SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३८० स्थानाङ्ग सूत्रम् ५/३/५१७ मू. (५१७) जीवाणं पंचट्ठाणनिव्वित्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, तं०- एगिंदितनिव्वत्तिते जाव पंचिंदितनिव्वत्तिते, एवं 'चिण उवचिण बंध उदीर वेद तह निजरा चेव'। पंचपतेसिता खंधा अनंता पन्नत्ता पंचपतेसोगाढा पोग्गला अनंता पन्नत्ता जाव पंचगुणलुक्खा पोग्गला अनंता पन्नत्ता । वृ. पुद्गलाश्च विविधपरिणामा इति पुद्गलसूत्राणीति, व्याख्या च प्राग्वदध्ययनसमाप्तिं यावत्सुकरैवेति ॥ स्थानं - ५ - उद्देशकः - ३ समाप्तः स्थानं - ५ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरिविरचिता स्थानाङ्गसूत्रे पञ्चमस्थानस्य टीका परिसमाप्ता । स्थानं - ६ वृ. व्याख्यातं पञ्चममध्ययनमधुना सङ्ख्याक्रमसम्बध्धमेव षट्स्थानकाख्यं षष्ठमारभ्यते, अस्य चायं विशेषसम्बन्धः - इहानन्तराध्ययने जीवादिपर्यायप्ररूपणा कृता इहापि सैव क्रियते इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रम् - मू. (५१८) छहिं ठाणेहिं संपन्ने अनगारे अरिहति गणं धारित्तते, तं०- सड्डी पुरिसज्जाते १ सच्चे पुरिसजाते २ मेहावी पुरिसजाते ३ बहुस्सुते पुरिसजाते ४ सत्तिमं ५ अप्पाधिकरणे ६ । वृ. अस्य चायमभिसम्बन्धः, पूर्वसूत्रे 'पञ्चगुणरूक्षाः पुद्गला अनन्ताः प्रज्ञप्ता' इत्युक्तं, प्रज्ञापकाश्चैषामर्थतोऽर्हन्तः सूत्रतो गणधराः, गणधराश्च यैर्गुणैर्युक्तस्यानगारस्य गणधरणार्हत्वं भवति तद्युक्ता एवेति तेषां गुणानामुपदर्शनायेदमुक्तमित्येवंसम्बन्धस्यास्य व्याख्या, संहितादिचस्तु प्रतीत एवेति, नवरं षड्भिः स्थानैः - गुणविशेषैः 'सम्पन्नो' युक्तोऽनगारो - भिक्षुः 'अर्हति' योग्यो भवति 'गणं' गच्छं धारयितुं मर्यादायामिति गम्यते, पालयितुं वेत्यर्थः 'सद्धि’त्ति श्रद्धावान्, अश्रद्धावतो हि स्वयममर्यादावार्त्तितया परेषां मर्यादास्थापनायामसमर्थत्वाद् गणधारणानर्हत्वं, एवं सर्वत्र भावना कार्या, 'पुरुषजातं' पुरुषप्रकारः, इह च षड्भिः स्थानैरित्युक्त्वापि यदुक्तं श्राद्धं पुरुषजातमिति तद्धर्म्मधर्मवतोरभेदाद् अन्यथा श्राद्धत्वं सत्यत्वमित्यादि वक्तव्यं स्यादिति १ तथा 'सत्यं' दृभ्यो- जीवेभ्यो हिततया प्रतिज्ञातशूरतया वा, एवंभूतो हि पुरुषो गणपालक आदेयश्च स्यादिति २, तथा 'मेधावि' मर्यादया घावतीत्येवंशीलमिति निरुक्तिवशात्, एवंभूतो हि गणस्य मर्यादाप्रवर्त्तको भवति, अथवा मेधाश्रुतग्रहणशक्तिस्तद्वत्, एवंभूतो हि श्रुतमन्यतो झगिति गृहीत्वा शिष्याध्यापने समर्थो भवतीति ३ तथा बहु-प्रभूतं श्रुतं सूत्रार्थरूपं यस्य तत्तथा, अन्यथा हि गणानुपकारी स्यात्, उक्तं च11911 "सीसाण कुणइ कह सो तहाविहो हंदि नाणमाईणं । अहियाहियसंपत्तिं संसारुच्छेयणं परमं ?" - ॥२॥ तथा "कह सो जयउ अगीओ कह वा कुणउ अगीयनिस्साए । कह वा करेउ गच्छं सबालवुड्डाउलं सो उ ॥” इति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy