________________
स्थानं - ६, -
इह तु दक्षिणानामेषां विवक्षितत्वेन लोलावशिष्ट इत्यादिवक्तव्येऽपि सामान्याभिधानमेव निर्व्विशेषं विवक्षितमिति सम्भाव्यते । 'चउत्थीए' त्ति पङ्कप्रभायां अपक्रान्ता अपकान्ता वेत्यादि तथैव, इह च सप्त प्रस्तटाः सप्तैव नरकेन्द्रकाः, यथोक्तम्
॥२॥
"आरे मारे नारे तत्थे तमाए य होइ बोद्धव्वे । खाडखडे य खडखडे इंदयनिरया चउत्थीए ।। " इति,
३९७
तदेवं आरा मारा खाडखडा नरकेन्द्रकाः, अन्ये तु वाररोररोरुकाख्यायः प्रकीर्णकाः, अथवा इन्द्रका एव नामान्तरैरुक्ता इति सम्भाव्यत इति । अनन्तरमसाधुचर्याफलभोक्तृस्थानान्युक्तानीतश्च साधुचर्याफलभोक्तृस्थानविशेषानाह
मू. (५६७) बंभलोगे णं कप्पे छ विमाणपत्थडा पं० तं० - अरते विरतेणीरते नीम्मले वितिमिरे विसुद्धे ।
वृ. 'बंभे'त्यादि, 'बंभलोए 'त्ति पञ्चमदेवलोके षडेव विमानप्रस्तटाः प्रज्ञप्ताः, आह च-“तेरस बारस छ पंच चेव चत्तारि चउसु कप्पेसु ।
119 11
गेवेसु तिय तिय एगो य अनुत्तरेसु १ भवे ।।" त्ति १३-१२-६-५-१६-९-१= सर्वेऽपि ६२, तद्यथा अरजा इत्यादि सुगममेवेति । अनन्तरंविमानवक्तव्यतोक्तेति तत्प्रस्तावान्नक्षत्रविमानवक्तव्यतां सूत्रत्रयेणाह
मू. (५६८) चंदस्स णं जोतिसिंदस्स जोतिसरन्नो छ नक्खत्ता पुव्वंभागा समखेत्ता तीसतिमुहुत्ता पं० तं०-पुव्वाभद्दवया कत्तिता महा पुव्वाफग्गुणी मूलो पुव्वासाढा । चंदस्स णं जोतिसिंदस्स जोतिसरण्णो छ नक्खत्ता नत्तंभागा अवड्ढक्खेत्ता पन्नरसमुहुत्ता पं० तं०-सयभिसता भरणी अद्दा अस्सेसा साती जेट्ठा। चंदस्स णं जोइसिंदस्स जोतिसरन्नो छ नक्खत्ता उभयंभागा दिवड्ढखेत्ता पणयालीसमुहुत्ता पं० तं०-रोहिणी पुनव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा उत्तराभद्द्रवया ।
वृ. 'चंदस्से' त्यादि व्यक्तं, नवरं 'पुव्वंभाग 'त्ति पूर्वमिति पूर्वभागेनाग्रेणेत्यर्थो भज्यन्ते अप्राप्तेनैव चन्द्रेण सेव्यन्ते युज्यन्ते इतियावदिति पूर्वभागानि, अनुस्वारश्च प्राकृतत्वादिति, चन्द्रस्याग्रयोगीनि, चन्द्रएतान्यप्राप्तो भुङ्कतइति लोक श्रीप्रोक्ता भावनेति, उक्तं च तत्रैव
"पुव्वा तिन्नि य मूलो मह कित्तिय अग्गिमा जोगा" इति,
'समं' स्थूलन्यायमाश्रित्य त्रिंशन्मुहूर्तभोग्यं क्षेत्रं- आकाशदेशलक्षणं येषां तानि समक्षेत्राणि, अतएवाह-‘त्रिंशन्महूर्त्तानि' त्रिंशतं मुहूर्ताश्चन्द्रभोगो येषां तानि तथा, 'नंतंभाग' त्ति नक्तंभागानि चन्द्रस्य समयोगीनीत्यर्थः, उक्तं च
"अद्दा सेसा साई सयभिसमभिई य जेट्ट समजोगा "
केवलं भरणीस्थाने लोकश्रीसूत्रे अभिजिदुक्तेति मतविशेषो दृश्यत इति, अपार्द्धसमक्षेत्रापेक्षया अर्द्धमेव क्षेत्रं येषां तानि तथा, अर्द्धक्षेत्रत्वमेवाह- 'पंचदशमुहूर्तानी' ति, 'उभयभाग' त्ति चन्द्रेणोभयतः उभयभागाभ्यां पूर्वतः पश्चाच्चेत्यर्थो भज्यन्ते भुज्यन्ते यानि तान्युभयभागानि, चन्द्रस्य पूर्वतः पृष्ठतश्च भोगमुपगच्छन्तीत्यर्थः इति भावना लोकश्रीभणितेति, उक्तं च"उत्तरतिन्नि विसाहा पुनव्वसू रोहिणी उभयजोगा ।" इति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org