SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ स्थानं - ५, - उद्देशकः -२ ॥२॥ अहवा भवं समाए निव्वत्तं तेण तंमयं वावि । जंतप्पओयणं वा तेण व सामाइयं नेयं " इति, अथवा समानि-ज्ञानादीनि तेषु तैर्वा अयनमयः समायाः स एव सामायिकमिति, अवादि च“अहवा समाइ सम्मत्तनाणचरणाइ तेसु तेहिं वा । अयणं अओ समाओ स एव सामाइयं नामा ॥” इति, 119 11 ३४९ अथवा समस्य-रागादिरहितस्याऽऽयो- गुणानां लाभः समानां वा-ज्ञानादीनामायः समायः स एव सामायिकं, अभाणि च 119 11 अहवा समस्स आओ गुणाण लाभोत्ति जो समाओ सो । अहवा समाणमाओ नेओ सामाइयं नाम ॥” इति, अथवा साम्नि-मैत्र्यां साम्ना वा अयस्तस्य वा आयः सामायः स एव सामायिकं, अभ्यधायि च119 11 "अहवा सामं मेत्ती तत्थ अओ तेण वत्ति सामाओ । अहवा सामस्साओ लाभो सामाइयं नाम ॥” इति सावद्ययोगविरतिरूपं सर्वमपि चारित्रमविशेषतः सामायिकतमेव, छेदादिविशेषैस्तु विशिष्यमाणमर्थतः शब्दतश्च नानात्वं भजते, तत्र प्रथमं विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामायिकमिति, तच्च द्विधा- इत्वरकालिकं यावज्जीविकंच, तत्रेत्वरकालिकं सर्वेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्य यावज्जीविकं तु मध्यमविदेहीर्थकरतीर्थेषु भवति इति, तेषूपस्थापनाऽभावादिति, सामायिकं च तत्संयमश्चेत्येवं सर्वत्र वाक्यं कार्यमिति, भवन्ति चात्र गाथाः“सव्वमिणं सामाइय छेदादिविसेसओ पुण विभिन्नं । अविसेसियमादिमयं ठियमिह सामन्नसन्नाए । सावज्जजोगविरइत्ति तत्थ सामाइयं दुहा तं चं । इत्तरमावकहंतिय पढमं पढमंतिमजिणाणं ।। तित्येसु अणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु विदेहयाणं च ॥” इति, 119 11 ॥३॥ तथा छेदश्च पूर्वपर्यायस्योपस्थापनं च व्रतेषु यत्र तच्छेदोपस्थापनं तदेव छेदोपस्थापनिकं ते वा विद्येते यत्र तच्छेदोपस्थापनिकमथवा पूर्वपर्यायच्छेदेनोपस्थाप्यते- आरोप्यते यन्महाव्रतलक्षणं चारित्रं तच्छेदोपस्थापनीयं, तदपि द्विधा - अनतिचारं साति चारं च, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्यारोप्यते पार्श्वनाथसाधोर्वा पञ्चयामधर्म्मप्रतिपत्तौ, सातिचारं तु यन्मूलप्रायश्चित्तप्राप्तस्येति इहापि गाथे 119 11 ॥२॥ “परियायस्स उ छेओ जत्थोवट्ठावणं वएसुं च । छेओवट्टावणमिह तमनइयारेतरं दुविहं || सेहस्स निरइयारं तित्थंतरसंकमे व तं होज्जा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥" ॥२॥ तथा परिहरणं परिहारः- तपोविशेषः तेन विशुद्धं परिहारो वा विशेषेण शुद्धो यस्मिंस्तत्परिहारविशुद्धं तदेव परिहारविशुद्धिकं, परिहारेण वा विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिकं, तच्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy