________________
स्थानाङ्ग सूत्रम् ५/२/४६६
119 11
द्विधा-निर्विशमानकं निर्विष्टकायिकंच, तत्र निर्विशमानकानां च तदासेवकानां यत्तन्निर्विशमानकं, यत्तु निर्विष्टकायिकानामासेवितविवक्षितचारित्रकायानां तन्निर्विष्टकायिकमिति, इहापि गाथे“परिहारेण विसुद्धं सुद्धो य तवो जहिं विसेसेणं । तं परिहारवि सुद्धं परिहारविसुद्धियं नाम ।। तं दुविकप्पं निव्विस्समाणानिव्विट्टकाइयवसेणं । परिहारियानुपरिहारियाण कप्पट्ठियस्सऽविय ॥” इति,
इह च नवको गणो भवति, तत्र चत्वारः परिहारिका अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहारः- ग्रीष्मे जघन्यादीनि चतुर्थषष्ठाष्टमादीनि शिशिरे तु षष्ठाष्टमदशमानि वर्षास्वष्टमदशमद्वादशानि पारणके चायामं, इतरेषा सर्वेषामायाममेव, एवमेते चत्वारः षण्मासान् पुनरन्ये चत्वारः पुनर्वाचनाचार्यः षडिति सर्व एवायमष्टादशमासिकः कल्प इति । तथा सूक्ष्माः -लोभकिट्टिकारूपाः सम्परायाः-कषाया यत्र तत्सूक्ष्मसम्परायं, तदपि द्विधा-विशुद्धमानकं सङ्किलश्यमानकं च, तत्राद्यं क्षपकोपशमश्रेणिद्वयं समारोहतः, सभङक्लिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्येति, च तत्रोक्तम्
119 11
३५०
॥२॥
॥ २ ॥
"कोधाइ संपराओ तेण जओ संपरीई संसारं । तं सुहुमसंपरायं सुमो जत्थावसेसो से ।।
सेढि विलग्गओ तं विसुज्झमाणं तओ चयंतस्स । तह संकिलिस्समाणं परिणामवसेण विन्नेयं ॥” इति
अथशब्दो यथार्थः, यथैवाकषायतयेत्यर्थः, आख्यातं - अभिहितं अथाख्यातं तदेव संयमोऽथाख्यातसंयमः, अयं च छद्मस्थस्योपशान्तमोहस्य क्षीणमोहस्य च स्यात् केवलिनः सयोगस्यायोगस्य च स्यादिति, इहाभ्यधायि
119 11
॥२॥
“अहसद्दो जहत्थो आङोऽभिविहीए कहियमक्खायं । चरणमकसायमुदियं तमहक्खायं अहक्खायं ॥।” तं दुविगप्पं छउमत्थकेवलिविहाणओ पुणेक्केकं । खयसमजसजोगाजोगि केवलिविहाणओ दुविहं " ॥ इति
मू. (४६७) एगिंदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कज्जति, तं०-पुढविकातियसंजमे जाव वणस्सतिकातितसंजमे । एगिंदिया णं जीवा समारभमाणस्स पंचविहे असंजमे कज्जति, तं०- पुढविकातित असंजमे जाव वणस्सतिकातित असंजमे ।
वृ. 'एगिंदिया णं जीव' त्ति एकेन्द्रियान् णमित्यलङ्कारे जीवान् असमारभमाणस्य-संघट्टादीनामविषयीकुर्वतः सप्तदशप्रकारस्य संयमस्य मध्ये पञ्चविधः संयमो-व्युपरमोऽनाश्रवः 'क्रियते’ भवति, तद्यथा- पृथिवीकायिकेषु संयमः-सङ्घट्टाद्युपरमः पृथिवीकायिकसंयमः, एवमन्यान्यपि पदानि, असंयमसूत्रं संयमसूत्रवद् विपर्ययेण व्याख्येयमिति ।
मू. (४६८) पंचिंदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कज्जति, तं०सोतिंदितसंजमे जाव फासिंदियसंजमे, पंचिंदिया णं जीवा समारंभमाणस्स पंचविधे असंजमे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org