________________
स्थानं - ६, -
३९५
पूर्वं तत्पक्षाभ्युपगमेनानु लोमं कृत्वा 'पडिलोमइत्ता; 'प्रतिलोमान् कृत्वा अध्यक्षान् प्रतिपन्थिनं वा, सर्वथा सामर्थ्ये सतीति, तथा 'भइत्त' त्ति अध्यक्षान् भक्त्वा संसेव्य, तथा 'भेलइत्त' त्ति स्वपक्षपातिभिर्मिश्रान्कारणिकान् कृत्वेति भावः क्वचित्तु 'भोयइत्त' त्ति पाठः तत्र भेदयित्वा केनाप्युपायेन प्रतिपन्थिनं प्रति कारणिकान् द्वेषिणो विधाय स्वपक्षाग्रहिणो वेति भावः । विवादं च कृत्वा ततीऽप्रतिक्रान्ताः केचित् क्षुद्रसत्त्वेषूत्पद्यन्त इति तान्निरूपयन्नाह
मू. (५६४) छव्विहा खुड्डा पाणा पं० तं०- बेदिता तेइंदिता चउरिंदिता संमुच्छिमपंचिंदिततिरिक्खजोणिता तेउकातिता वाउकातिता ।
वृ. 'छव्विहे 'त्यादि सुगमं, परमिह क्षुद्राः - अधमाः, यदाह
-“अल्पमधमं पणस्त्रीं क्रूरं सरघां नटीं च षट् क्षुद्रान् । ब्रुवते" इति,
119 11
अधमत्वं च विकलेन्द्रियतेजोवायूनामनन्तरभवे सिद्धिगमनाभावाद्, यत उक्तम्“भूदगपंकप्पभवा चउरो हरिया उ छच्च सिज्ज्ञेज्जा । विगला लभेज्ज विरई नउ किंचि लभेज्जा सुहुमतसा ॥” - तथा एतेषु देवानुत्पत्तेश्च यत उक्तम्"पुढवीआउवणस्सइगब्भे पजत्तसंखजीवीसु । सग्गच्चुयाण वासो सेसा पडिसेहिया ठाणा ॥” इति सम्मूर्च्छिमपञ्चेन्द्रियतिरश्चां चाधमत्वं तेषु देवानुत्पत्तेः, तथा पञ्चेन्द्रियत्वेऽप्यमनस्कतया विवेकाभावेन निर्गुणत्वादिति, वाचनानन्तरे तु सिंहाः व्याघ्रा वृका दीपिका ऋक्षास्तरक्षा इति क्षुद्रा उक्ताः क्रूरा इत्यर्थः । अनन्तरं सत्त्वविशेषा उक्ताः, सत्त्वानां चानपायतः साधुना भिक्षाचर्या कार्येति, सा च षोढेति दर्शयन्नाह
119 11
मू. (५६५) छव्विधा गोयरचरिता पं० तं० पेडा अद्धपेडा गोमुत्तिता पतंगविहिता संबुक्कवंट्टा सुंपच्चगता ।
वृ. 'छव्विहे 'त्यादि, 'गोयरचरिय'त्ति गोः बलीवर्द्दस्य चरणं चरः गोचरस्तद्वद्या चर्याचरणं सा गोचरचर्या, इदमुक्तं भवति यथा गोरुच्चनीचतृषेष्वविशेषतश्चरणं प्रवर्त्तते तथा यत्साधोररक्तद्विष्टस्योच्चनीचमध्मकुलेषु धर्मसाधनदेहपरिपालनाय भिक्षार्थं चरणं सा गोचरचर्येति, इयं चैकस्वरूपाऽप्यभिग्रहविशेषात् षोढा
तत्र प्रथमा पेटा - वंशदलमयं वस्त्रादिस्थानं जनप्रतीतं, सा च चतुरा भवति, स्थापना ततश्च साधुरभिग्रहविशेषाद्यस्यां चर्यायां ग्रामादिक्षेत्रं पेटावच्चतुरस्रं विभजन्विहरति सा पेटेत्युच्यते, एवमर्द्धपटाऽपि एतदनुसारेण वाच्या, गोर्मूत्रणं गोमूत्रिका तद्वद्या सा तथा, इयं हि परस्पराभिमुखगृहपङ्कतयोरेकस्यांगत्वा पुनरितरस्यांपुनस्तस्यामेवेत्येवं क्रमेण भावनीया, पतङ्गः - शलभस्तस्य वीथिकामार्गः तद्वद्या सा तथा, पतङ्गगतिर्हि अनियतक्रमा भवति एवं याऽनाश्रितक्रमा सा तथा,
'संबुक्कवट्ट' त्ति संबुक:- शङ्खस्तद्वच्छ्ङ्खभ्रमिवदित्यर्थो या वृत्ता सा संबुक्कवृत्तेति, इयं च द्वेधा, तत्र यस्यां क्षेत्रबहिर्भागाच्छङ्घवृत्तत्वगत्याऽटन् क्षेत्रमध्यभागमायाति साऽभ्यन्तरसंबुक्का, यस्यां तु मध्यभागाद् बहिर्याति सा बहिः सम्बुक्केति, 'गंतुं पञ्चागय'त्ति उपाश्रयान्निर्गतः सन्नेकस्यां गृहपङ्कतौ भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयायां गृहपङ्कतौ यस्यां भिक्षते सा गत्वाप्रत्यागता, गत्वा प्रत्यागतं यस्यामिति च विग्रह इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org