________________
३४२
स्थानाङ्ग सूत्रम् ५/२/४५७ 1 पंच किरिताओ पं० तं० - आरंभिता १ जाव मिच्छादसणवत्तिता ४, नेरइयाणं पंच किरिता, निरंतरंजाव वेमाणियाणं २ । पंच किरियातो पं० २० - दिहिता १ पुहिता २ पाडोचिता ३ सामंतोवणिवाइया ४ साहस्थिता ५, एवं नेरइयाणं जाव वेमाणियाणं २४, ३ । पंच किरियातो पं० २० - नेसत्थिता आणवणिता २ वेयारणिया ३ अनाभोगवत्तिता ४ अनवकंखवत्तित्ता ५, एवं जाव वेमाणियाणं २४, ४ / पंच किरियाओ पं० तं० - पेज्जवत्तिता १ दोसवत्तिया २ पओगकिरिया ३ समुदानकिरिया ४ ईरियावहिया ५, एवं मणुस्साणवि, सेसाणं नत्थइ ५।
वृ. 'पंचे त्यादिसुगम, नवरंआश्रवणं-जीवतडागे कर्मजलस्य सङ्गलनमाश्रवः, कर्मनिबन्धनमित्यर्थः, तस्य द्वाराणीव द्वाराणि-उपाया आश्रवद्वाराणीति ।
तथा संवरणं-जीवतडागे कर्मजलस्य निरोधनं संवरस्तस्यद्वाराणि-उपायाः संवरद्वाराणिमिथ्यात्वादीनामाश्रवाणां क्रमेणं विपर्ययाः सम्यक्त्वविरत्यप्रमादाकषायित्वायोगित्वलक्षणाः प्रथमाध्ययनवद्वाच्या इति।
दण्ड्यते आत्माऽन्यो वा प्राणी येन स दण्डः, तत्रत्रसानं स्थावराणां वा आत्मनः परस्य वोपकाराय हिंसाऽर्थदण्डः विपर्ययादनर्थदण्डः हिंसितवान् हिनस्ति हिसिष्यत्ययमित्यभिसन्धेर्यः सर्पवैरिकादिवधः स हिंसादण्ड इति ‘अकस्माइंड'त्ति मगधदेशे गोपालबालाबलादिप्रसिद्धोऽकस्मादितिशब्दः स इह प्राकृतेऽपि तथैव प्रयुक्त इति तत्रान्यवधार्थंप्रहारे मुक्तेऽन्यस्य वधोऽकस्माद्दण्ड इति यो मित्रस्याप्यमित्रोऽयमितिबुड्या वधः स दृष्टिविपर्यासदण्ड इति ।
एते हि दण्डास्त्रयोदशानां क्रियास्थानानां मध्येऽधीता इति प्रसङ्गतः शेषाण्यष्टौ क्रियास्थानान्यभिधीयन्ते, तत्रमृषाक्रिया-आत्मज्ञात्याद्यर्थंयदलीकभाषणं१ तथाअदत्तादानक्रिया आत्माद्यर्थमदत्तग्रहणं २ तथा अध्यात्मक्रिया यत्केनापि कथञ्चनाप्यपरिभूतस्य दौर्मनस्यकरणं ३ तथा मानक्रिया यजात्यादिमदमत्तस्य परेषां हीलनादिकरणं ४ तथा अमित्रक्रिया यत मातापितृस्वजनादीमामल्पेऽप्यपराधे तीव्रदण्डस्य दहनाङ्कनताडनादिकस्य करणं ५ तथा मायाक्रिय यच्छठतयामनोवाक्कायप्रवर्तनं ६ तथा लोभक्रिया यल्लोभाभिभूतस्य सावद्यारम्भपरिग्रहेषुमहत्सु प्रवर्तनं ७ तथेापथिकक्रिया यदुपशान्तमोहादेरेकविधकर्मबन्धनमिति ८, अत्र गाथा - ॥१॥ “अट्ठा १ नट्ठा हिंसा ३ऽकम्हा ४ दिट्ठी य ५ मोस ६ ऽदिने य७।
अज्झत्थ ८ माण ९ मित्ते १० माया ११ लोभे १२ रियावहिया १३॥" इति,
नवरं 'विगलिंदिए" त्यादि एकद्वित्रिचतुरिन्द्रियेषु मिथ्याऽष्टिविशेषणं न वाच्यं, तेषां सदैव सम्यक्त्वाभावेन व्यवच्छेद्याभावात् सास्वादनस्य चाल्पत्वेनाविवक्षितत्वादिति । कायिकीकायचेष्टा १ अधिकरणिकी - खङ्गादिनिर्वर्तनी २ प्राद्वेषिकी-मत्सरजन्या ३ पारितापनिकीदुःखोत्पादनरूपा ४ प्राणातिपातः प्रतीतः ५। 'दिट्ठिया' अश्वादिचित्रकर्मादिदर्शनार्थंगमनरूपा १ 'पुट्टिया' जीवादीन् रागादिना पृच्छतः स्पृशतो वा २ ‘पाडुच्चिया' जीवादीन् प्रतीत्य या ३ 'सामंतोवणिवाइया' अश्वादिरथादिकंलोके श्लाघयति हृष्यतोअश्वादिपतेरिति ४ ‘साहत्थिया' स्वहस्तगृहीतजीवादिना जीवं मारयतः५।
- 'नेसत्थिया' यन्त्रादिनाजीवाजीवानिसृजतः १ 'आणवणिया जीवाजीवानानाययतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org