SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ स्थानं - ५, - उद्देशक: -२ ३४३ २ 'वियारणिया' तानेव विदारयतः ३ 'अनाभोगवत्तिया' अनाभोगेन पात्राद्याददतो निक्षिपतो वा ४' अनवकंखवत्तिया' इहपरलोकापायानेपेक्षस्येति ५ । 'पेज्जवत्तिया' रागप्रत्यया १ 'दोसवत्तिया' द्वेषप्रत्यया २ 'प्रयोगक्रिया' कायादिव्यापाराः ३ 'समुदानक्रिया' कम्र्म्मोपादानं ४ 'ईरियावहिया' योगप्रत्ययो बन्धः ५ । इदं च प्रेमादिक्रियापञ्चकं सामान्यपदे, चतुर्विंशतिदण्डके तु मनुष्यपद एव सम्भवति, ईर्यापथक्रियाया उपशान्तमोहादित्रयस्यैव भावादित्याह - 'एव' मित्यादि. इहैकेन्द्रियादीनामविशेषेण क्रियोक्ता, स च पूर्वभवापेक्षया सर्वापि सम्भवतीति भावनीयं द्विस्थानके द्वित्वेन क्रियाप्रकरणमुक्तमिह तु पञ्चकत्वेन नारकादिचतुर्विंशतिदण्डकाश्रयेण चेति विशेषः, क्रियाणां च विस्तरव्याख्यानं द्विस्थानकप्रथमोद्देशकाद् वाच्यमिति । अनन्तरं कर्म्मणो बन्धनिबन्धनभूताः क्रिया उक्ताः, अधुना तस्यैव निर्जरोपायभूतां परिज्ञामाह - मू. (४५८) पंचविहा परिन्ना पं० तं० - उवहिपरिन्ना उवस्सयपरिन्ना कसायपरिन्ना जोगपरिन्ना भत्तपाणपरिन्ना । वृ. ‘पंचविहे’त्यादि, सुगमं नवरं परिज्ञानं परिज्ञा-वस्तुस्वरूपस्य ज्ञानं तत्पूर्वकं प्रत्याख्यानं च, इयं च द्रव्यतो भावतश्च, तत्र द्रव्यतोऽनुपयुक्तस्य भावतस्तूपयुक्तस्येति, आहच - "भावपरिन्ना जाणण पच्चक्खाणं च भावेणं' इति, तत्रोपधी-रजोहरणादिस्तस्यातिरिक्तस्याशुद्धस्य सर्वस्य वा परिज्ञा उपधिपरिज्ञा, एवं शेषपदान्यपि, नवरमुपाश्रीयते-सेव्यते संयमात्मपालनायेत्युपाश्रयः परिज्ञा च व्यवहारवतां भवतीति व्यवहारं प्ररूपयन्नाह - मू. (४५९) पंचविहे ववहारे पं० तं० - आगमे सुते आणा धारणा जीते, जहा से तत्थ आगमे सिता आगमेणं ववहारं पट्टवेज्जा नो से तत्थ आगमे सिया जहा से तत्थ सुते सिता सुतेणं ववहारं पट्टवेज्जानो से तत्थ सुते सिता एवं जाव जहा से तत्थ जीए सिया जीतेणं ववहारं पट्टवेज्जा, इच्चेतेहिं पंचहिं ववहारं पट्टवेज्जा आगमेणं जाव जीतेणं, जहा २ से तत्थ आगमे जाव जीते तहा २ ववहारं, पट्टवेज्जा, से किमाहु भंते ! आगमबलिया समणा निग्गंधा ? इच्तं पंचविधं ववहारं जता जता जहिं जहिं तता तता तहिं तहिं अनिस्सितोवस्सितं सम्मं ववहरमाणे समणे निग्गंथे आणाते आराधते भवति । वृ. ‘पंचे’त्यादि, व्यवहरणं व्यवहारः, व्यवहारो - मुमुक्षुप्रवृत्तिनिवृत्तिरूपः, इह तु तन्नि बन्धनत्वात् ज्ञानविशेषोऽपि व्यवहारः, तत्र आगम्यन्ते परिच्छिद्यन्ते अर्था अनेनेत्यागमः केवलमनःपर्यायावधिपूर्वचतुर्द्दशकदशकनवकरूपः १ तथा शेषं श्रुतं-आचारप्रकल्पादिश्रुतं, नवादिपूर्वाणां श्रुतत्वेऽप्यन्तीन्द्रियार्थज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवदिति २ यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातिचारालोचनमितरस्यापि तथैव शुद्धिदानं साऽऽज्ञा ३, गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदन्यस्तत्रैव 'तथैव तामेव प्रयुङ्क्ते सा धारणा वैयावृत्त्यकरादेर्वा गच्छोपग्रहकारिणो अशेषानुचितस्योचितप्रायश्चित्तपदानां प्रदर्शितानां धरणं धारणेति ४ तथा द्रव्यक्षेत्रकालभावपुरुषप्रतिषेवानुवृत्त्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy