________________
३६०
i
उक्तम्-“पंचत्थिकायमइयं लोगमणाइनिहणं ॥ "
स्थानाङ्ग सूत्रम् ५/२/४७९
इति, अथैतत्स्वरूपस्योक्तस्य प्रपञ्चानायानुक्तस्य चाभिधानायाह
'समासतः' सङ्क्षेपतः पञ्चविधो, विस्तरस्त्वन्यथापि स्यात्, कथमित्याह- 'द्रव्यतो' द्रव्यतामधिकृत्य 'क्षेत्रतः' क्षेत्रमाश्रित्य एवं कालतो भावतश्च 'गुणतः' कार्यतः कार्यमाश्रित्येत्यर्तः, तत्र द्रव्यतोऽसावेकं द्रव्य तथाविधैकपरिणामादेकसङ्ख्याया एवेह भावात्, क्षेत्रतो लोकस्य प्रमाणं लोकप्रमाणं- असङ्ख्येयाः प्रदेशास्तत्परिमाणमस्येति लोकप्रमाणमात्रः, कालतो न कदाचिन्नासीदित्यादि कालत्रयनिर्देशः, एतदेव सुखार्थं व्यतिरेकेणाह - अभूच्च भवति च भविष्यति चेति, एवं त्रिकालभावित्वाध्ध्रुवो मा भूदेकसर्गापेक्षयैव ध्रुवत्वमिति सर्वदैवंभावान्नियतो, मा भूदनेकसगपेिक्षयैव नियतत्वमिति प्रलयाभावात् शाश्वतः, एवं सदाभावेनाक्षयः, पर्यायापगमेऽप्यनन्तपर्यायतयाऽव्ययः, एवमुभयरूपतया अवस्थितः, अनेन प्रकारेणौघतो नित्य इति पूज्यव्याख्या, अथवा यत एव त्रैकालिकोऽसावत एव ध्रुवोऽवश्यंभावित्वादादित्योदयवत्, नियत एकरूपत्वात्, शाश्वतः प्रतिक्षणं सत्त्वादत एवाक्षयोऽवयविद्रव्यापेक्षया अक्षतो वा परिपूर्णत्वात्, अव्ययोऽवयवापेक्षया अवस्थितो निश्चलत्वात्, तात्पर्यमाह-नित्य इति,
अथवा इन्द्रशक्रादिशब्दवत्पर्यायशब्दा ध्रुवादयो नानादेशजविनेयप्रतिपत्यर्थमुपन्यस्ता इति, तथा गुणतः गमनं - गतिस्तद गुणो-गतिपरिणामपरिणतानां जीवपुद्गलानां सहकारिकारणभावतः कार्यं मत्स्यानां जलस्येव यस्यासौ गमनगुणो गमने वा गुणः-उपकारो जीवादीनां यस्मादसौ गमनगुण इति, एवं चेव त्तियथा धर्मास्तिकायोऽधीत एवमधर्मास्तिकायोऽपीति, नवरं केवलमेतावानू विशेषो यदुत- 'ठाणगुणे' त्तिस्थानं-स्थितिर्गुणः कार्यं यस्य स स्थानगुणः, स हि स्थितिपरिणतानां जीवादीनामपेक्षाकारणतया स्थानं कार्यं करोति स्थाने वा स्थितौ गुणः-उपकारो यस्मात् स तथा,
'लोगालोगे' त्यादि लोकालोकयोस्तद्वयकत्योर्यत्प्रमाणं- अनन्ताः प्रदेशास्तदेव परिमाणस्येति लोकालोकप्रमाणमात्रः, अवगाहना-जीवादीनामाश्रयो गुणः कार्यं यस्य तस्यां वा गुणः उपकारो यस्मात्सोऽवगाहनागुणः, 'अनंताई दव्वाई' ति अनन्ता जीवास्तेषां च प्रत्येकं द्रव्यत्वादिति, 'अरूवी जीवे 'ति जीवास्तिकायोऽमूर्तस्था चेतनावानिति, उपयोगः- साकारानाकारभेदं चैतन्यं गुणोधर्म्मो यस्य स तथा, शेषं तदेव यदधर्म्मास्तिकायादीनामिति, लोकप्रमाणो जीवास्तिकायः पुद्गलास्तिकायश्च, तयोस्तत्रैव भावादिति, 'गहणगुणे' त्तिग्रहणं- औदारिकशरीरादितया ग्राह्यता इन्द्रियग्राह्यता वा वर्णादिमत्त्वात् परस्परसम्बन्धलक्षणं वा तद्गुणो-धर्म्मो यस्य स तथा ।
अनन्तरमस्तिकाया उक्ता इति तद्विशेषस्य जीवास्तिकायस्य सम्बन्धिवस्तून्याह अध्ययनपरिसमाप्तिं यावदिति महासम्बन्धः, तत्र 'पंचे 'त्यादि गतिसूत्रं कण्ठ्यं०
मू. (४८०) पंच गतीतो पं०-निरयगती तिरियगती मणुयगती देवगती सिद्धिगती । वृ. नवरंगमनं गति १ र्गम्यत इति वा गतिः - क्षेत्रविशेषः २ गम्यते वा अनया कर्म्मपुद्गलसंहत्येति गतिः-नामकर्मोत्तरप्रकृतिरूपा ३ तत्कृता वा जीवावस्थेति ४, तत्र निरये नरके गति ४. निरयश्चासौ गतिश्चेति वा २ निरयप्रापिका वा गतिः ३ निरयगतिः, एवं तिर्यक्षु ४ तिरश्चां २ तिर्यकत्वप्रसाधिका वा गति ३ स्तिर्यग्गतिः, एवं मनुष्यदेवगती, सिद्धीगतिः सिद्धिश्चासौ गतिश्चेति वा सिद्धिगतिः, गतिरिह नामप्रकृतिर्नास्तीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org