SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३५७ स्थानं-५,- उद्देशकः -२ तथाहि श्रुतवानयमित्यादिगुणतः पूर्ववीथिषुवणिजोवुमानादभ्युत्थानादिकृतवन्तस्ततोविचारभूमी सकृद्धिर्वाऽऽचार्यस्य गमने आलस्यात्तन्न कुर्वन्ति पराङ्मुखाश्च भवन्ति, एतच्चेतरे दृष्टवाशङ्कन्तेयदुता- यमिदानीं पतितो वणिजानामभ्युत्थानद्यकरणादित्येवं मिथ्यात्वगमनादयो दोषाः, उक्तंच॥१॥ “सुयवंतवस्सि परिवारवंच वणियंतरावनुट्ठाणे । दुट्ठाणनिग्गमि य हाणी य परंमुहाऽवन्नो ॥" ॥१॥ "गुणवंत जतो वणिया पूइंतऽन्ने विसन्नया तंमि । पडिओत्ति अनुट्ठाणे दुविहनियत्ती अभिमुहाणं ॥" तथामत्सरिभ्यः सकाशान्मरणबन्धनापभ्राजनादयोऽन्येऽपि व्यवहारभाष्यादवगन्तव्या इति द्वितीयोऽतिशयः, तथाप्रभुः-समर्थःइच्छा-अभिलाषो वैयावृत्त्यकरणेयदि भवेत्तदा वैयावृत्त्यंभक्तपानगवेषणवग्रहणतः साधुभ्यो दानलक्षणंकुर्यात्, अथेच्छा-अभिलाषस्तदकरणेतन्न कुर्यादिति, भावार्थस्त्वयं-आचार्यस्य भिक्षाभ्रमणं न कल्पते, यतोऽवाचि॥१॥ "उप्पन्ननाणा जह नो अडंति, चोत्तीसबुद्धाइसया जिणिंदा । एवं गणी अट्ठगुणोववेओ, सत्था व नो हिंडइ इटिमंतु॥" दोषास्त्वमी॥१॥ “भारेण वेदणा वा हिंडते उच्चनीयसासो वा। आइयणछड्डुणाई (प्रचुरपानकादेरापानादौ छद्यादयो) गेलन्ने पोरिसीभंगो" इति, एवमादयोऽनेके दोषा व्यवहारभाष्योक्ताः समवसेयाः, एतेच सामान्यसाधोरपि प्रायः समानास्तथापि गच्छास्य तीर्थस्य वा महोपकारित्वेन रक्षणीयत्वेनाचार्यस्यायमतिशय उक्तः, उक्तंच॥१॥ "जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खिज्जा । न हुतुंबंमि विणढे अरया साहारया होंति ॥"त्ति - तृतीयः, तथा अन्तरुपाश्रय एका चासौ रात्रिश्चेत्येकरात्रं तद्वा द्वयो रात्र्योः समाहारो द्विरात्रंतद्वा, विद्यादिसाधनार्थमेकाकी एकान्तेवसन्नातिक्रामति, तत्रतस्यवक्ष्यमाणदोषासम्भवाद्, अन्यस्य तुतद्भावादितिचतुर्थः, एवं पञ्चमोऽपि,भावार्थश्चायमनयोः-अन्तरुपाश्रयस्य वक्षारके विष्वग्वसतिबहिर्वोपाश्रयस्यशून्यगृहादिषुवसतियदितदाअसामाचारी, दोषाश्चैते-पुंवेदोपयोगेन जनरहितेहस्तकर्मादिकरणेन संयमे भेदो भवति, मर्यादामयालवितेति निर्वेदेन वैहायसादिमरणं च प्रतिपद्यत इति, इह गाथा "तब्मावुवओगेणं रहिए कंमादि संजमे भेदो। मेरा व लंघिया मे वेहाणसमादि निव्वेया॥ ॥२॥ जइविय निग्गयभावो तहावि रक्खिज्जइ स अन्नेहिं । वंसकडिल्लेवि छिन्नोऽवि वेणुओ पावए न महिं। वीसुंवसओ दप्पा गणियायरिए यहोइ एमेव। सुत्तं पुण कारयणियं भिक्खुस्सवि कारणेऽणुना ॥ ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy