________________
स्थानं - ५, उद्देशक: १
-
३३१
पुनरसहमानस्य 'किं मन्ने' त्ति मन्ये इति निपातो वितर्कार्थः ' कज्जइ' त्ति सम्पद्यते, इह विनिश्चयमाह
'एगंतसो 'त्ति एकान्तेन सर्वथा पापं कर्म्म- असातादि 'क्रियते' संपद्यत इति चतुर्थं, तथा अयं तावत् पापं बध्नाति मम चेदं सहतो निर्जरा क्रियत इति पञ्चमं, 'इच्चेएही' त्यादि निगमनमिति, शेषं सुगमं । छद्मस्थविपर्ययः केवलीति तत्सूत्रं, तत्र च क्षिप्तचित्तः पुत्रशोकादिना नष्टचित्तः, ध्तचित्तः पुत्रजन्मादिना दर्प्पवञ्चित्त उन्मत्त एवेति, मां च सहमानं दृष्ट्वा अन्येऽपि सहिष्यन्ति, उत्तमानुसारित्वात् प्राय इतरेषां, यदाह
119 11
"जो उत्तमेहिं मग्गो पहओ सो दुक्करो न सेसाणं । आयरियंमि जयंति तयनुचरा केण सीएज्जा ? " इति,
'इच्चेएही' त्याद्यत्रापि निगमनं, शेषं सुगममिति । छद्मस्थकेवलिनोरनन्तरं स्वरूपमुक्तमिदानीमपि तयोरेव तदाह
मू. (४४४) पंच हेऊ पं० तं०-हेउन जाणति हेउं न पासति हेउं न बुज्झति हेउं नाभिगच्छति हेउं अन्नाणमरणं मरति १ पंच हेऊ पं० तं०- हेउणा न जाणति जाव हेउणा अन्नाणमरणं मरति ५, २, पंच हेऊ पं० तं०-हेउं जाणइ जाव हेउं छउमत्थमरणं मरइ ३, पंच हेऊ पं० तं० - हेउणा जाणइ जाव हेउणा छउमत्थमरणं मरइ, पंच अहेऊ पं० तं० - अहेडं न याणति जाव अहेउं छउमत्थमरणं मरति ५,
पंच अहेऊ पं० तं० - अहेउणा न जाणति जाव अहेउणा छउमत्थमरणं मरति ६, अहेऊ पं- तं० - अहेउं जाणति जाव अहेउं केवलिमरणं मरति ७, पंच अहेऊ पं० तं०-अहेउणा न जाणति जाव अहेउणा केवलिमरणं मरति ८, केवलिस्स णं पंच अनुत्तरा पं० तं०-अनुत्तरे नाणे अनुत्तरे दंसणे अनुत्तरे चरिते अनुत्तरे तवे अनुत्तरे वीरिते ९ ।
वृ. 'पंच हेऊ' इत्यादि सूत्रनवकं, तत्र भगवतीपञ्चमशतसप्तमोद्देशकचूर्ण्यनुसारेण किमपि लिख्यते, पञ्च हेतवः, इह यः छद्मस्थतयाऽनुमानव्यवहारी अनुमानाङ्गतया हेतुं लिङ्गं धूमादिकं जानाति स हेतुरेवोच्यते, एवं यः पश्यति २ श्रद्धत्ते ३ प्राप्नोति चेति ४, तदेव हेतुचतुष्टयं मिथ्याष्टिमाश्रित्य कुत्साद्वारेणाह - हेतुं न जानाति न सम्यग्विशेषतो गृह्णाति, नञः कुत्सार्थत्वादसम्यगवैतीत्यर्थः, एवं न पश्यति सामान्यतः, न बुद्धतेन श्रद्धत्ते, बोधेः श्रद्धान-पर्यायत्वात्, तथा न समभिगच्छति भवनिस्तणकारणतया न प्राप्नोति, एवं चायं चतुर्विधो हेतुर्भवतीति, तथा हेतुम्-अध्यवसानादिमरणहेतुजन्यत्वेनोपचाराद् अज्ञानमरणं मिथ्याष्टित्वेना-ज्ञातहेतुतद्गम्यभावस्य मरणं तन्प्रियते-करोति यश्चैवंविधः सोऽपि हेतुरेवेति पञ्चमो हेतुर्विधित एवोक्त इति १ ।
तथा पंच हेतवस्तत्र यो हेतुना - धूमादिनाऽनुमेयमर्थं जानाति स हेतुरेव, एवं यः पश्यतीत्यादि । तदेव कुत्साद्वारेण मिथ्याष्टिमाश्रित्य हेतुचतुष्टयमाह-हेतुना न जानात्यनुमेयं, नञः कुत्सार्थत्वा देवासम्यगवगच्छतीत्यर्थः एवं न पश्यतीत्यादि, तथा हेतुना मरणकारणेन योऽज्ञानमरणं म्रियते स हेतुरेवेति पञ्चमो हेतुरिति (२) । तथा पञ्च हेतवो यो हि सम्यग्धष्टितया हेतुं सम्यग्जानाति स हेतुरेवेत्ये- वमन्येऽपि, नवरं हेतुं हेतुमत् छद्मस्थमरणं सम्यग् ष्टित्वान्नाज्ञानमरणमनुमातृत्वाच्च न केवलिम-रणमिति, एवं तृतीयान्तसूत्रमपि ३ । इह सूत्रद्वयेऽपि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International