________________
स्थानाङ्ग सूत्रम् १/-/३९ 'यत्' यस्मात् 'से' तस्याः स्वाम्यात्मा-जीवोअथवा 'से'त्तिसोऽधर्मप्रतिमावानात्मा परिक्लिश्यतेरागादिभिर्बाध्यतेसंक्लिश्यत इत्यर्थः, 'जंसी'तिपाठान्तरं वा, ततश्च प्राकृतत्वेन लिङ्गव्यत्ययात् यस्यामधर्मप्रतिमायां सत्यामात्मा परिक्लिशयते सा च एकैवेति । एतद्विपर्ययमाह
मू. (४०) एगा धम्मपडिमा जं से आया पज्जवजाए
वृ. 'एगाधम्मे'त्यादि, प्राग्वन्नवरंपर्यवाः-ज्ञानादिविशेषाजातायस्यसपर्यवजातोभवतीति शेषः, विशुध्यतीत्यर्थः,आहिताग्न्यादित्वाच्चजातशब्दस्योत्तरपदत्वमिति,अथवापर्यवान्पर्यवेषु वा यातः-प्राप्तः पर्यवयातोऽथवा पर्यवः-परिरक्षा परिज्ञानं वा शेषं तथैवेति । धर्माधर्मप्रतिमेच योगत्रयाद्मवत इति तत्स्वरूपमाह
मू. (४१) एगेमणे देवासुरमणुयाणं तंसि तंसि समयंसि
वृ. 'एगे मणे इत्यादि सूत्रत्रयं, तत्र मन इति मनोयोगः, तच्च यस्मिन् २ समये विचार्यते तस्मिन् २ 'समये' कालविशेष एकमेव, वीप्सानिर्देशेन न कचनापि समये तद् द्व्यादिसंख्यं सम्भवतीत्याह,एकत्वंचतस्यैकोपयोगत्वात्जीवानां, स्यादेतत्-नैकोपयोगोजीवो, युगपच्छीतोष्ण स्पर्शविषयसंवेदनद्वयदर्शनात्, तथाविधभिन्नविषयोपयोगपुरषद्वयवत्, अत्रोच्यते, यदिदं शीतोष्णोपयोगद्वयं तत्स्वरूपेण भिन्नकालमपि समयमनसोरतिसूक्ष्मतया युगपदिव प्रतीयते, न पुनस्तद्युगपदेवेति, आह च॥१॥ “समयातिसुहुमयाओ मनसि जुगवं च भिन्नकालंपि।
उप्पलदलसयवेहं व जह व तमलायचक्कं ति" यदिपुनरेकत्रोपयुक्तं मनोऽर्थान्तरमपि संवेदयति तदाकिमन्यत्रगतचेताः पुरोऽवस्थितं हस्तिनमपि न विषयीकरोतीति, आह च-. ॥१॥ “अन्नविणिउत्तमन्नं विणिओगं लहइ जइ मणो तेणं।
हत्थिंपि ठियं पुरओ किमन्नचित्तो न लक्खेइ?" त्ति इहच बहुवक्तव्यमस्तितत् स्थानान्तरादवसेयमिति, अथवा सत्यासत्योभयस्वभावानुभयरूपाणांचतुर्णां मनोयोगानामन्यतर एव भवत्येकदा, द्यादीनांविरोधेनासम्भवादिति, केषामित्याह'देवा सुरमणुयाणं'ति तत्र दीव्यन्ति इति देवाः-वैमानिकज्योतिष्कास्तेच न सुरा असुराः-भवनपतिव्यन्तरास्तेचमनोर्जातामनुजा-मनुष्यास्तेचदेवासुरमनुजास्तेषां, तथा वागि'ति वाग्योगः, स चैषामेकदा एक एव, तथाविधमनोयोगपूर्वकत्वात् तथाविधवाग्योगस्य, सत्यादीनामन्यतरभावाद्वा, वक्ष्यति च -
___ "छहिं ठाणेहिं नत्थि जीवाणं इड्डी इ वा जाव परक्कमे इ वा, तंजहा-जीवं वा अजीवं करणयाए १, अजीवं वा जीवं करणयाए २, एगसमएणं दो भासाओ भासित्तए" इति।
तथा कायव्यायामः-काययोगः, स चैषामेकदा एक एव, सप्तानां काययोगानामेकदा एकतरस्यैव भावात्, ननु यदाहारकप्रयोक्ता भवति तदौदारिकस्यावस्थितस्य श्रूयमाणत्वात् कथमेकदा न काययोगद्वयमिति?, अत्रोच्यते, सतोऽप्यौदारिकस्य व्यायामभावादाहारकस्यैव चतत्र व्याप्रियमाणत्वाद्, अप्यौदारिकमपि तदाव्याप्रियतेतर्हि मिश्रयोगता भविष्यति, केवलिसमुद्घाते सप्तमषष्ठद्वितीयसमयेष्वौदारिकमिश्रवत्, तथा चाहारकप्रयोक्ता न लभ्येत, एवं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org