________________
३६७
स्थानं-५, - उद्देशकः-३ ॥२॥ तथा “जो देइ उवस्सयंजइवराण तवनियमजोगजुत्ताणं ।
तेणं दिन्ना वत्थन्नपाणसयणासणविगप्पा" इति -तथा शरीरं-कायः, अस्य च धर्मोपग्राहिता स्फुटैव, यतोऽवावि॥१॥ "शरीरं धर्मसंयुक्तं,रक्षणीयं प्रयत्नतः।।
शरीराच्छ्रवते धर्मः, पर्वतात् सलिलं यथा" इति, (भवति चात्रार्या-) ॥२॥ “धर्म चरतः साधोर्लोके निश्रापदानि पञ्चैव ।
राजा गृहपतिरपरः षट्काया गणशरीरे च" इति, शेषं सुगमं।श्रमणस्य निश्रास्थानन्युक्तानि, अथ लौकिकं निधिलक्षणंनिश्रास्थानं पञ्चधा प्रतिपादयन्नाह
मू. (४८६) पंच निही पं० २०-पुत्तनिही मित्तनिही सिप्पनिही धणणिही धन्नणिही।
वृ. 'पंच निही'त्यादि सुगम, नवरं नितरां धीयते-स्थाप्यते यस्मिन् स निधिःविशिष्टरत्नसुवर्णादिद्रव्यभाजनंतत्र निधिरिवनिधिः पुत्रश्चासौनिधिश्चपुत्रनिधिः, द्रव्योपार्जकत्वेन पित्रोर्निहिहेतुत्वादत एव स्वभावेन च तयोरानन्दसुखकरत्वाच्च, अत्रोक्तं परैः॥१॥ "जन्मान्तरफलं पुण्यं, तपोदानसमुद्भवम् ।
सन्ततिः शुद्धवंश्या हि, परत्रेह च शर्मणे" इति, तथा मित्रं-सुहृत्तच्च तन्निधिश्चेति मित्रनिधिरर्थकामसाधकत्वेनान्दहेतुत्वात्, तदुक्तम्॥१॥ "कुतस्तस्यास्तुराज्यश्रीःस, कुतस्तस्य मृगेक्षणाः ।
यस्य शूरं विनीतंच, नास्ति मित्रं विचक्षणम् ?" शिल्पं-चित्रादिविज्ञानंतदेव निधिः शिल्पनिधिः, एतच्च विद्योपलक्षणं, तेन विद्या निधिरिव पुरुषार्थसाधनत्वाद, अत्रोक्तम॥१॥ “विद्यया राजपूज्यः स्याद्विद्यया कामिनीप्रियः ।
विद्या हि सर्वलोकस्य, वशीकरणकार्मणम् " इति, तथा धननिधिः-कोशोधान्यनिधिः-कोष्ठागारमिति।अनन्तरं निधिरुक्तः, सचद्रव्यतः पुत्रादि वतस्तुकुशलानुष्ठानरूपंब्रह्म, तत्पुनः शौचतयाबिभणिषुःप्रसङ्गेनशेषाण्यपिशौचान्याह
मू. (४८७) सोए पंचविहे पं० तं०-पुढविसोते आउसोते तेउसोते मंतसोते बंभसोते
'पंचविहे त्यादि व्यक्तं, नवरंशुर्भावः शौचं, शुद्धिरित्यर्थः, तच्च द्विधा-द्रव्यतोभावतश्च, तत्राद्यं चतुष्टयं द्रव्यशौचं, पञ्चमंतुभावशीचं, तत्र पृथिव्या-मृत्तिकया शौचं-जुगुप्सितमलगन्धयोरपनयनं शरीरादिभ्यो घर्षणोपलेपनादिनेति पृथिवीशौचं, इह च पृथिवीशौचाभिधानेऽपि यत्परैस्तल्लक्षणमभिधीयते, यदुत॥१॥ ___ “एका लिंगे गुदे तिम्रस्तथैकत्र करे दश।
उभयोः सप्त विज्ञेया, मृदः शुद्धौ मनीषिभिः ॥२॥ एतच्छौचं गृहस्थानां, द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं वानप्रस्थानां, यतीनां च चतुर्गुणम् इति, तदिह नाभिमतं, गन्धाधुपघातमात्रस्य शौचत्वेन विवक्षितत्वात्, तस्यैव च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org