________________
स्थानं - ५, - उद्देशकः -२
३५१
कज्जति, तं०-सोतिंदियअसंजमे जाव फासिंदियअसंजमे, सव्वपाणभूयजीवसत्ता णं असमारभमाणस्स पंचविधे संजमेकज्जति, तं०-एगिंदितसंजमे जाव पंचिंदियसंजमे । सव्वपाणभूतजीवसत्ता णं समारंभमाणस्स पंचविधे असंजमे कज्जति, तं०- एगिंदित असंजमे जाव पंचिंदिय असंजमे ।
वृ. 'पंचेदियाण' मित्यादि, इह सप्तदशप्रकारसंयमभेदस्य पञ्चेन्द्रियसंयमलक्षणस्येन्द्रियभेदेन भेदविवक्षणात् पञ्चविधत्वं, तत्र पञ्चेन्द्रियानारम्भे श्रोत्रेन्द्रियस्य व्याघातपरिवर्जनं श्रोत्रेन्द्रियसंयमः एवं चक्षुरिन्द्रियसंयमादयोऽपि वाच्याः, असंयमसूत्रमेतद्विपर्यासेन बोद्धव्यमिति । 'सव्वपाणे' त्यादि, पूर्वमेकेन्द्रियपञ्चेन्द्रियजीवाश्रयेण संयमासंयमावुक्ताविह तु सर्वजीवाश्रयेणात एव सर्वग्रहणं कृतमिति, प्राणादीनां चयं विशेष:
119 11
“प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः ॥” इति,
इह सप्तदशप्रकारसंयमस्याद्या नव भेदाः सङ्ग्रा हीताः, एकेन्द्रियसंयमग्रहणेन पृथिव्यादिसंयमपञ्चकस्य गृहीतत्वादिति एतदव्यत्ययेनासंयमसूत्रं ।
मू. (४६९) पंचविधा तणवणस्सतिकातिता पं० तं०-अग्गबीया मूलबीया पोरबीयाखंबीया बीयरुहा ।
वृ. 'तणवणस्सइ' त्ति तृणवनस्पतयो बादरा वनस्पतयोऽग्रबीजादयः क्रमेण कोरण्टका उत्पलकन्दा वंशाः शल्लक्यो वटा एवमादयो, व्याख्यातं चैतत्प्रागिति ।
मू. (४७०) पंचविधे आयारे पं०-णनणायारे दंसणायारे चरित्तायारे तवायारे । वीरियायारे वृ. आचारणमाचारो-ज्ञानादिविषयाऽऽ सेवेत्यर्थः ज्ञानाचार:- कालादिरष्टधा दर्शनंसम्यकत्वं तदाचारो निःशङ्कितादिरष्टधैव चारित्राचारः समितिगुप्तिभेदोऽष्टधा तपआचारोऽनशादिभेदो द्वादशधा वीर्याचारो वीर्यागोपनमेतेष्वेवेति ।
मू. (४७१) पंचविधे आयारपकप्पे पं० तं०-मासिए उग्धाइए मासिए अनुग्धाइए चउमासिए उग्धाइए चाउम्मासिए अनुग्धाइएते आरोवणा । आरोवणा पंचविहा पं० तं०-पट्टविया कसिणा अकसिणा हाडहडा ।
वृ. आचारस्य-प्रथमाङ्गस्य पदविभागसामाचारीलक्षणप्रकृष्टकल्पाभिधायकत्वात् प्रकल्प आचारप्रकल्पः- निशीथाध्ययनं, सच पञ्चविधः पञ्चविधप्रायश्चित्ताभिधायकत्वात्, तथाहि तत्र केषुचिदुद्देशकेषु लघुमासप्रायश्चित्तापत्तिरुच्यते १ केषुचिच्च गुरुमासापत्तिः २ एवं लघुचतुर्मास ३ गुरुचतुर्मासा ४ऽऽ रोपणाश्चेति ५, तत्र मासेन निष्पन्नं मासिकं तपः, तच्च उद्घातो-भागपातो यत्रास्ति तदुद्घातिकं लध्वित्यर्थः, यत उक्तम्
119 11
“अद्धेण छिन्नसेसं पुव्वद्धेण तु संजुयं काउं । जाहि लहुयदानं गुरुदानं तत्तियं चेव ॥” इति,
एतद्भावना मासिकतपोऽधिकृत्योपदर्श्यते-मासस्यार्द्धछिन्नस्य शेषं दिनानां पञ्चदशकं तत् मासापेक्षया च पूर्वस्य- पञ्चविंशतिकस्यार्द्धेन सार्धद्वादशकेन संयुतं कृतं सार्द्धछिन्नस्य शेषं दिनानां पञ्चदशकं तत् मासापेक्षया च पूर्वस्य-पञ्चविंशतिकस्यार्द्धेन सार्धद्वादशकेन संयुतं कृतं सार्द्धासप्तविंशतिर्भवतीति । आरोपणा तु चडावणत्ति भणियं होइ, यो हि यथाप्रतिषेवित- मालोचयति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International