________________
३१
स्थानं -१, - उद्देशकः
स च स्वरूपतः एक एवान्यथा परमाणुरेवासौ न स्यादिति । अथवा समयादीनां प्रत्येकमनन्तानामपितुल्यरूपापेक्षयैकत्वमिति।यथापरमाणोस्तथाविधैकत्वपरिणामविशेषादेकत्वं भवति तथा तत एवानन्ताणुमयस्कन्धस्यापि स्यादिति दर्शयन् सकलबादरस्कन्धप्रधानभूतमीषप्रारभाराभिधानं पृथिवीस्कन्धं प्ररूपयन्नाह
मू. (४६) एगा सिद्धी । एगे सिद्धे । एगे परिनिव्वाणे । एगे परिनिव्वुए
वृ. 'एगा सिद्धी' सिध्यन्ति-कृतार्था भवन्ति यस्यां सा सिद्धिः, स च यद्यपि लोकाग्रं, यत आह- "इहं बुंदिं चइत्ताणं, तत्थ गंतूण सिज्झइ"त्ति, तथापि त प्रत्यासत्त्येषप्राग्भाराऽपि तथा व्यपदिश्यते, आह च-“बारसहिंजोयणेहिं सिद्धी सव्वट्ठसिद्धाउ"त्ति, यदिचलोकाग्रमेव सिद्धिः स्यात् तदा कथमेतदनन्तरमुक्तम्- “निम्मलदगरयवण्णा तुसारगोक्खीरहारसरिवन्ने'त्यादि तत्स्वरूपवर्णनंघटते?,लो काग्रस्यामूर्त्तत्वादिति, तस्मादीषयाग्भारा सिद्धिरिहोच्यते, साचैका, द्रव्यार्थतयापञ्चचत्वारिंशद्योजनलक्षप्रमाणस्कन्धस्यैकपरिणामत्वात्, पर्यायार्थतयात्वनन्ता, अथवा कृतकृत्यत्वं लोकाग्रमणिमादिका वा सिद्धिः, एकत्वं च सामान्यत इति।।
सिद्धरनन्तरं सिद्धिमन्तमाह-‘एगे सिद्धे' सिद्धति स्म-कृतकृत्योऽभवत् सेधति स्म वाअगच्छत् अपुनरावृत्त्या लोकाग्रमिति सिद्ध;, सितंवा-बद्धं कर्मध्मातं-दग्धं यस्य स निरुक्तात्त सिद्धः-कर्मप्रपञ्चनिर्मुक्तः,सचएको द्रव्यार्थतया, पर्यायार्थतस्त्वनन्तपर्याय इति, अथवा सिद्धानां अनन्तत्वेऽपि तत्सामान्यादेकत्वम्, अथवा कर्मशिल्पविद्यामन्त्रयोगागमार्थयात्राबुद्धितपः कर्मक्षयभेदेनानेकत्वेऽप्यस्यैकत्त्वं सिद्धशब्दाभिधेयत्वसाम्यादिति ।
कर्मक्षयसिद्धस्य च परिनिर्वाणं धर्मो भवतीति तदाह
‘एगे परिनिव्वाणे' परि-समन्तानिर्वाणं-सकलकर्मकृतविकारनिराकरणतःस्वस्थीभवनं परिनिर्वाणं तदेकम्, एकदा तस्य सम्भवे पुनरभावादिति । परिनिर्वाणधर्मयोगात् स एव कर्मक्षयसिद्धः परिनिर्वृत उच्यते इति तद्दर्शनायाह
“एगे परिनिए' परिनिर्वृतः सर्वतः शारीरमानसास्वास्थ्यविरहित इति भावः, तदेकत्वं सिद्धस्येव भावनीयमिति । तदेतावता ग्रन्थेनैते प्रायो जीवधा एकतया निरूपिताः, इदानी जीवोपग्राहकत्वात्पुद्गलानांतल्लक्षणाजीवधा 'एगे सद्दे' इत्यादिना जाव लुक्खे' इत्येतदन्तेन ग्रन्थेनैकतयैव दर्श्यन्ते, पुद्गलादीनांतुसत्ता केषाञ्चिदनुमानतोऽवसीयते घटादिकार्योपलब्धेः केषाञ्चित्सांव्यवहारिकप्रत्यक्षत इति ॥
मू. (१७) एगे सद्दे । एगे रूवे । एगे गंधे । एगे रसे । एगे फासे ।
एगे सुब्भिसद्दे । एगे दुब्भिसद्दे । एगे सुरूवे । एगे दुरूवे । एगे दीहे । एगे हस्से । एगे वट्टे । एगे तंसे । एगे चउरंसे । एगे पिहुले । एगे परिमंडले एगे किण्हे । एगे णीले । एगे लोहिए। एगे हलिद्दे । एगे सुकिल्ले । एगे सुब्भिगंथे । एगे दुब्भिगंधे । एगे तिते । एगे कडुए। एगे कसाए । एगे अंबिले । एगे महुरे । एगे कक्खडे जाव लुक्खे
वृ. तत्र शब्दादिसूत्राणि सुगमानि, नवरं शब्दयते-अभिधीयते अनेनेति शब्दो-ध्वनिः श्रोत्रेन्द्रियविषयः
रूप्यते-अवलोक्यत इति रूपम्-आकारश्चक्षुर्विषयः, घ्रायते-सिङ्घयते इति गन्धो-घ्राणविषयः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org