________________
३२
स्थानाङ्ग सूत्रम् १/-/४७ रस्यते-आस्वाद्यते इति रसः-रसनेन्द्रियविषयः, स्पृश्यते-छुप्यत इति स्पर्शः-स्पर्शनकरणविषयः,
शब्दानांचैकत्वं सामान्यतः सजातीयविजातीयव्यावृत्तरूपापेक्षया वा भावनीयं । शब्दभेदावाह- 'सुब्भिसद्दित्ति शुभशब्दा मनोज्ञा इत्यर्थः, 'दुब्भि'त्तिअशुभो मनोज्ञो यो न भवतीति, एवं च शब्दान्तरमत्रान्तर्भूतमवसेयम्,
___ एवं रूपव्याख्यानेऽपि, सुरूपादयश्चतुर्दश शुक्लान्ता रूपभेदा;, तत्र सुरूपं-मनोज्ञरूपमितरद्रूपमिति।
दीर्घम्-आयततरं ईस्वं-तदितरद्, वृत्तादयः पञ्च स्कन्धसंस्थानभेदाः, तत्र वृत्तसंस्थानं मोदकवत्, तच्च प्रतरघनभेदात् द्विधा, पुनः प्रत्येकं समविषमप्रदेशावगाढमिति चतुर्द्धा, एवं च शेषाण्यपि, 'तंसे त्तितिनोऽस्रयः-कोट्यो यस्मिंस्तत्त्र्यनं-त्रिकोणम्, 'चतुरंसे'त्तिचतोस्रोऽनयो यस्य तत्तथा-चतुष्कोणमित्यर्थः, तथा 'पिहुले'तिपृथुलं-विस्तीर्णम्, अन्यत्र पुनरिह स्थानेआयतमभिधीयते, तदेव चेह दीर्घहूस्वपृथुलशब्दैर्विभज्योक्तम्, आयतधर्मत्वादेषां, तच्चायतं प्रतरघनश्रेणिभेदात् त्रिधा, पुनरेकैकं समविषमप्रदेशमिति षोढा, यच्चायतभेदयोरपि हूस्वदीर्घयोरादावभिधानंतवृत्तादिषुसंस्थानेष्वायतस्य प्रायोवृत्तिदर्शनार्थं, तथाहि-दीर्घायतः स्तंभोवृत्तस्त्र्यनः चतुरश्चेत्यादिभावनीयम्, विचित्रत्वाद्वा सूत्रगतेरेवमुपन्यास इति, परिमंडले'त्ति परिमण्डलसंस्थानं वलयाकारं प्रतरघनभेदाद् द्विविधमिति,
___ रूपभेदो वर्णः, स च कृष्णादिः पञ्चधा प्रतीत एव, नवरं हारिद्रः-पीतः, कपिशादयस्तु संसर्गजा इति न तेशामुपन्यासः, ___गन्धो द्वेधा-सुरभिर्दुरभिश्च, तत्रसौमुख्यकृत्सुरभिर्वैमुख्यकृत् दुरभिः, साधारणपरिणामोऽस्पष्टो दुर्ग्रह इति संसर्गजत्वादेव नोक्त इति, .
रसः पञ्चधा, तत्रश्लेष्मनाशकृतिक्तः १ वैशद्यच्छेदनकृत्कटुकः२ अन्नरुचिस्तम्भनकृत क-षायः ३ आश्रवणक्लेदनकृदम्लः ४ हलादनबृंहणकृन्मधुरः ५ संसर्गजो लवण इति नोक्त इति,
स्पर्शोऽएविधः, तत्र कर्कशः कठिनोऽनमनलक्षणः १ यावत्करणात् मृद्वादयः षडन्ये, तत्र मृदुः सन्नतिलक्षणः २ गुरुरधोगमनहेतुः ३ लघुः प्रायस्तिर्यगूर्ध्वगमनहेतुः ४ शीतो वैशद्यकृत् स्तम्भनस्वभाव; ५ उष्णो मार्दवपाककृ त् ६ स्निग्धः संयोगे सति संयोगिनां बन्धकारणं ७ रूक्षस्तथैवाबन्धकारणमिति ८।
उक्ता पुद्गलधर्माणामेकता, इदानीं पुद्गलालिङ्गितजीवाप्रशस्तधाणामष्टादशानां पापस्थानकाभिधानानां ‘एगे पाणाइवाए' ।इत्यादिना ग्रन्थेन ‘दसणसल्ले' इत्येतदन्तेन तामेवाह
मू. (४८) एगे पाणातिवाए जाव एगे परिगहे । एगे कोधे जाव लोभे। एगे पेज्ने पगे दोसे जाव एगे परपरिवाए। एगा अरतिरती। एगे मायामोसे । एगे मिच्छादंसणसल्ले ।
वृ.तत्र प्राणाः-उच्छासदयस्तेषामतिपातनं-प्राणवतासह वियोजनंप्राणातिपातोहिंसेत्यर्थः, ॥१॥(उक्तञ्च-) “पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमथान्यदायुः ।
प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा"इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org