________________
३६६
स्थानाङ्ग सूत्रम् ५/३/४८४
॥३॥ निव्वाघायववाइ दारुगदंडुण्णियाहिं दसियाहिं।
अववाइय वाघायं उट्टीसणवच्चमुंजमयं" ति श्रमणानां यथा वस्त्ररजोहरणेधर्मोपग्रहके तथा पराण्यपि कायादीनि, तान्येवाहमू. (४८५) धम्मंचरमाणस्स पंच निस्साठाणा पं० -छक्काए गणे राया गिहवती सरीरं ।
वृ. 'धम्म'मित्यादि, धर्म-श्रुतचारित्ररूपं, णमित्यलङ्कारे चरतः-सेवमानस्य पंच निश्रास्थानानि-आलम्बनस्थानानि उपग्रहहेतव इत्यर्थः, षट्कायाः-पृथिव्यादयः, तेषां च संयमोपकारिताऽऽगमप्रसिद्धा, तथाहि-पृथिवीकायमाश्रित्योक्तम्॥१॥ “ठाणनिसीयतुयट्टण उच्चाराईण गहण निक्खेवे।
घट्टगडगलगलेवो एमाइ पओयणं बहुहा" ॥२॥ अप्कायमाश्रित्य-परिसेयपियणहत्थाइधोयणे चीरधोयणेचेव।
आयमणभाणधुवणे एमाइ पओयणं बहुहा ॥३॥ तेजःकायं प्रति-ओयण वंजणपाणग आयामुसिणोदगंच कुम्मासो।
डगलगसरक्खसूइय पिप्पलमाई य उवओगो ॥४॥वायुकायमधिकृत्य-दइएण बत्थिणा वा पओयणं होज्ज वाउणा मुणिणो।
___ गेलन्नम्मिवि होज्जा सचित्तमीसे परिहरेजा ॥५॥ वनस्पतिं प्रति-संथारपायदंडगखोमियकप्पा य पीठफलगाइ।
ओसहभेसज्जाणि य एमाइपओयणं तरुसु ॥६॥ त्रसकाये पञ्चेन्द्रियतिरश्च आश्रित्योक्तं
चम्मट्ठिदंत नहरोमसिंगअमिलाइछगणगोमुत्ते ।
खीरदहिमाइयाणं पंचेदियतिरियपरिभोगे एवं विकलेन्द्रियमनुष्यदेवानामप्युपग्रहकारिता वाच्या, तथागणो-गच्छाःतस्यचोपग्राहिता'एक्कस्स कओ धम्मो' इत्यादिगाथापूगादवसेया, तथा ॥१॥ “गुरुपरिवारो गच्छो तत्थ वसंताण निजरा विउला ।
विणायाउ तहा सारणमाईहिं न दोसपडिवत्ती ॥२॥ अन्नोन्नावेक्खाए जोगंमितहिं तहिं पयट्टतो।
नियमेण गच्छवासी असंगपयसाहगो नेओ" इति, तथा राजा-नरपतिस्तस्य धर्मसहायकत्वं दुष्टेभ्यः साधुरक्षणाद्, उक्तंच लोकिकैः॥१॥ "क्षुद्रलोकाकुले लोके, धर्म कुर्युः कथं हि ते।
क्षान्ता दान्ता अहंतारश्चेद्राजा तान्न रक्षति ॥२॥ (तथा) 'अराजके हि लोकोऽस्मिन्, सर्वतो विद्रुते भयात्।
रक्षार्थमस्य सर्वस्य, राजानमसृजत् प्रभुः" इति, तथा गृहपतिः-शय्यादाता, सोऽपि निश्रास्थानं, स्थानदानेन संयमोपकारित्वात्, तदुक्तम्॥१॥ "धृतिस्तेन दत्ता मतिस्तेन दत्ता, गतिस्तेन दत्ता सुखमं तेन दत्तम् ।
गुणश्रीसमालिङ्गितेभ्यो वरेभ्यो, मुनिभ्यो मुदा येन दत्तो निवासः"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org