________________
३२५
स्थानं-५, - उद्देशकः -१ साहमितं पारंचितं करेमाणे नातिक्कमति, तं०-सकुले वसति सकुलस्स भेदाते अब्भुट्टित्ता भवति गणेवसतिगणस्सभेताते अब्भुतॄत्ता भवति २ हिंसप्पेही ३ छिद्दप्पेही ४ अभिक्खणं पसिणाततणाई पउंजित्ता भवति ५।
वृ. साम्भोगिक-एकभोजनमण्डलीकादिकविसाम्भोगिकं-मण्डलीबाह्यं कुर्वन्नातिक्रामति आज्ञामिति गम्यते, उचितत्वादिति, सक्रियं-प्रस्तावादशुभकर्मबन्धयुक्तं स्थानं-अकृत्यविशेषलक्षणं प्रतिषेविता भवतीत्येकं, प्रतिषेव्य गुरवे नालोचयाति-न निवेदयतीति द्वितीयं, आलोच्य गुरूपदिष्टप्रायश्चित्तं न प्रस्थापयति-कर्तुं नारभत इति तृतीयं, प्रस्थाप्य न निर्विशति-न समस्तं प्रवेशयत्यथवा 'निर्वेशः परिभोग' इति वचनान्न परिभुङ्कते-नासेवत इत्यर्थः इतिचतुर्थं, यानीमानि सुप्रसिद्धतया प्रत्यक्षाणि 'स्थविराणां' स्थविरकल्पिकानां 'स्थितौ' समाचारे' प्रकल्प्यानिप्रकल्पनीयानि योग्यानि विशुद्धपिण्डशय्यादीनि स्थितिप्रकल्प्यानि अथवा स्थितिश्चमासकल्पादिका प्रकल्प्यानि च-पिण्डादीनि स्थितिप्रकल्प्यानि तानि 'अइयंचिय अइयंचिय'त्ति अतिक्रम्यातिक्रमेत्यर्थः,प्रतिषेवतेतदन्यानीति गम्यते, अथ सङ्घाटकादिः साधुरेवं पर्यालोचयतियथानैतत्प्रतिषेवितुमुचितं गुरु. बाह्यौ करिष्यति, तत्रेतरआह-‘से' इति तदकल्प्यजातं 'इंदे'त्ति कोलामन्त्रणं वचनं हमित्यकारप्रश्लेषादहं प्रतिषेवामि किं मम 'स्थविराः' गुरवः करिष्यन्ति?, न किञ्चित्तै रुष्टैरपि मे कर्तुं शक्यते इति बलोपदर्शनं पञ्चममिति।
'पारंचियंति दशमप्रायश्चित्तभेदवन्तमपहृतलिङ्गादिकमित्यर्थः कुर्वन्नातिक्रामति सामायिकमिति गम्यते, कुले-चान्द्रादिके वसति गच्छवासीत्यर्थस्तस्यैव कुलस्य भेदायान्योऽन्यमधिकरणोत्पादनेनाभ्युत्थाता भवति यतेत इत्यर्थ, इत्येकः, एवं गणस्यापीति द्वितीयं, तथा हिंसां-वधंसाध्यादेः प्रेक्षते-गवेषयतीति हिंसाप्रेक्षीतितृतीयं, हिंसार्थमेवापभ्राजनार्थंवा 'छिद्राणि'; प्रमत्ततादीनि प्रेक्षतइति छिद्रप्रेक्षीति चतुर्थं, अभीक्ष्मणमितीहपुनःशब्दार्थः ततश्चाभीक्ष्णमभीक्ष्णं पुनः पुनरित्यर्थः प्रश्ना-अङ्गुष्ठकुड्यप्रश्नादयः सावधनुष्ठानपृच्छा वा त एवायतनान्यसंयमस्य प्रश्नायतनानि प्रयोक्ता भवति, प्रयुङ्कत इत्यर्थः इति पञ्चमं।
मू.(४३३) आयरियउवज्झायस्सणंगणंसिपंचवुग्गहट्ठाणा पं० तं०-आयरियउवज्झाए णं गणंसि आणं वा धारणं वा नो सम्मं पउंजेत्ता भवति १ आयरियउवज्झाए णं गणंसि आधारातिणियाते कितिकम्मं नो सम्मं पउंजित्ता भवति २ आयरियउवज्झाते गणंसि जे सुत्तपज्जवजाते धारेति ते काले २ नो सम्ममनुप्पवातित्ता भवति ३ आयरियउवज्झाए गणंसि गिलाणसेहवेयावच्चं नो सम्ममब्भुट्टित्ता भवति ४ आयरियउवज्झाते गणंसि अनापुच्छितचारी यावि हवइ नो आपुच्छियचारी ५।
आयरियउवज्झायस्स णं गणंसि पंचावुग्गहट्ठाणा पं० तं०-आयरियउवज्झाए गणंसि आणं वा धारणं वा सम्मं पउंजित्ता भवति, एवमधारायनिताते सम्मं किइकम्मं पउंजित्ता भवइ आयरियउवज्झाए णं गणंसि जे सुतपज्जवजाते धारेति ते काले २ सम्मं अनुपवाइत्ता भवइ आयरियउवज्झाएगणंसि गिलाणसेहवेयावच्चं सम्मंअब्भुट्टित्ता भवति आयरियउवज्झाते गणंसि आपुच्छियचारी यावि भवति नो अनापुच्छिचारी।
वृ.तथआचार्योपाध्यायचस्येतिसमाहारद्वन्द्वः कर्मधारयोवा, ततश्चाचार्यस्योपाध्यायस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org