________________
३०
स्थानाङ्ग सूत्रम् १/-/४३
क्षयोपशमोवा ज्ञातिर्वा ज्ञानम्आवरणद्वयक्षयाद्याविर्भत आत्मपर्यवविशेषः सामान्यविशेषात्मके वस्तुनि विशेषांशग्रहणप्रवणः सामान्यांशग्राहकश्च ज्ञानपञ्चकाज्ञानत्रयदर्शनचतुष्टयरूपः, तच्चानेकमप्यवबोधसामान्यादेकमुपयोगापेक्षयावा, तथाहि-लब्धितो बहूनांबोधविशेषाणामेकदा सम्भवेऽप्युपयोगत एक एव सम्भवति, एकोपयोगत्वाज्जीवानामिति, ननु दर्शनयस्य ज्ञानव्यपदेशत्वमयुक्तं, विषयभेदाद्, उक्तञ्च
"जंसामन्नग्गहणंदसणमेयं विसेसियंनाणं"त्ति, अत्रोच्यते, ईहावग्रहौ हि दर्शनं, सामान्यग्राहकत्वाद्, अपायधारणेचज्ञानं, विशेषग्राहकत्वाद्, अथचोभयमपिज्ञानग्रहणेन गृहीतमागमे "आभिनिबोहियनाणे अट्ठावीसंहवंतिपयडीउ"त्ति वचनात्, तस्मादवबोधसामान्याद्दर्शनस्यापि ज्ञानव्यपदेश्यत्वमविरुद्धमिति, ननु दर्शनं पृथगेवोपात्तमुत्तरसूत्रेतत्किमिह ज्ञानशब्देन दर्शनमपि व्यपदिष्टमिति?,अत्रोच्यते, तत्र हि दर्शनं श्रद्धानंविवक्षितं, ज्ञानादित्रयस्यसम्यकशब्दलाञ्छितत्वे सति मोक्षमार्गत्वेन विवक्षितत्वात्, मोक्षमार्गभूतं चैतत्त्रयं श्रद्धानपर्यायेणैव दर्शनेन सहेति।
___ “एगेदंसणे'त्तिदृश्यन्ते-श्रद्धीयन्तेपदार्था अनेनास्मादस्मिन् वेति दर्शन-दर्शनमोहनीयस्य क्षयःक्षयोपशमोवा, दृष्टिर्वा दर्शनं-दर्शनमोहनीयक्षयाद्याविभूतस्तत्त्वश्रद्धानरूपआत्मपरिणामः, तत्रोपाधिभेदादनेकविधमपि श्रद्धानसाम्यादेकम्, एकजीवस्य वैकदा एकस्यैव भावादिति, नन्ववबोधसामान्याज्ज्ञानसम्यकत्व्योः कः प्रतिविशेषः?, उच्यते, रुचिः सम्यकत्वं रुचिकारणं तु ज्ञानं, यथोक्तम्॥१॥ “नाणमवायधिईओ दंसणमिटुंजहोग्गहेहाओ।
तह तत्तरुई सम्मं रोइज्जइ जेण तं नाणं।" ति, 'चरित्ते'त्ति चर्यते-मुमुक्षुभिरासेव्यते तदिति चर्यते वा गम्यते अनेन निर्वृताविति चरित्रं अथवा चयस्य कर्मणांरिक्तीकरणाच्चरित्रंनिरुक्तन्यायादिति-चारित्रमोहनीयक्षयाद्याविर्भूत आत्मनो विरतिरूपः परिणाम इति, तदेवं वक्ष्यमाणानां सामायिकादितझेदानां विरतिसामान्यान्तर्भावादेकस्यैवैकदाभावाद्वेति, एतेषांचज्ञानादीनामयमेव क्रमो, यतोनाज्ञातंश्रद्धीयतेनाश्रद्धत्तं सम्यगनुष्ठीयत इति । ज्ञानादीनि ह्युत्पत्तिविगतिस्थितिमन्ति, स्थितिश्च समयादिकेति समयं प्ररूपयन्नाह
मू. (४४) एगे समए।
वृ. 'एगे समए' समयः-परमनिरुद्धकाल उत्पलपत्रशतत्वतिभेददृष्टान्ताज्जरत्पमुसाटिकापाटनदृष्टान्ताद्वा समयप्रसिद्धादवबोद्धव्यः, सचैक एव वर्तमानस्वरूपः, अतीतानागतयोर्विनष्टानुत्पन्नत्वेनाभावात्, अथवाअसावेकः स्वरूपेण निरंशत्वादिति। निरंशवस्त्वधिकारादेवेदं सूत्रद्वयमाह
मू. (४५) एगे पएसे एगे परमाणू।
वृ. 'एगेपएसे एगेपरमाणू' प्रकृष्टो-निरंशोधधिकिाशजीवानांदेशः-अवयवविशेषः प्रदेशः सचैकः स्वरूपतः सद्वितीयत्वादौ देशव्यपदेशत्वेन प्रदेशत्वाभावप्रसङ्गादिति । 'परमाणुत्ति परमश्चासावात्यन्तिकोऽणुश्च सूक्ष्मः परमाणुः-दयणुकादिस्कन्धानां कारणभूतः, आह च॥१॥ “कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः ।
एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च" इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org