________________
स्थानं - ५, - उद्देशक:
1190 11
-२
जीतं - आचरितं इदं चास्य लक्षणं
"असढेण समाइन्नं जं कत्थइ केणई असावज्जं । न निवारियमन्नेहिं बहुमनुमयमेयमायरियं ॥” इति,
३४५
आगमादीनां व्यापारेण उत्सर्गापवादावाह-'यथे 'ति यठप्रकारः केवलादीनामन्यतमः 'से' तस्य व्यवहर्त्तुः स च उक्तलक्षणः 'तत्र' तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहर्त्तव्ये वा वस्तुनि विषये आगमः केवलादिः स्याद्-भवेत् तादृशेनेति शेषः आगमने 'व्यवहार' प्रायश्चित्तदानादिकं 'प्रस्थापयेत्' प्रवर्त्तयेत्, न शेषैः आगमेऽपि षड्विधे केवलेनावन्ध्यबोधत्वात् तस्य तदभावे च मनः पर्यायेणैवं प्रधानतराभावे इतरेणेति, अथ 'नो' नैव 'से' तस्य सा वा 'तत्र' व्यवहर्त्तव्यादावागमः स्यात् 'यथा' यत्प्रकारं तत्र श्रुतं स्यात् ताशेन श्रुतेन व्यवहारं प्रस्थापयेदिति, 'इच्चेएहिं' इत्यादि निगमनं सामान्येनेति, यथा यथाऽसौ तत्रागमादि स्यात्तथा तथा व्यवहारं प्रस्थापयेदिति तु विशेषनिगमनं इति ।
एतैव्यवहर्त्तुः प्रश्नद्वारेण फलमाह-' से किमे' त्यादि, अथ किं हे भदन्त ! - भट्टारका आहुःप्रतिपादयन्ति के ? - आगमबलिका-उक्तज्ञानविशेषबलवन्तः श्रमण निर्ग्रन्थाः केवलिप्रभृतयः 'इच्चेयं' ति इत्येतद्वक्ष्यमाणं, अथवा किं तदित्यह-' इत्येवं' इति उक्तरूपं एतं प्रत्यक्षं कं ? -पञ्चविधं व्यवहारंप्रायश्चित्तदानादिरूपं 'संमं ववहरमाणे ' त्ति सम्बध्यते व्यचवहरन् - प्रवर्त्तयन्नित्यर्थः कथं ? - 'संमं' ति सम्यक् तदेव कथमित्याह
'यदा यदा' यस्मिन् यस्मिन्नवसरे 'यत्र यत्र' प्रयोजने क्षेत्रे वा यो यः उचितस्तमिति शेषः तदा तदा काले तस्मिंस्तस्मिन् प्रयोजनादौ, कथंभूतमित्याह-'अनिश्रितैः' सर्वाशंसारहितैरुपाश्रितःअङ्गीकृतोऽनिश्रितोपाश्रितस्तं अथवा निश्चितश्च-शिष्यत्वादिप्रतिपन्नः उपाश्रितश्च स एव वैयावृत्त्यकरत्वादिना प्रत्यासन्नतरस्तौ अथवा निश्रितं च रागः उपाश्रितं च द्वेषस्ते अथवा निश्रितं च-हारादिलिप्सा उपाश्रितं च-शिष्यप्रतीच्छककुलाद्यपेक्षा ते न स्तो यत्र तत्तथेति क्रियाविशेषणं, सर्वथा पक्षपातवर्जितत्वेन यथावदित्यर्थः, इह पूज्यव्याख्या- "रागो उ होइ निस्सा उवस्सिओ दोससंजुत्तो ॥
119 11
अहव न हारई दाही मज्झं तु एस निस्सा उ । सीसो पडिच्छओ वा होइ उवस्सा कुलाईया।।” इति, आज्ञाया-जिनोपदेशस्याराधको भवतीति हन्त आहुरेवेति गुरुवचनं गम्यमिति । श्रमणप्रस्तावात् तद्व्यतिकरमेव सूत्रद्वयेनाह
मू. (४६०) संजतमणुस्साणं सुत्ताणं पंच जागरा पं० तं०- सद्दा जाव फासा, संजतमणुस्साणं जागराणं पंच सुत्ता पं० तं०-सद्दा जाव फासा । असंजयमणुस्साणं सुत्ताणं वा जागराणं वा पंच जागरा पं० तं०- सद्दा जाव फासा ।
वृ. व्यक्तं, नवरं 'संजये 'त्यादि 'संयतमनुष्याणां' साधूनां 'सुप्तानां' निद्रावतां जाग्रतीति जागराः-असुप्ता जागरा इव जागराः, इयमत्र भावना - शब्दादयो हि सुप्तानां संयतानां जाग्रद्वह्निवदप्रतिहतशक्तयो भवन्ति, कर्म्मबन्धाभावकारणस्याप्रमादस्य तदानीं तेषामभावात्, कर्म्मबन्धकारणं भवन्तीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org