________________
३५६
स्थानाङ्ग सूत्रम् ५/२/४७६
अतिशयाः प्रज्ञप्ताः तद्यथा - आचार्योपाध्यायोऽन्तः- मध्ये 'उपाश्रयस्य' वसतेः 'पादौ निगृह्य २' पादधूलेरुद्धूयमानाया निग्रहं वचनेन कारयित्वा यथाऽन्ये धूल्या न म्रियन्ते तथेत्यर्थः, प्रस्फोटयित्वा आभिग्रहिकेनान्येन वा साधुना स्वकीयरजोहरणेन ऊर्णिकपादप्रोञ्छनेन वा प्रस्फोटनं कारयन् छाटयन्नित्यर्थः, प्रमार्जयन्वा शनैर्लूषयन् नातिक्रामतीति,
इह च भावार्थः इत्थमास्थितः- आचार्यः कुलादिकार्येण निर्गतः प्रत्यागत उत्सर्गेण तावद्वसतेर्बहिरेव पादौ प्रस्फोटयति, अथ तत्र सागारिको भवेत्तदा वसतेरन्तः प्रस्फोटयेत, प्रस्फोटनं च प्रमार्जनविशेषस्तच्च चक्षुव्यापारलक्षणप्रत्युपेक्षणपूर्वकमितीह सप्त भङ्गाः, तत्र न प्रत्युपेक्षते न प्रमार्ष्टि चेत्येकः, न प्रत्युपेक्षते प्रमाति द्वितीयः प्रत्युपेक्षते न प्रमाति तृतीयः प्रत्युपेक्षते प्रमार्ष्टि चेति चतुर्थः, यत्तत्प्रत्युपेक्ष्यते प्रमार्ण्यते च तद्दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं ४ दुष्प्रत्युपेक्षितं सुप्रमार्जितं वा ४ सुप्रत्युपेक्षितं दुष्प्रमार्जितं वा ६ सुप्रत्युपेक्षितं सुप्रमार्जितं वा ७ करोति, इह च सप्तमूः शुद्धः शेषेष्वसमाचारीति,
,
यदि तु सागारिकश्चलस्ततः सप्ततालमात्रं सप्तपदावक्रमणमात्रं वा कालं बहिरेव स्थित्वा तस्मिन् गते पादौ प्रस्फोटयेत्, उक्तं च
“अइवाइगंमि बाहिं अच्छंति मुहुत्तगं थेर "त्ति ।
अल्पार्थके सप्ततालमानं, ततो वसतौ प्रविशेत्, कः तेन चास्य पादौ प्रमार्जयतीत्युच्यते119 11 "अभिग्गहियस्स असई तस्सेव रओहरेण अन्नयरो " ।
पाउंछणुन्निएण व पुंछइ उ अणन्नभुत्तेणं ।।" ति ।
वसतेरन्तः प्रविष्टस्य चायं विधिः- विपुलायां वसतावपरिभोगस्थाने सङ्कटायां चात्मसंस्तारकावकाशे उपविष्टस्य पादौ प्रमार्जनीयौ, अन्यस्यापि गणावच्छेदकारेरयमेव विधिः, केवलमन्यो बहिश्चिरतरं तिष्ठतीति, उक्तं च
॥१॥
"विपुलाए अपरिभोगे अत्तणओवासए व बेट्ठस्स ।
एमेव य भिक्खुस्सवि नवरं बाहिं चिरयरं तु ॥”
एतावानैव चायमतिशयो यदसौ न चिरं बहिरास्ते, अथ चिरं तिष्ठतः के दोषा इति ?, उच्यते" तण्डुण्डभावियस्सा पडिच्छमाणस्स मुच्छमाईया । खद्धाइयणगिलाणे सुत्तत्थविराहणा चेव ।।" इत्यादि,
॥१॥
शेषसाधवस्तु चिरमपि बहिस्तिष्ठन्ति न च दोषाः स्युः, जितश्रमत्वाद्, आह च"दसविहवेयावच्चे सग्गाम बहिं च निच्चवायामो ।
॥१॥
11
सीउण्हसहा भिक्खू ण य हाणी वायणाईया ॥
इत्येकोऽतिशयः, तथाऽन्तः मध्ये उपाश्रयस्य उच्चारं पुरीषं प्रक्षवणं-मूत्रं विवेचयन्सर्वं परिष्ठापयन् विशोधयन् पादादिलग्नस्य निरवयवत्वं कुर्वन् शौचभावेन वेति, अथवा सकृद्विवेचनं बहुशो विशोधनं, उक्तं च
॥१॥
" सव्वस्स छड्डुण विगिंचणा उ पुयपादहत्थलग्गस्स । फुसणधुवणा विसोहणं सई च बहुसो य नाणत्तं ॥” इति,
नातिक्रामति, इह च भावार्थ एवं आचार्यो नोत्सर्गतो विचारभूमिं गच्छति दोषसम्भवात्,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International