रम् ६/-/५७९ तद्वार्त्तावा, तदासेवाभणनरूपां वदति, तथाहि अवमो भावयति एव रत्नाधिकतया मां स्खलितादिषु प्रेरयति, ततो रोषादभ्याख्याति 119 11 “जेट्ठज्ज्रेण अकज्जं सज्जं अजाधरे कयं अज्ज । उवजीविओय भंते! मएवि संसदृकप्पोऽत्थ ॥" प्रस्तारभावना प्राग्वत् ४, तथा अपुरुषो नपुंसकोऽयमित्येवं वादं वाचं वार्त्ता वा वदतीति, इह समासः प्रतीत एव, भावनाऽत्र - आचार्य प्रत्याह- अयं साधुर्नपुंसकं, आचार्य आह-कथं जानासि स आह- एतन्निजकैरहमुक्तः - किं भवतां कल्पते प्रव्राजयितुं नपुंसकमिति, ममापि किञ्चित्तल्लिङ्गदर्शनाच्छङ्का अस्तीति, प्रस्तारः प्राग्वत, अत्राप्युक्तम् 119 11 “तइओत्ति कहं जाणसि ? दिट्ठा नीया सि तेहि मे वृत्तं । वट्टइ तइओ तुब्भं पव्वावेउं ममवि संका ॥ दीसइ य पाडिरूवं ठियचंकंमियसरीरभासादी । बहुसो अपुरिसवयणे पत्थारारोवणं कुज्जा ॥” इति, तथा दासवादं वदति, भावना - कश्चिदाह-दासोऽयं, आचार्य आह-कथं ?, देहाकाराः कथयन्ति दासत्वमस्येति, प्रस्तारः प्राग्वदिति, अत्राप्युक्तम् 119 11 "खरुउत्ति कहं जाणसि ? देहागारा कहिंति से हंदि । छक्कोवण उब्भंडो नीयासी दारुणसहावो ॥ देहेण वा विरूवो खुजो वडभो य बाहिरप्पाओ । फुडमेवं आगारा कहंति जह एस खरओ त्ति ।।" आचार्य आह ॥२॥ ॥२॥ "कोइ सुरूवविरूवा खुज्जा मडहा य बाहिरप्पा य । न हु ते परिभवियव्वा वयणं च अनारियं वोत्तुं ॥” इति ६, एवंप्रकारान् एतानन्तरोदितान् षट् कल्पस्य - साध्वाचारस्य प्रस्तारान् प्रायश्चित्तरचनाविशेषान् मासगुर्व्वादिपाराञ्चिकावसानान् प्रस्तार्य-अभ्युपगमतः आत्मनि प्रस्तुन् विधाय प्रस्तारयिता वा-अभ्याख्यानदायकसाधुः सम्यगप्रतिपूरयन्- अभ्याख्येयार्थस्यासद्भूततया अभ्याख्यानसमर्थनं कर्तुमशक्नुवन् प्रत्यगिरं कुर्वन् सन् तस्यैव-प्राणातिपातादिकर्तुरेव स्थानं प्राप्तोगतः तत्स्थानप्राप्तः स्यात्-प्राणातिपातादिकारीव दण्डनीयः स्यादिति भावः अथवा प्रस्तारान् प्रस्तीर्य- विरचय्याचार्येण अभ याख्यानदाता अप्रतिपूरयन्-अपरापरप्रत्ययवचनैस्तमर्थमसत्यमकुर्वन् तत्स्थानप्राप्तकार्यइति शेषः, यत्र प्रायश्चित्तपदे विवदमानोऽवतिष्ठते न पदान्तरमारभते तत्पदं प्रापणीय इति भावः, शेषं सुगममिति । मू. (५८०) छ कप्पस्स पलिमंधू पं० तं०- कोकुतिते संजमस्स पलिमंथू १ मोहरिते सच्चवयणस्स पलिमंथू २ चक्खुलोलुते ईरितावहिताते पलिमनधू ३ तिंतिणिते एसणागोयरस्स पलिमंथू ४ इच्छालोभिते मोत्तिमग्गस्स पलिमंधू ५ भिज्जाणिताणकरणे मोक्खमग्गस्स पलिमंथू ६ सव्वत्थ भगवता अनिताणता पसत्था । For Private & Personal Use Only 119 11 Jain Education International www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy