________________
३६८
स्थानाङ्ग सूत्रम् ५/३/४८७ युक्तियुक्तत्वात् इति १,तथाअभिःशौचमपशौचंप्रक्षालनमित्यर्थः २, तेजसाऽग्निनातद्विकारेण वा भस्मना शौचं तेजःशौचं ३, एवं मंत्रशौचं शुचिविद्यया ४ ब्रह्म ब्रह्मचर्यादिकुशलानुष्ठानं तदेव शौचं ब्रह्मशौचं ५, अनेन च सत्यादिशौचं चतुर्विधमपि सङ्ग्रहीतं, तच्चेदम्॥१॥ "सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः ।
सर्वभूतदया शौचं, जलशौचञ्च पञ्चमम "
- इति, लौकिकैः पुनरिदं सप्तधोक्तम्- यहाह॥१॥ “सप्तस्नानानि प्रोक्तानि स्वयमेव स्वयंभुवा।
द्रव्यभावविशुध्ध्यर्थमृषीणां ब्रह्मचारिणाम् ॥२॥ आग्नेयं वारुणं ब्राहम्यं, वायव्यं दिव्यमेव च।
पार्थिवं मानसं चैव, स्नानं सप्तविधं स्मृतम् ॥३॥ आग्नेयं भस्मना स्नानमवगाह्यं तु वारुणं ।
आपोहिष्ठामयं ब्राहम्यं, वायव्यं तु गवां रजः ॥४॥ सूर्यदृष्टं तु यदृष्टं, तद्दिव्यमृषयो विदुः।
पार्थिवं तु मृदा स्नानं, मनःशुद्धिस्तु मानसम्" इति । अनन्तरं ब्रह्मशौचमुक्तं, तच्च जीवशुद्धिरूपं, जीवं च छद्मस्थो न जानाति केवली तु जानातीति सम्बन्धाच्छद्मस्थकेवलिनोरज्ञेयज्ञेयवस्तुप्रतिपादनाय सूत्रद्वयमाह
मू. (४८८) पंच ठाणाइंछउमत्थे सव्वभावेणं न जाणति न पासति, तं०-धम्मत्थिकायं अधम्मत्थिकायं आगासस्थिकायं जीवं असरीरपडिबद्धं परमाणुपोग्गलं, एयाणि चैव उप्पन्ननाणदंसणधरे अरहाजिणे केवली सव्वभावणंजाणति पासतिधम्मत्थिकायंजावपरमाणुपोग्गलं
वृ. 'छउमत्थे त्यादि सुगम, नवरं छद्मस्थ इहावध्याधतिशयविकलो गृह्यते, अन्यथा अमूर्त्तत्वेनधर्मास्तिकायादीन्अजानन्नपि परमाणुजानात्येवासौमूर्तत्वात्तस्य, अथ सर्वभावेनेत्युक्तं ततश्च तं कथञ्चिजानन्नप्यनन्तपर्यायतया न जानातीति, एवं तर्हि सङ्ख्यानियमो व्यर्थः स्यात्, घटादीनां सुबहूनामर्थानामकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वादिति, ‘सव्वभावणं'ति च साक्षात्कारेण, श्रुतज्ञानेन त्वसाक्षात्कारेणजानात्येव, जीवमशरीरप्रतिबद्धं-देहमुक्तं, परमाणुश्चासौ पुद्गलश्चेति विग्रहः, द्यणुकादीनामुपलक्षणमिदं ॥ यथैतान्यतीन्द्रियाणि जिनः पञ्च जानाति तथाऽन्यदप्यतीन्द्रियं जानातीत्यधोलोकोर्द्धलोकवर्त्यतीन्द्रियं पञ्चस्थानकावतारि दर्शयन् सूत्रद्वयमाह
मू. (४८९) अधोलोगेणंपंच अनुत्तरामहतिमहालता महानिरयापं०तं०-काले महाकाले रोरुते महारोरुते अप्पतिट्ठाणे १/उडलोगेणं पंच अनुत्तरामहतिमहालता महाविमाणा पं०२०विजये विजयंते जयंते अपराजिते सव्वट्ठसिद्ध २ ।
वृ. 'अहो' इत्यादि व्यक्तं, नवरं 'अहोलोए'त्ति सप्तमपृथिव्यां अनुत्तराः-सर्वोत्कृष्टा उत्कृष्टवेदनादित्वात्ततः परं नरकामावाद्वा, महत्त्वं च चतुर्णां क्षेत्रतोऽप्यसङ्ख्यातयोजनत्वादप्रतिष्ठानस्य तु योजनलक्षप्रमाणत्वेऽप्यायुषोऽतिमहत्त्वान्महत्त्वमिति, एवमूर्ध्वलोकेऽपि । कालादिषु विजयादिषु च सत्त्वाधिकपुरुषा एव गच्छन्तीति तत्प्रतिपादनायाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org