________________
३२६
-
स्थानाङ्ग सूत्रम् ५/१/४३४ 'गणंसित्ति गणे 'विग्रहस्थानानि कलहाश्रयाः, आचार्योपाध्यायौ द्वयं वा 'गणे' गणविषये 'आज्ञां' हे साधो! भवतेदं विधेयमित्येवंरूपामादिष्टिं 'धारणां' न विधेयमिदमित्येवंरूपां 'नो'नैव सम्यग्-औचित्येन प्रयोक्ता भवतीति साधवः परस्परंकलहायन्तेअसम्यग्नियोगातदुनयन्त्रितत्त्वाच्च, अथवा अनौचित्यनियोक्तारमाचार्योदिकमेव कलहायन्ते इत्येवं सर्वत्रेति, अथवा गूढार्थपदैरगीतार्थस्य पुरतोदेशान्तरस्थगीतार्थीनंदनाय गीतार्थोयदतिचारनिवेदनंकरोतिसाऽऽज्ञा, असकृदालोचनादानेन यप्रायश्चित्तविशेषावधारणं सा धारणा, तयोर्न सम्यक् प्रयोक्तेति स कलहभागिति प्रथम,
तथास एव आहाराइणियाए तिरनानिद्विधा-द्रव्यतोभावतच, तत्रद्रव्यतःकर्केतनादीनि भावतो ज्ञानादीनि, तत्र रलैः-ज्ञानादिभिर्व्यवहरतीति रात्लिकः-बृहत्पर्यायो यो यो रात्निको यथारालिकंतभावस्तत्ता तया यथारालिकतया-यथाज्येष्ठंकृतिकर्म-वन्दनकवियन एववैनयिकं तच्च न सम्यक् प्रयोक्ता, अन्तर्भूतिकारितार्थत्वाद्वा प्रयोजयिता भवतीति द्वितीयं, तथा स एव यानि श्रुतस्य पर्यवजातानि-सूत्रार्थप्रकारान् ‘धारयति' धारणाविषयीकरोति तानि काले कालेयथावसरंन सम्यगनुप्रवाचयिता भवति-नपाठयतीत्यर्थः इतितृतीयं, काले अनुप्रवाचयितेत्युक्तं तत्र गाथाः॥१॥ "कालक्कमेण पत्तं संवच्छरमाइणा उ जंजंमि।
तंतंमिचेव धीरो वाएज्जा सोय कालोऽयं॥ ॥२॥ तिवरिसपरियागस्स उ आयारपकप्पनाममज्झयणं ।
चउवरिसस्स य सम्मं सूयगडं नाम अंगति ।। ॥३॥ दसकप्पव्ववहारा संवच्छरपणगदिक्खियस्सेव।
ठाणं समवाओऽविय अंगे ते अट्ठवासस्स ।। ॥४॥ दसवासस्स विहाहो एक्कारसवासयस्स य इमे उ ।
खुड्डियविमाणमाई अज्झयणा पंच नायव्वा ।। बारसवासस्स तहा अरुणुववायाइपंच अज्झयणा।
तेरसवासस्स तहा उठाणसुयाइया चउरो ।। चोद्दसवासस्स तहा आसीविसभावणं जिणा बिन्ति ।
पन्नरसवासगस्स य दिट्ठीविसभावणं तहय॥ ॥७॥
सोलसवासाईसु य एक्कोत्तरवुड्डिएसुजहसंखं ।
चारणभावणमहासुविणभावणा तेयगनिसग्गा ।। ॥८॥ एगूणवीसवासगस्स उ दिडिवाओ दुवालसममंगं ।
संपुण्णवीसवरिसो अनुवाई सव्वसुत्तस्स" त्ति, तथा स एव ग्लानशैक्षवैयावृत्त्यं प्रति न सम्यक् स्वयमभ्युत्थाता-अभ्युपगन्ता भवतीति चतुर्थं, तथा स एव गणंअनापृच्छ्य चरति-क्षेत्रान्तरसङ्गमादिकरोतीत्येवंशीलोऽनापृच्छ्यचारी, किमुक्तं भवति?-नोआपृच्छ्यचारीति पञ्चमं विग्रहस्थानं । एतदेव व्यतिरेकेणाह-अविग्रहसूत्रं गतार्थं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org