________________
स्थानाङ्ग सूत्रम् ५/३/४९२
पूजया हिता अपूजया त्वहिता इत्यर्थः ॥ श्रमणाः पञ्चधा-निर्ग्रन्थाः शाक्यास्तापसा गैरिका आजीविकाश्चेति, तत्र शाक्यवनीपको यथा
119 11
"भुजंति चित्तकम्मट्ठिया व कारुणियदाणरुइणो य । अवि कामगद्दभेसुवि न नस्सए किं पुण जतीसु ? " इति, एवमन्येऽपि तापसवनीयकादयो द्रष्टव्या इति ।
३७०
योऽयं वनीपक उक्तः स साधुविशेषः, साधुश्चाचेलो भवतीत्यचेलत्वस्य प्रशंसास्थानान्याह - मू. (४९३) पंचहिं ठाणेहिं अचेलए पसत्थे भवति, तं० - अप्पा पडिलेहा १ लाघविए पसत्थे २ रूवे वेसासिते ३ तवे अणुन्नाते ४ विउले इंदियनिग्गहे ५ ।
वृ. 'पंचही 'त्यादि प्रतीतं, नवरं न विद्यन्ते चेलानि वासांसि यस्यासावचेलकः, स च जिनकल्पिकविशेषस्तदभावादेव तथा जिनकल्पिकविशेषः स्थविरकल्पिकश्चाल्पाल्पमूल्यसप्रमाणजीर्णमलिनवसनत्वादिति, 'प्रशस्तः' प्रशंसितस्तीर्थकरगणधरादिभिरिति गम्यते, अल्पा प्रत्युपेक्षाऽचेलकस्य स्यादिति गम्यम्, प्रत्युपेक्षणीयतथाविधोपधेरभावाद्, एवं च न स्वाध्यायादिपरिमन्थ इति, तथा लघोर्भावो लाघवं तदेव लाघविकं द्रव्यतो भावतोऽपि रागविषयाभावात् प्रशस्तं - अनिन्द्यं स्यात्, तथा रूपं - नेपथ्यं वैश्वासिकं विश्वासप्रयोजनमलिप्सुतासूचकत्वात् स्यादिति, तथा तपः - उपकरणसंल्लीनतारूपमनुज्ञातं - जिनानुमतं स्यात्, तथा विपुलो महानिन्द्रियनिग्रहः स्याद्, उपकरणं विना स्पर्शनप्रतिकूलशीतवातातपादिसहनादिति । इन्द्रियनिग्रहश्च सत्त्वेनोत्कटैरेव कर्त्तुं शक्य इत्युत्कटभेदानाह
मू. (४९४) पंच उक्कला पन्नत्ता तं०-दंडुक्कले रज्जुक्कले तेणुक्कले देसुक्कले सव्वुक्कले । वृ. 'पंचे' त्यादि सुगमं, नवरं 'उक्कल' त्ति उत्कटा उत्कला वा, तत्र दण्डः - आज्ञा अपराधे दण्डनं वा सैन्यं वा उत्कटः प्रकृष्टो यस्य तेन वोत्कटो यः स दण्डोत्कटः, दण्डेन वोत्कलति-वृद्धिं याति यः स दण्डोत्कलः, इत्येवं सर्वत्र, नवरं राज्यं प्रभुता स्तेनाः - चौराः देशोमण्डलं सर्वं एतत्समुदय इति । असंयतो दण्डादिभिरुत्कटो भवति, संयतस्तु समितिभिरिति समितीः प्राह
मू. (४९५) पंच समितीतो पं० - ईरियासमिती भासा० जाव पारिठावणियासमिती । वृ. 'पंचे' त्यादि सुगमं, नवरं सम्- एकीभावेनेतिः-प्रवृत्तिः समितिः शोभनैकाग्रपरिणामस्य चेष्टेत्यर्थः, ईरणमीर्या गमनमित्यर्थः तत्र समितिरीर्यासमितिः, उक्तं च- 'इर्यासमितिर्नाम रथशकटयानवाहनाक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु युगमात्रष्टिना भूत्वा गमनागमनं कर्त्तव्यमिति, तथा भाषणं भाषा तस्यां समितिर्भाषासमितिः, उक्तं च
"भाषासमितिर्नाम हितमितासन्दिग्धार्थभाषणं" तथा एषणमेषणा गवेषणग्रहणग्रासैषणाभेदा शङ्कादिलक्षणा वा तस्यां समितिरेषणासमितिः, उक्तं च
“एषणासमितिर्नाम गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्राह्यम्' इति, तथा 'आदानभाण्डमात्रनिक्षेपणासमितिः ' भाण्डमात्रे आदाननिक्षेपविषया सुंदरचेष्टेत्यर्थः, इह चाप्रत्युपेक्षिताप्रमार्जिताद्याः सप्त भङ्गाः पूर्वोक्ता भवन्तीति, तथा उच्चारप्रश्रवणखेलसिंघाणजल्लानां परिष्ठापनिका -त्यागस्तत्र समितिर्या सा तथेति, तत्रोच्चारः - पुरिषंश्रवणं - मूत्रं खेलः श्लेष्मा जल्लोमलः सिंघानो - नासिकोद्भवः श्लेष्मा, अत्रापि त एव सप्त भङ्गा इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org