________________
३९४
स्थानाङ्ग सूत्रम् ६/-/५६२ प्रतीता, भावतस्तु क्रोधादित्याग इति २,।
तथा भिक्षार्थं चर्या-चरणमटनं भिक्षाचर्या सैव तपो निर्जराङ्गत्वादनशनवद् अथवा सामान्योपादानेऽपि विशिष्टा विचित्राभिग्रहयुक्तत्वेन वृत्तिसङ्केपरूपा सा ग्राह्या, यत इहैववक्ष्यति'छविहागोयरचरिय'त्ति, नचेयंततोऽत्यन्तभिन्नेति, भिक्षाचर्यायांचाभिग्रहाद्रव्यादिविषयतया चतुर्विधाः, तत्र द्रध्यतोऽलेपकार्याद्येव द्रव्यंग्रहीष्ये, क्षेत्रतः परग्रामगृहपञ्चकादिलब्धं, कालतः पूर्वाह्लादी, भावतो गानादिप्रवृत्ताल्लब्धमिति ३, रसाः-क्षीरादयस्तत्परित्यागो रस परित्यागः ४, कायक्लेशः-शरीरक्लेशनं स च वीरासनादिरनेकधा ५, प्रतिसंलीनता-गुप्तता, सा चेन्द्रियकषाययोगविषया वितिक्तशयनासनता वेति ६। ___अभिंतरए'त्ति लौकिकैरनभिलक्ष्यत्वात् तन्त्रान्तरीयैश्च परमार्थतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाच्चाभ्यन्तरमिति, प्रायश्चित्तं-उक्तनिर्वचनमालोचनादि दशविधमिति १, विनीयते कर्म येन सविनयः, उक्तंच॥१॥ “जम्हा विनयइ कम्मं अट्ठविहं चाउरंतमोक्खाए।
तम्हा उ वयंति विऊ विनयंति विलीनसंसारा ।।" इति, सचज्ञानादिभेदात् सप्तधा वक्ष्यते २ तथा व्यावृत्तभावोवैयावृत्त्यं धर्मसाधनार्थमन्नादिदानमित्यर्थः, आह च
"वेयावच्चं वावडभावो इह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा संपायणमे स भावत्थो॥१॥" इति,
-तच्च दशधा॥१॥
"आयरिय उवज्झाए थेरतवस्सीगिलाणसेहाणं ।
साहमियकुलगणसंघसंगयं तमिह कायव्वं" इति सुष्ठुआमर्यादया अध्यायः-अध्ययनंस्वाध्यायः, सच पञ्चधा-वाचना प्रच्छनापरावर्तना अनुप्रेक्षा धर्मकथा चेति ४, ध्यातिद्धर्यानं एकाग्रचिन्तनिरोधस्तच्चतुर्द्धा प्राग् व्याख्यातं, तत्र धर्मशुक्ले एव तपसी निर्जरार्थत्वात् नेतरे बन्धहेतुत्वादिति ५, व्युत्सर्गः-परित्यागः, स च द्विधाद्रव्यतो भावतश्च, तत्र द्रव्यतो गणशरीरोपध्याहारविषयः, भावतस्तु क्रोधादि विषय इति ६ । एते च तपःसूत्रे दशकालिकाद्विशेषतोऽवसेये इति।
मू. (५६३) छविहे विवादेपं०२०-ओसक्कतित्ता उस्सकइताअनुलोमइत्तापडिलोमतित्ता भइत्ता भेलतित्ता।
वृ.अनन्तरोदितार्थेषु विवदते कश्चिदिति विवादस्वरूपमाह-'छब्विहे'त्यादि, षड्विधःषड्भेदोविप्रतिपन्नयोः क्वचिदर्थेवादो जल्पोविवादःप्रज्ञप्तः, तद्यथा-'ओसक्कइत्त'त्तिअवष्वष्क्यअपसृत्यावसरलाभाय कालहरणं कृत्वा यो विधीयते स तथोच्यते, एवं सर्वत्र, क्वचिच्च 'ओसक्कावइत्त'त्तिपाठस्तत्र प्रतिपन्थिनं केनापि व्याजेनापसl-अपसृतंकृत्वा पुनरवसरमवाप्य विवदते, 'ओसक्कइत्त'त्ति उत्ष्वष्क्य उत्सृत्य लब्धावसरतयोत्सुकीभूय उस्सक्कावइत्त'त्तिपाठान्तरे परमुत्सुकीकृत्य लब्धावसरोजयार्थी विवदते, तथा 'अनुलोमइत्त'त्ति विवादाध्यक्षान् सामनीत्याऽनुलोमान् कृत्वा प्रतिपन्थिनमेव वा
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only