________________
३४७
स्थानं-५, - उद्देशकः -२ ॥१॥ “उउवासा समईता कालातीता उ सा भवे सेज्जा ।
सा चेव उवट्ठाणा दुगुणा दुगुणं अवज्जित्ता ।।" इति
-तथा भक्तस्यापि पारिष्ठापनिकाकारं प्रत्यकल्प्यता, तदुक्तम्॥१॥ "विहिगहियं विहिभुत्तं अइरेगं भत्तपाणं भोत्तव्वं ।
विहिगहिए विहिभुत्ते एत्थ य चउरो भवे भंगा। ॥२॥ अहवाविय विहिगहियं विहिभुत्तं तं गुरूहऽनुन्नायं ।
सेसा नाणुन्नाया गहणे दिन्ने च निज्जुहणं ॥" उद्गमादिभिरेव भक्तानां कल्प्यताः-विशुद्धय इति ।
उपघातविशुद्धिवृत्तयश्च जीवा निर्द्धर्मधार्मिकत्वाभ्यां बोधेरलाभलाभस्थानेषु प्रवर्त्तन्त इति तत्प्रतिपादनाय सूत्रद्वयम्
मू. (४६४) पंचहिं ठाणेहिं जीवा दुल्लभबोधियत्ताए कम्मंपकरेंति, तं०-अरहंताणं अवन्नं वदमाणे १ अरहंतपन्नत्तस्स धम्मस्स अवनं वदमाणे २ आयरियउवज्झायाणं अवन्नं वदमाणे ३ चाउवनस्स संघस्स अवन्नं वयमाणे ४ विवक्कतवबंभचेराणं देवाणं अवनं वदमाणे ५ ।
पंचहिं ठाणेहिंजीवा सुलभबोधियत्ताए कम्मं पगरेति, तं०-अरहंताणं वन्नं वदमाणे जाव विवक्कतवबंभचेराणं देवाणं वन्नं वदमाणे ।
वृ. 'पंचही'त्यादि सुगम, नवरं दुर्लभा बोधिः-जिनधर्मो यस्य स तथा तद्भावस्तत्ता तया दुर्लभबोधिकतया तस्यै वा कर्म-मोहनीयादि प्रकुर्वन्ति-बध्नन्ति, अर्हतामवर्ण-अश्लाधां वदम्, यथा॥१॥ “नत्थी अरहंतत्ती जाणं वा कीस भुंजए भोए?।
पाहुडियं तुवजीवइ एमाइअजिणाण उ अवन्नो ॥" नचते नाभूवन्तप्रणीतप्रवचनोपलब्धेः, नापि भोगानुभवनादिर्दोषः, अवश्यवेद्यसातस्य तीर्थकरनामादिकर्मणश्च निर्जरणोपायत्वात् तस्य, तथा वीतरागत्वेन समवसरणादिषु प्रतिबन्धाभावादिति, तथा अर्हत्प्रज्ञप्तस्य धर्मस्य-श्रुतचारित्ररूपस्य प्राकृतभाषानिबद्धमेतत्तथा किं चारित्रेण दानमेव श्रेय इत्यादिकमवर्णं वदन, उत्तरंचात्र प्राकृतभाषात्वं श्रुतस्य न दुष्टं बालादीनां सुखाध्येयत्वेनोपकारित्वात्, तथा चारित्रमेव श्रेयो, निर्वाणस्यानन्तरहेतुत्वादिति, आचार्योपाध्यायनामवर्णं वदन् यथा बालोऽयमित्यादि, न च बालत्वादिर्दोषो बुद्धादिभिवृद्धत्वादिति, ।
तथचत्वारोवाः-प्रकाराश्रमणादयोयस्मिन्स तथा सएव स्वार्थिकाण्विधानाचातुवर्णस्तस्य सङ्घस्यावर्णंवदन्, यथा-कोऽयंसङ्घो? यः समवायबलेन पशुसङ्घइवामार्गमपिमार्गीकरोतीति, नचैतत्साधु, ज्ञानादिगुणसमुदायात्मकत्वात्तस्य, तेन चमार्गस्यैवमार्गीकरणादिति, तथा विपक्वंसुपरिनिष्ठितं प्रकर्षपर्यन्तमुपगतमित्यर्थः तपश्च ब्रह्मचर्यं च भवान्तरे येषां विपक्वंवा-उदयागतं तपोब्रह्मचर्यं तद्धेतुकं देवायुष्कादि कर्म येषां ते तथा तेषामवर्णं वदन्, न सन्त्येव देवाः, कदाचनाप्यनुपलभ्यमानत्वात्, किंवातैविटैरिवकामासक्तमनोभिरविरतैस्तथा निर्ननिमेषैरचेष्टैश्चम्रियमागैरिव प्रवचनकार्यानुपयोगिभिश्चेत्यादिकं?
इहोत्तरं-सन्ति देवाः, तत्कृतानुग्रहोपघातादिदर्शनात्, कामासक्तता च मोहसातकर्मो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org