________________
३५८
स्थानाङ्ग सूत्रम् ५/२/४७६
॥४॥ विजाणं परिवाडिं पव्वे पव्वे करेंति आयरिया।
दिलुतो महपाणे अन्तो बाहिं च वसहीए।" इति, आचार्यस्य गणे अतिशया उक्ताः, अधुना तस्यैवातिशयविपर्ययभूतानि गणानिर्गमनकारणान्याह
मू. (४७७) पंचहि ठाणेहिं आयरियउवज्झायस्स गणावक्कमणेपं० तं०-आयरियउवज्झाए गणंसिआणं वा धारणं वा नो सम्मंपउंजित्ता भवति १ आयरियउवज्झाए गणंसिआधारयणियाते कितिकम्मं वेणइयं नो सम्मं पउंजित्ता भवति २ आयरियउवज्झाते गणंसि जे सुयपज्जवजाते धारितितेकालेनो सम्ममनुपवादेत्ता भवति३आयरियउवज्झाएगणंसिसगाणितातेवा परगणियाते वा निग्गंथीतेबहिल्लेसे भवति४ मित्ते नातीगणेवासे गणातो अवक्कमेजा तेसिं संगहोवग्गहठ्ठयाते गणावक्कमणे पन्नत्ते ५। ___वृ. 'पंचही'त्यादि सुगमं, नवरंआचार्योपाध्यायस्य आचार्योपाध्याययोर्वा गणाद्-गच्छात् अपक्रमण-निर्गमोगणापक्रमणंआचार्योपाध्यायो ‘गणे' गच्छविषये आज्ञावा'योगेषुप्रवर्तनलक्षणां धारणां वा-विधेयेषु निवर्त्तनलक्षणां, 'नो' नैव सम्यग्-यथौचित्यं प्रयोक्ता-तयोः प्रवर्तनशीलो भवति, इदमुक्तं भवति-दुर्विनीतत्वाद् गणस्य ते प्रयोक्तुमशक्नुवन् गणादपक्रामति कालिकाचार्यवदित्येकं, तथा गणविषये यथारत्नाधिकतया-यथाज्येष्ठंकृतिकर्म तथा वैनयिकंविनयं 'नो' नैव सम्यक् प्रयोक्ता भवति, आचार्यसम्पदा साभिमानत्वात्, यतः आचार्येणापि प्रतिक्रमणक्षामणादिषूचितानामुचितविनयः कर्तव्यच एवेति द्वितीयं, तथा असौ यानि श्रुतपर्यवजातानि-यान् श्रुतपर्यायप्रकारानुद्देशकाध्यचयनादीन् धारयति हृद्यविस्मरणतस्तानि काले २-यथावसरे नो सम्यगनुप्रवाचयिता-तेषां पाठयिता भवति, .
'गणे'त्ति इह सम्बध्यते, तेन गणे-गणविषये गणमित्यर्थः, तस्याविनीतत्वात् तस्या वा सुखलम्पटत्वान्मन्दप्रज्ञत्वाद्वेति गणादपक्रामतीति तृतीयं,च तथा असौ गणे वर्तमानः ‘सगणियाए'त्ति स्वगणसम्बन्धिन्यां 'परगणियाए'त्ति परगणसत्कायां निर्ग्रन्थ्यां तथाविधाशुभकर्मवशवर्तितया सकलकल्याणाश्रयसंयमसौधमध्याबहिर्लेश्या-अन्तःकरणंयस्यासौ बहिर्लेश्यः, आसक्तोभवतीत्यर्थः, एवंगणादपक्रामतीति, नचेदमधिकगुणत्वेन अस्यासम्भाव्यं, यतः पठ्यते॥१॥ “कम्माईनूणंघणचिक्कणाइं गरुयाई वज्जसाराई।
नाणड्डयंपिपुरिसं पंथाओ उप्पहं निति ॥” इति चतुर्थं, तथा मित्रज्ञातिगणो वा -सुहृतस्वजनवर्गो वा 'से' तस्याचायदिः कुतोऽपि कारणाद् गणादप- क्रामेदतस्तेषां सुहृत्स्वजनानां सङ्गङ्ग्रहाद्यर्थं गणादपक्रमणं प्रज्ञप्तं, तत्र सङ्ग्रगस्तेषां स्वीकारः, उपग्रहो वस्त्रादिभिरुपष्टम्भ इति पञ्चमं । अनन्तरमाचार्यस्य गणापक्रमणमुक्तं, सच ऋद्धिमन्मनुष्यविशेष इत्यधिकाराद् ऋद्धिमन्मनुष्यविशेषानाह
मू. (४७८) पंचविहा इड्डीमंता मणुस्सा पं० २०-अरहंता चक्कवट्टी बलदेवा वासुदेवा भावियप्पाणो अनगार।
वृ. 'पंचविहे' त्यादिकण्ठ्यं, नवरंऋद्धिः-आम|ध्यादिका सम्पत; तद्यथा-आमर्षीषधिविप्रुडोषधिः खेलौषधिजल्लो-मलः सर्वौषधिः आसीविषत्वं-शापानुग्रहसामथ्यमित्यर्थः आकाश
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org