SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ स्थानं -१,- उद्देशकः - सप्तविधकाययोगप्रतिपादनमनर्थकंस्यादित्येक एव कायव्यायामइति, एवं कृतवैक्रियशरीरस्य चक्रवांदेरप्यौदारिकं निव्यापारमेव,व्यापारवच्चेत् उभयस्य व्यापारवत्त्वे केवलिसमुद्घातवन्मिश्रयोगतेत्येवमप्येकयोगत्वमव्याहतमेवेति, तथा काययोगस्याप्यौदारिकतया वैक्रियतया च क्रमेण व्याप्रियमाणत्वे आशुवृत्तितया मनोयोगवद्यदि यौगपद्यभ्रान्तिः स्यात् तदा को दोष इति, एवञ्च काययोगैकत्वे सत्यौदारिकादिकाययोगाहतमनोद्रव्याग्द्रव्यसाचिव्यजातजीव व्यापाररूपत्वात् मनोयोगवाग्योगयोरेककाययोगपूर्वकतयाऽपि प्रागुक्तमेकत्वमसेवयमिति, ___ अथवेदमेव वचनमत्र प्रमाणम्, आज्ञा ग्राह्यत्वात् अस्य, यतः॥१॥ “आणागेज्झो अत्थो आआणाए चेव सो कहेयव्यो । दिटुंता दिटुंतिअ कहणविहिविराहणा इह" इति, दृष्टान्ताद्दान्तिकोऽर्थ इत्यर्थः । ननुसामान्याश्रयैकत्वेनैव सूत्रंगमकं भविष्यतीति किमनेन विशेषव्याख्यानेनेति?, उच्यते, नैवं, सामान्यैकत्वस्य पूर्वसूत्रैरेवाभिहितत्वादस्य पुनरुक्तत्वप्रसङ्गाद्, देवादिग्रहणसमयग्रहणयोश्च वैयर्थ्यप्रसङ्गाच्चेति ।इहचदेवादिग्रहणं विशिष्टवैक्रियलब्धिसम्पन्नतयैषामनेकशरीररचने सत्येकदा मनोयोगादीनामनेकत्वं शरीरवद् भविष्यतीति प्रतिपत्तिनिरासार्थं, नतुतिर्यग्नारकाणां व्यवच्छेदार्थं, ननुतिर्यग्नारका अपि वैक्रियलब्धिमन्तस्तेषामपि विक्रियायां शरीरानेकत्वेन मनःप्रभृतीनामनेकत्वप्रतिपत्तिः सम्भाव्यत एवेति तद्ग्रहणमपि न्याय्यमिति, सत्यम्, किन्तु देवादीनां विशिष्टतरलब्धितया शरीराणामत्यन्तानेकतेति तद्ग्रहणं, तथा 'प्रधानग्रहण इतरग्रहणं भवतीति न्यायाददोषो, नारकादिभ्यश्च देवादीनां प्रधानत्वं प्रतीतमेवेति, एतेषां च मनःप्रभृतीनां यथाप्राधान्यकृतःक्रमः, प्रधानत्वं च बह्वल्पाल्पतरकर्मक्षयोपशमप्रभवलाभकृतमिति॥ कायव्यायामस्यैव भेदानामेकतामाहमू. (४२)एगे उट्ठाणकम्मबलवीरियपुरिसकारपरक्कमे देवासुरमणुयाणं तंसि २ समयंसि वृ. “एगेउट्ठाणे' त्यादि, उत्थानंच-चेष्टाविशेषः कर्माच-भ्रमणादिक्रिया बलंच-शरीरसामर्थ्य वीर्यंच-जीवप्रभवं पुरुषकारश्च-अभिमानविशेषः पराक्रमश्च-पुरुषकार एव निष्पादितस्वविषय इति विग्रहे द्वन्द्वैकवद्भावः, एतेच वीर्यान्तराय (क्षय) क्षयोपशमसमुत्था जीवपरिणामविशेषाः, एतेषु प्रत्येकमेकशब्दो योजनीयो, वीर्यान्तरक्षयोपशमवैचित्र्यतः प्रत्येकं जघन्यादिभेदैरनेकत्वेऽप्येषामेकजीवस्यैकदा क्षयोपशममात्रयाएकविधत्वादेक एवजघन्यादिरेतद्विशेषो भवति कारणमात्राधीनत्वात् कार्यमात्राया इति सूत्रभावार्थः, शेषं प्राग्वदिति पराक्र मादेश्च ज्ञानादिर्मोक्षमार्गोऽवाप्यते, यत आह॥१॥ “अब्भुट्ठाणे विणये परक्कमे साहुसेवणाए य । सम्मइंसणलंभो विरयाविरइए विरइए" इति, अतो ज्ञानादीनां निरूपणायाह-“एगे नाणे' इत्यादि, अथवा धर्मप्रतिमा प्रागुदिता सा च ज्ञानादिस्वभावेति ज्ञानादीन् निरूपयन्नाह मू. (४३) एगे नाणे एगे दंसणे एगे चरित्ते। वृ. ज्ञायन्ते-परिच्छिद्यन्तेऽर्था अनेनास्मिन्नस्माद्वेति ज्ञानं-ज्ञानदर्शनावरणयोः क्षयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy