SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३९६ स्थानाङ्ग सूत्रम् ६/-/ ५६५ अनन्तरं साधुचर्योक्तेति चर्याप्रस्तावादसाधुचर्याफलभोक्तृस्थानविशेषाभिधानाय सूत्रद्वयंमू. (५६६) जंबुद्दीवे २ मंदरस्स पव्वयस्स य दाहिणेणमिमीसे रतणप्पभाते पुढवीए छ अवकंतमहानिरता पं० तं०-लोले लोलुए उदड्डे निदड्डे जरते पज्जरते, चउत्थीए णं पंकप्पभाए पुढवीते छ अवक्कंता महानिरता पं० तं०-आरे वारे मारे रोरे रोरुते खाडखडे । वृ. 'जंबूद्दीवे' त्यादि सुगमं, नवरं 'अवक्कंत 'त्ति अपक्रान्ताः- सर्वशुभभावेभ्योऽपगताभ्रष्टास्तदन्येभ्योऽतिनिकृष्टा इत्यर्थः, अपकान्ता वा अकमनीयाः, सर्वेऽप्येवमेव नरकाः, विशेषतश्चैते इति दर्शनार्थं विशेषणमिति सम्भाव्यते, ते च ते महानरकाश्चेति विग्रहः, एतेषां चैवं प्ररूपणा 119 11 "तेरिक्कारस नव सत्त पंच तिन्नेव होंति एक्को य । पत्थङसङखा एसा सत्तसुवि कमेण पुढविसुं ॥" एवमेकोनपञ्चाशत्प्रस्तटाः, एतेषु क्रमेणैतावन्त एव सीमन्तकादयो वृत्ताकारा नरकेन्द्रकाः, तत्र सीमन्तकस्य पूर्वादिदिक्षु एकोनपञ्चाशत्प्रमाणा नरकावली दिदिक्षु चाष्टचत्वारिंशत्प्रमाणेति प्रतिप्रस्तटमुभयैकेकहान्या सप्तभ्यां दिक्ष्वेकैक एव विदिक्षु न सन्त्येवेति, उक्तं च 119 11 ॥२॥ "एगूणुवन्ननिरया सेढी सीमंतगस्स पुव्वेणं । उत्तरओ अवरेण य दाहिणओ चेव बोद्धव्वा ॥ अयाली संनिरया सेढी सीमंगस्स बोद्धव्वा । पुव्वुत्तरेण नियमा एवं सेसासु विदिसासु ।। एक्केको य दिसासुं मज्झे निरओ भवेऽपइट्ठाणो । विदिसानिरयविरहियं तं पयरं पंचणं जाण ।।" ॥३॥ 119 11 - सीमन्तकस्य च पूर्वादिषु दिक्षु सीमन्तकप्रभादयो नरका भवन्ति, तदुक्तम्“सीमंतकप्पभो खलु निरओ सीमंगस्स पुव्वेण । सीमंतगमज्झिमओ उत्तरपासे मुणेयव्वो ॥ सीमंतावत्तो पुण निरओ सीमंतगस्स अवरेणं । सीमंतगावसिडो दाहिणपासे मुणेयव्वो ।' इति, ॥२॥ ततः पूर्वादिषु चतसृषु दिक्षु सीमन्तकापेक्षया तृतीयादयः प्रत्येकमावलिकासु विलयादयो नरका भवन्तीति, एवं चैते लोलादयः षडप्यावलिकागतानां मध्ये अधीता विमाननरकेन्द्रकाख्ये ग्रन्थे, यतस्तत्रोक्तम् -“लोलेतह लोलुए चेव" इति एतौ चावलिकायाः पर्यन्तिमौ तथा 'उद्दड्डे चेव निद्दड्डे' त्ति तौ सीमन्तकप्रभाद्विंशतितमैकविंशाविति, तथा 'जरए तह चेव पञ्जरए 'त्ति पञ्चत्रिंशत्तमषट्त्रिंशत्तमौ, केवलं लोलो लोलुप इत्येवं शुद्धपदैः सर्वनरकाणां पूर्वालिकायामेवाभिलापः, उत्तरदिगाद्यावलिकासु पुनरेभिरेव सविशेषैर्नामभिर्नरका अभिलप्यन्ते, तद्यथा-उत्तरायांलोलमध्यो लोलुपमध्य इत्यादि, एवं पश्चिमायां लोकावर्त्तो दक्षिणाया लोलावशिष्ट इत्यादि, उक्तं च 119 11 “मज्झा उत्तरपासे आवत्ता अवरओ मुणेयव्वा । सिट्टा दाहिणपासे पुव्विल्लाओ विभइयव्वा ॥” इति, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy