SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३२९ स्थानं-५, - उद्देशकः-१ विकर्माकरणादप्राप्तिर्गतिप्रतिघातः, प्रव्रज्यादिपरिपालनतः प्राप्तव्यशुभदेवगतेनरकप्राप्तौ कण्डरीकस्येवेति, तथा स्थितेः-शुभदेवगतिप्रायोग्यकर्मणां बद्धैव प्रतिघातः स्थितिप्रतिघातः, भवति चाध्यवसायविशेषास्थितेः प्रतिघातो, यदाह-“दीहकालठिइयाओ इस्सकालठिइयाओ पकरेइ" इति, तथा बन्धनं नामकर्मण उत्तरप्रकृतिरूपमौदारिकादिभेदतः पञ्चविधं तस्य प्रक्रमात् प्रशस्तस्यप्राग्वत्प्रतिघातोबन्धनप्रतिघातो, बन्धनग्रहणस्योपलक्षणत्वात्तत्सहचरप्रशस्तशरीरतदङ्गोपाङ्गसंहननसंस्थनानामपि प्रतिघातो व्याख्येयः, तथा प्रशस्तगतिस्थितिबन्धनादिप्रतिघाताद् भोगाना-प्रशस्तगत्याद्यविनाभूतानां प्रतिघातो भोगप्रतिघातो, भवति हि कारणाभावे कार्याभाव इति, तथा प्रशस्तगत्यादेरभावादेव बलवीर्यपुरुषकारपराक्रमप्रतिघातो भवतीति प्रतीतं, तत्र बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारः-अभिमानविशेषः पराक्रमः-स एव निष्पादितस्वविषयोऽथवा पुरुषकारः-पुरुषकर्त्तव्यं पराक्रमो-बलवीर्ययोव्यापारणमिति । देवगत्यादिप्रतिघातश्च चारित्रातिचारकारिणो भवतीत्युत्तरगुणानाश्रित्य तद्विशेषमाह मू. (४४१) पंचविधेआजीविते पं० तं०-जातिआजीवे कुलाजीवेकम्माजीवे सिप्पाजीवे लिंगाजीवे। वृ. 'पंचविहे' त्यादि, जाति-ब्राह्मणादिकामाजीवति-उपजीवति-तज्जातीयमात्मा- नं सूचादिनोपदर्य ततो भक्तादिकं गृह्णातीति जात्याजीवकः, एवं सर्वत्र, नवरं कुलम्-उग्रादिकं गुरुकुलं वा कर्म-कृष्याद्यनाचार्यकंवा शिल्पं-तूर्णनादिसाचार्यकं वा लिङ्ग-साधुलिङ्गंतदाजीवति, ज्ञानादिशून्यस्तेन जीविकां कल्पयतीत्यर्थः, लिङ्गस्थानेऽन्यत्र गणोऽधीयते, यत उक्तम्-- ॥१॥ “जाईकुलगणकम्मे सिप्पे आजीवणा उ पंचविहा । सूयाए असूयाए अप्पाण कहेइ एक्केके "त्ति, तत्र गणो-मल्लादिः सूचया-व्याजेनासूचया-साक्षात् । अनन्तरं सधूनां रजोहरणादिकं लिङ्गमुक्तं, अधुना खड्ग्रादिरूपं राज्ञां तदेवाह मू. (४४२) पंच रातककुहा पं० तं०-खग्गं छत्तं उपफेसं उपाणहाओ वालवीअणी। वृ. 'पंच रायककुभा' इत्यादि व्यक्तं, नवरंराज्ञां-नृपतीनांककुदानि-चिह्नानि राजककुदानि, 'उप्फेसि’त्ति शिरोवेष्टनं शेखरक इत्यर्थः ‘पाहणाउ'त्ति उपानहौ, वालव्यजनी चामरमित्यर्थः, श्रूयते च॥१॥ "अवणेइ पंच ककुहाणि जाणि रायण चिंधभूयाणि । खग्गं छत्तोवाणह मउडं तह चामराओय" इति, अनन्तरोदितककुदयोग्यश्चैत्वाकादिप्रव्रजितः सरागोऽपि सन् सत्त्वाधिकत्वाद्यानि वस्तून्यालम्ब्य परीषहादीनपगणयति तान्याह मू. (४४३) पंचहिं ठाणेहिं छउमत्थे णं उदिन्ने परिस्सहोवसग्गे सम्मं सहेजा खमेजा तितिक्खेजा अहियासेजा, तं०-उदिन्नकम्मे खलु अयं पुरिसे उम्मत्तगभूत्ते, तेण मे एस पुरिसे अक्कोसति वा अवहसति वा निच्छोटेति वा निमंछेति वा बंधति वा रुंभति वा छविच्छेतं करेति वा पमारं वा नेति उद्दवेइ वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणमछिंदति वा विच्दिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy