SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३४६ स्थानाङ्ग सूत्रम् ५/२/४६० द्वितीयसूत्रभावना तु जागराणां शब्दादयः सुप्त इव सुप्ताः भस्मच्छन्नाग्निवत् प्रतिहतशक्तयो भवन्ति, कर्म्मबन्धकारणस्य प्रमादस्य तदानीं तेषामभावात्, कर्म्मबन्धकारणं न भवन्तीत्यर्थः । संयतविपरीता ह्यसंयता इति तानधिकृत्याह - 'असंजए' त्यादि व्यक्तं, नवरमसंयतानां प्रमादियता अवस्थाद्वयेऽपि कर्म्मबन्धकारणतया अप्रतिहतशक्तित्वाच्छब्दादयो जागरा इव जागरा भवन्तीति भावना । संयतासंयताधिकारात् तद्व्यतिकराभिधायि सूत्रद्वयं सुगमं० मू. (४६१) पंचहिं ठाणेहिं जीवा रतं आइयंति तं०-पाणातिवातेणं जाव परिग्गहेणं । पंचहिं ठाणेहिं जीवा रतं वमंति, तं०- पाणतिवातवेरमणेणं जाव परिग्गहवेरमणेणं । वृ. नवरं 'जीव' त्ति असंयतजीवाः 'रयं'ति जीवस्वरूपोपरञ्जनाद्रजइव रजः- कर्म्म 'आइयंति'त्ति आददति गृह्णन्ति बध्नन्तीत्यर्थः, 'जीव' त्ति संयतजीवाः 'वमंति' त्ति त्यजन्ति क्षपयन्तीत्यर्थः । संयताधिकारादेवापरं सूत्रद्वयं - मू. (४६२) पंचमासियं णं भिक्खुपडिमं पडिवन्नस्स अनगारस्स कप्पंति पंच दत्तीओ भोयणस्स पडिगाहेत्तते मंच पाणगस्स । वृ. 'पंचमासिए' त्यादि व्यक्तं । मू. (४६३) पंचविधे उवधाते पं० तं०-उग्गमोवघाते उप्पायणोवधातं एसणोवधाते परिकम्मोवधाते परिहरणोवधते । पंचविहा विसोही पं० तं० उग्गमविसोही उप्पायणविसोही एसणाविसोही परिकम्मविसोही परिहरणविसोही वृ. नवरं उपघातः - अशुद्धता, उद्गमोपघातः उद्गम दोषैराधाकर्मादिभिः षोडशप्रकारैभक्तपानोपकरणालयानामशुद्धता, एवं सर्वत्र, नवरं उत्पादनया - उत्पादनादोषैः षोडशभिः धात्र्यादिभिः एषणया-तद्दोषैर्दशभिः शङ्कितादिभिरिति, परिकर्म्म-वस्त्रपात्रादेः छेदनसीवनादि तेन तस्योपघातः - अकल्प्यता, तत्र वस्त्रस्य परिकर्म्मोपघातो यथा 119 11 11 9 11 "तिण्हुवरि कालियाणं वत्थं जो फालियं तु संसीवे । पंचण्हं एगतरं सो पावइ आणमाईणि ।। - तथा पात्रस्य "अवलक्खनेगबंधे दुगतकिग अइरेगबंधणं वावि । जो पायं परियइ परं दिवड्डाओ मासाओ' -स आज्ञादीनाप्तोतीति, तथा वसते:“दुमिय धूमिय वासिय उज्जोइय बलिकडा अवत्ता य । सित्ता मट्टाविय विसोहिकोडिं गया वसही ।। " इति 119 11 तथा परिहरणा - आसेवा तयोपध्यादेरकल्प्यता, तत्रोपधेर्यथा एकाकिना हिंडकसाधुना यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्था, “जग्गण अप्पडिबज्झण जइवि चिरेणं न उवहंमे" इति वचनाद्, अस्य चायमर्थः - एकाकी गच्छभ्रष्टो यदि जागर्त्ति दुग्धादिषु च न प्रतिबद्धते तदा यद्यप्यसौ गच्छे चिरेणागच्छति तथाप्युपधिर्नोपहन्यते अन्यथा तूपहन्यत इति, वसतेरपि मासचतुर्मासयोरुपरि कालातिक्रान्तेति तथा मासद्वयंचतुर्मासद्वयं चावर्जयित्वा पुनस्तत्रैव वसतामुपस्थानेति च तद्दोषाभिधानात् उक्तं च Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy