________________
३३
स्थानं-१,- उद्देशकः
सचप्राणातिपातो द्रव्यतभावभेदात् द्विविधो, विनाशपरितापसङ्घलेशभेदात् त्रिविधोवा, ॥१॥ (आह च) “तप्पज्जायविनासो दुक्खुप्पाओ य संकिलेसो य ।
एस वहो जिणभणिओ वज्जेयव्वो पयत्तेणं" ति, अथवामनोवाकायैःकरणकारणानुमतिभेदान्नवधा, पुनःसक्रोधादिभेदात् षट्त्रिशद्विधो वेति १,
तथा मृषा-मिथ्या वदनं वादो मृषावादः, स च द्रव्यभावभेदात् द्विधा, अभूतोद्भावनादिभिश्चतुर्धा वा, तथाहि-अभूतोद्भावनं यथा सर्वगत आत्मा,भूतनिह्नवो नास्त्यात्मा, वस्त्वन्तरन्यासो यथा गौरपि सन्नश्वोऽयमिति, निन्दा च यथा कुष्ठी त्वमसीति २,
तथाअदत्तस्य-स्वामिजीवतीर्थंकरगुरुभिरवितीर्णस्याननुज्ञातस्य सचित्ताचित्तमिश्रभेदस्य वस्तुनः आदानं-ग्रहणमदत्तादानं, चौर्यमित्यर्थः, तच्च विविधोपाधिवशादनेकविधमिति,
तथामिथुनस्य-स्त्रीपुंसलक्षणस्य कर्म मैथुनम्-अब्रह्म, तत्मनोवाक्कायानां कृतकारितानुमतिभिरौदारिकवैक्रियशरीरविषयाभिरष्टादशधा विविधोपाधितो बहुविधतरं वेति ४,
तथा परिगृह्यते-स्वीक्रियत इति परिग्रहः, बाह्याभ्यन्तरभेदात् द्विधा, तत्र बाह्यो धर्मसाधनव्यतिरेकेणधनधान्यादिरनेकधा, अभ्यन्तरस्तुमिथ्यात्वाविरतिकषायप्रमादादिरनेकधा, परिग्रहणं वा परिग्रहो मूछेत्यर्थः ५,
तथाक्रोधमानमायालोभाः कषायमोहनीयकर्मपुद्गलोदयसम्पाद्याजीवपरिणामाइति, एते चानन्तानुबन्ध्यादिभेदतोऽसङ्ख्याताध्यवसायस्थानभेदतो वा बहुविधाः,
__ तथा 'पेजे'त्ति प्रियस्य भावः कर्म वा प्रेम, तच्चानभिव्यक्तमायालोभलक्षणभेदस्वभावमभिष्वङ्गमात्रमिति १०, तथा
'दोसे'त्ति द्वेषण द्वेषः, दूषणं वा दोषः, स चानभिव्यरक्तक्रोधमानलक्षणभेदस्वभावोऽप्रीतिमात्रमिति ११,
'जाव'त्ति 'कलहे अब्भक्खाणे पेसुन्ने' इत्यर्थः तत्र कलहो-राटी १२ अभ्याख्यानं-प्रकटमसदोषारोपणं १३ पैशून्यं-पिशुनकर्म प्रच्छन्नं सदसदोषाविर्भावनं १४, परेषां परिवादः परपरिवादो विकत्थनमित्यर्थः १५,
अरतिश्चतन्मोहनीयोदयजश्चित्तविकार उद्वेगलक्षणो रतिश्चतथाविधानन्दरूपाअरतिरति इत्येकमेव विवक्षितं, यतः क्वचन विषयेयारतिस्तामेव विषयान्तरापेक्षयाअरतिव्यपदिशन्त्येवमरतिमेव रतिमित्यौपचारिकमेकत्वमनयोरस्तीति १६, ___तथा ‘मायामोस'ति माया च-निकृतिम॒षा च-मृषावादो मायया वा सह मृषा मायामृषा प्राकृतत्त्वान्मायामोसं, दोषद्वययोगः, इदं च मानमृषादिसंयोगदोषोपलक्षणं, वेषानन्तरकरणेन लोकप्रतारणमित्यन्ये, प्रेमादीनि च बहुविधानि विषयभेदेन अध्यवसायस्थानभेदतो वा १७,
मिथ्यादर्शनं-विपर्यस्ता दृष्टिः, तदेव तोमरादिशल्यमिव शल्यं दुःखहेतुत्वात् मिथ्यादर्शनशल्यमिति, मिथ्यादर्शनञ्च पञ्चधा-अभिग्रहिकानभिग्रहिकाभिनिवेशिका- नाभोगिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org