SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३६१ स्थानं-५, - उद्देशकः -३ अनन्तरं सिद्धिगतिरूक्ता, सा चेन्द्रियार्थान् कषायादींश्चाश्रित्य मुण्डितत्वे सति भवतीतीन्द्रियानिन्द्रियकषायादिमुण्डांश्चाभिधित्सुः सूत्रत्रयमाह मू. (४८१) पंच इंदियत्था पं० २०-सोतिंदियत्थे जाव फासिंदियत्थे १ । पंच मुंडा पं० तं०-सोतिंदियमुंडे जाव फांसिदियमुंडेर, अहवा पंच मुंडा पं० २०-कोहमुंडे माणमुंडे मायामुंडे लोभमुंडे सिरमुंडे ३ वृ. 'पंचे' त्यादि सुगम, नवरं इन्द्रनादिन्द्रो-जीवः सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात्तस्य लिङ्गंतेन दृष्टं सृष्टंजुष्टं दत्तमितिवा इन्द्रियं श्रोत्रादि, तच्चतुर्विधंनामादिभेदात, तत्र नामस्थापने सुज्ञाने, निर्वृत्त्युपकरणे द्रव्येन्द्रियं, लब्ध्युपयोगौ भावेन्द्रियं, तत्र निर्वृत्तिराकारः, साच बाह्याऽभ्यन्तराच, तत्र बाह्याअनेकप्रकारा, अभ्यन्तरापुनःक्रमेण श्रोत्रादीनां कदम्बपुष्प १ धान्यमसूरा २ तिमुक्तकपुष्पचन्द्रिका ३ क्षुरप्र ४ नानाप्रकार ५ संस्थाना, उपकरणेन्द्रियं विषयग्रहणे सामर्थ्य, छेद्यच्छेदने खङ्गस्येव धारा, यस्मिन्नुपहते निर्वृतिसद्भावेऽपि विषयं न गृह्णातीति, लब्धीन्द्रियं यस्तदावरणक्षयोपशमः, उपयोगेन्द्रियं यः स्वविषये व्यापार इति, इह च गाथा:॥१॥ "इंदो जीवो सव्वोवलद्धिभोगपरमेसरत्तणओ। सोत्तादिभेदमिंदियमिह तल्लिंगादिभावाओ ॥२॥ तन्नामादि चउद्धा दव्वं निव्वत्तिओवकरणं च । आकारो निव्वत्ती चित्ता बज्झाइमा अंतो ॥३॥ पुप्फ कलंबुयाए धन्नमसूराऽतिमुत्तचंदो य। होइ खुरुप्पो नाणागिई य सोइंदियाईणं ॥४॥ विसयग्गहणसमत्थं उवगरणं इंदियंतरं तंपि। जंनेह तदुवघाए गिण्हइ निवित्तिभावेवि ॥५॥ लद्धवओगा भाविंदियं तुलद्धित्ति जो खओवसमो। होइ तयावरणाणं तल्लाभे चेव सेसंपि ॥६॥ जो सविसयवावारो सो उवओगो सचेगकालम्मि। एगेण चेव तम्हा उवओगेगिंदिओ सव्वो ॥७॥ एगिदियादिभेदापडुच्च सेसिंदियाइं जीवाणं । अहवा पडुच्च लद्धिंदियंपिपंचिंदिया सव्वे ॥८॥ जं किर बउलाईणं दीसइ सेसिंदिओलंभोवि। तेणऽत्थि तदावरणक्खओवसमसंभवो तेसिं ।। इति, ___ अर्थ्यन्ते-अभिलष्यन्ते क्रियार्थिभिरर्यन्तेवा-अधिगम्यन्तइत्यर्थाइन्द्रियाणामाइन्द्रियार्थाःतद्विषयाः शब्दादयः,श्रूयतेऽनेनेति श्रोत्रं, तच्चतदिन्द्रियंच श्रोत्रेन्द्रियंतस्यार्थो-ग्राह्यः श्रोत्रेन्द्रियार्थ:शब्दः, एवं क्रमेण रूपगन्धरसस्पर्शाश्चक्षुराद्या इति। मुण्डनं मुण्डः-अपनयनं, सच द्वेधा-द्रव्यतो भावतश्च, तत्रद्रव्यतः शिरसः केशापनयनं, भावतस्तुचेतसइन्द्रियार्थगतप्रेमाप्रेम्णोः कषायाणांवाऽपनयनमितिमुण्डलक्षणधर्मयोगात्पुरुषो मुण्ड उच्यते, तत्र श्रोत्रेन्द्रिये श्रोत्रेन्द्रियेण वा मुण्डः, पादेन खञ्ज इत्यादिवत् श्रोत्रेन्द्रियमुण्डः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy