SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३३० स्थानाङ्ग सूत्रम् ५/१/४४३ वा भिंदति वा अवहरति वा १, जक्खातिट्टे खलु अयं पुरिसे, तेणं मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा २, ममं च णं तब्भववेयणिज्ने कम्मे उतिन्ने भवति, तेण मे एस पुरिसे अक्को सति वा जाव अवहरति वा ३, ममंचणं सम्मससहमाणस्स अखममाणस्स अतितिक्खमाणस्स अनधितासमाणस्स किं मन्ने कज्जति ?, एगंतसो मे पावे कम्मे कजति ४, ममंच णं सम्म सहमाणस्स जाव अहियासेमाणस्स किं मन्ने कज्जति ?, एगंतसो मे निजरा कज्जति ५, इच्चेतेहिं पंचहिं ठाणेहिं छउमत्थे उदिन्ने परीसहोवसग्गे सम्मं सहेज्जा जाव अहियासेज्जा । पंचहि ठाणेहिं केवली उदिने परीसहोवसग्गे सम्मं सहेजा जाव अहियासेज्जा, तं० - खित्तचित्ते खलु अतं पुरिसे तेण मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा १ दित्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा, २ जक्खातिट्टे खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा ३ ममंच णं तब्भववेयणिज्जे कम्मे उदिन्ने भवति तेण मे एस पुरिसे जाव अवहरति वा ४ ममं च णं सम्मं सहमाणं खममाणं तितिक्खमाणं अहियासेमाणं पासेत्ता बहवे अन्ने छउमत्था समणा निग्गंथा उदिन्ने २ परीसहोवसग्गे एवं सम्मं सहिस्संति जाव अहियासिस्संति ५, इच्चेतेहिं पंचहिं ठाणेहिं केवली उदिन्ने परीसहोवसग्गे सम्मं सहेज्जाजाव अहियासेज्जा । वृ. स्फुटं, किन्तु छाद्यते येन तच्छद्म-ज्ञानावरणादिघातिकर्म्मचतुष्टयं तत्र तिष्ठतीति छद्मस्थः सकषाय इत्यर्थः, उदीर्णान् उदितान् परीषहोपसर्गान् अभिहितस्वरूपान् सम्यक्कषायोदयनिरोधादिना सहेत-भयाभावेनाविचलनाद् भटंभटवत् क्षमेत क्षान्त्या तितिक्षेत अदीनतया अध्यासीत परीषहादावेवाधिक्येनासीत न चलेदिति, उदीर्णं उदितं प्रबलं वा कर्म - मिथ्यात्वमोहनीयादि यस्य स उदीर्णकर्म्मा खलुर्वाक्यालङ्कारे अयं प्रत्यक्षः पुरुषः उन्मत्तको मदिरादिना विप्लु तचित्तः स इव उन्मत्तकभूतो, भूतशब्दस्योपमानार्थत्वात्, उन्मत्तक एव वा उन्मत्तकभूतो, भूतशब्दस्य प्रकृत्यर्थत्वात्, उदीर्णकर्म्मा यतोऽयमुन्मत्तकभूतः पुरुषः तेन कारणेन 'मे' इति मां एषः - अयमाक्रोशति-शपति अपहसति उपहासं करोति अपघर्षति वा अपघर्षणं करोति निश्छोटयति-सम्बन्ध्यन्तरसम्बद्धं हस्तादौ गृहीत्वा बलात् क्षिपति निर्भर्त्सयति दुर्वचनैः बध्नाति रज्वादिना रुणद्धि कारागारप्रवेशादिना छवेः-शरीरावयवस्य हस्तादेः छेदं करोति मरणप्रारम्भः प्रमारो-मूर्च्छाविशेषो मारणस्थानं वा तं नयति-प्रापयतीति अपद्रावयति-मारयति अथवा प्रमारंमरणमेव । ‘उवद्दवेइ’त्ति उपद्रवयति उपद्रवं करोतीति, पतद्ग्रहं पात्रं कम्बलं-प्रतीतं पादप्रोञ्छनंरजोहरणं आच्छिनत्ति- बलादुद्दालयति 'विच्छिन्ति' विच्छिन्नं करोति, दूरे व्यवस्थापयतीत्यर्थः, अथवा वस्त्रमीषच्छिनत्ति आच्छिनत्ति, विशेषेण छिनत्ति विच्छिनत्ति, भिनत्तिपात्रं स्फोटयति अपहरति-चोरयति, वाशब्दाः सर्व्वे विकल्पार्था इत्येकं परीषहादिसहनालम्बनस्थानं, इदं चाक्रोशादिकं, इह प्राय आक्रोशवधाभिधानपरीषहद्वयरूपं मन्तव्यमुपसर्गविवक्षायां तु मानुष्यकप्राद्वेषिकाद्युपसर्गरूपमिति १ । तथा यक्षाविष्टो देवाधिष्ठितोऽयं तेनाक्रोशतीत्यादि द्वितीयं २, तथा अयं हि परीषहोपसर्गकारी मिथ्यात्वादिकर्म्मवशवर्त्ती 'ममंच णं' ति मम पुनस्तेनैव मानुष्यकेण भवेन - जन्मना वेद्यते - अनुभूयते यत्तत्तद्भववेदनीयं कर्म्म उदीर्णं भवति-अस्ति तेनैष मामाक्रोशतीत्यादि तृतीयं ३, तथा एष बालिशः पापाभीतत्वात्करोतु नामाक्रोशनादि मम For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy