________________
स्थानं -१, - उद्देशकः
२७
वृ. 'एगा विन्नु'त्ति विद्वान् विज्ञो वा तुल्यबोधत्वादेक इति, स्त्रीलिङ्गत्वं च प्राकृतत्वात् उत्पाद उप्पावत्, लुप्तभावप्रत्ययत्वाद्वा एका विद्वत्ता विज्ञता वेत्यर्थः।
मू. (३३) एगा वेयणा।
वृ. 'वेयण'त्ति प्राग्वेदनासामान्यकर्मानुभवलक्षणोक्ता इह तुपीडालक्षणैव, साचसामान्यत एकैवेति॥
मू. (३४) एगा छेयणा। वृ.अस्याएव कारणविशेषनिरूपणायाह-'छेयणे'त्तिछेदनं शरीरस्यान्यस्यवाखङ्गादिनेति मू. (३५) एगा भेयणा।
वृ. 'भेयणे'ति, भेदनं कुन्तादिना, अथवा छेदनं कर्मणः स्थितिघातः भेदनं तु रसघात इति, एकता च विशेषाविवक्षणादिति । वेदनादिभ्यश्च मरणमतस्तद्विशेषमाह- मू. (३६) एगे मरणे अंतिमसारीरियाणं।
वृ. 'एगे मरणे' इत्यादि, मृतिर्मरणं अन्ते भवमन्तिमं-चरमंतच्च तच्छरीरं चेत्यन्तिमशरीरं तत्र भवा अन्तिमशारीरिकी उत्तरपदवृद्धिः, तद्वा तेषामस्तीति अन्तिमशारीरिका दीर्घत्वञ्च प्राकृतशैल्या, तेषां चरमदेहानां, मरणैकता च सिद्धत्वे पुनर्मरणाभावादिति । अन्तिमशरीरश्च स्नातको भूत्वा भ्रियते अतस्तमाह__ मू. (३७) एगे संसुद्धे अहाभूए पत्ते।
वृ. 'एगेसंसुद्धे' इत्यादि, एकः संशुद्धः-अशबलचरणः अकषायत्वात् 'यथाभूतः' तात्त्विकः ('पत्ते'त्ति) पात्रमिव पात्रमतिशयवद्ज्ञानादिगुणरलानां प्राप्तो वा गुणप्रकर्षमिति गम्यते ।
मू. (३८) एगेदुक्खे जीवाणं एगभूए।
वृ. 'एगदुक्खे' एकमेवान्तिमभवग्रहणसम्भवं दुःखं यस्य स एकदुःखः ‘एगहक्खे'त्ति पाठान्तरे त्वेकधैवाख्या-संशुद्धादिळपदेशो यस्य, न त्वसंशुद्धसंशुद्धासंशुद्ध इत्यादिकोऽपि, व्यपदेशान्तरनिमित्तस्य कषायादेरभावादिति स भवत्येकधाख्यः, एकधा अक्षो वा-जीवो यस्य सतथेति, जीवानां-प्राणिनामेकभूतः-एक एव-आत्मोपम इत्यर्थः, एकान्तहितवृत्तित्वाद् एकत्वं चास्य बहूनामपि समस्वभावत्वादिति, अथवा 'पत्ते' इत्यादि सूत्रान्तरं उक्तरूपसंशुद्धादन्येषां स्वरूपप्रतिपादनपरं, तत्र प्राकृतत्वात् प्रत्येकमेकं दुःखं प्रत्येकैकदुःखं जीवानां स्वकृतकर्मफलभोगित्वात्, किंभूतं तदित्याह-एकभूतमनन्यतया व्यवस्थितंप्राणिषु, नसाङ्ख्यानामिव बाह्यमिति दुःखं पुनरधर्माभिनिवेशादिति तत्स्वरूपमाह
मू. (३९) एगा अहम्मपडिमा जं से आया परिकिलेसति
वृ. 'एगाअहम्मे' त्यादि, धारयति दुर्गतौ प्रपततो जीवान् धारयति-सुगतौ वा तान् स्थापयतीति धर्माः, उक्तञ्च॥१॥ "दुर्गतिप्रसृतान् जन्तून्, यस्माद्धारयते ततः।
___ धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः" सच श्रुतचारित्रलक्षणः, तत्प्रतिपक्षस्त्वधर्मस्तद्विषया प्रतिमा-प्रतिज्ञा अधर्मप्रधानंशरीरं वाअधर्मप्रतिमा, साचैका, सर्वस्याः परिक्लेशकारणतयैकरूपत्वाद्, अतएवाह-'जं से' इत्यादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org