________________
स्थानं-५, - उद्देशकः-१
३२३ तथामौनं-मौनव्रतं तेन चरतिमौनचरकः, तथासंसृष्टेन-खरण्टितेनेत्यर्थोहस्तभाजनादिना दीयमानं 'कल्पिकं कल्पवत् कल्पनीयमुचितमभिग्रहविशेषाद्भक्तादियस्य ससंसृष्टकल्पिकः, तथा 'तज्जातेन' देयद्रव्यप्रकारेण यत्संसृष्टं हस्तादि तेन दीयमानं कल्पिकं यस्येति विग्रह इति, उपनिधीयत इत्युपनिधिः-प्रत्यापसन्नं यद्यथाकथञ्चिदानीतं तेन चरति तद्ग्रहणायेत्यर्थः इत्यौपनिधिकः, उपनिहितमेव वा यस्य ग्रहणविषयतयाऽस्ति स प्रज्ञादेराकृतिगणत्वेन मत्वर्थीयाणप्रत्यये औपनिहित इति, तथा शुद्धा-अनतिचारा एषणा-शङ्कितादिदोषवर्जनरूपा 'संसट्ठमसंसट्टे'त्यादिसप्तप्रकाराअन्यतरावातयाचरतीत्युत्तरपदवृद्धाशुद्धैषणिकः, सङ्ख्याप्रधानाःपरिमिताएवदत्तयः-सकृद्भक्तादिक्षेपलक्षणाग्राह्याः यस्यस सङ्ख्यादत्तिकः, दत्तिलक्षणश्लोकः- ॥१॥ "दत्ती उजत्तिए वारे, खिवई होति तत्तिया।
अवोच्छिन्ननिवायाओ, दत्ती होइ दवेतरा" इति तथा ईष्टस्यैव भक्तादेलभिस्तेन चरतीति तथैव ईष्टलाभिकः, पृष्टस्यैव साधो ! दीयते ते ? इत्येवं यो लाभस्तेन चरतीति प्राग्वत पृष्टलाभिकः, आचाम्ल-समयप्रसिद्धं तेन चरतीत्याचाम्लिकः, निर्गतो घृतादिविकृतिभ्यो यः स निर्विकृतिकः पुरिमार्द्ध-पूर्वाह्णलक्षणं प्रत्याख्यानविशेषोऽस्ति यस्य स तथा, परिमितो-द्रव्यादिपरिमाणतः पिण्डपातो-भक्तादिलाभो यस्यास्तिसपरिमितपिण्डपातिकः,भिन्नस्यैव-स्फोटितस्यैवपिण्डस्यसक्तुकादिसम्बन्धिनः पातोलाभो यस्यास्ति स भिन्नपिण्डपातिकः ग्रहणानन्तरमध्यवहरणं भवतीत्यत एतदुच्यते-'अरसं' हिङ्ग्वादिभिरसंस्कृत-माहारयतीत्यरसोवाऽऽहारोयस्यासावरसाहारः, एवं सर्वत्र, नवरंविरसंविगतरसं पुराणधान्यौदनादि, रूक्षं तैलादिवर्जितमिति, तथा अरसेनजीवितुंशीलमाजन्यमापि यस्य स तथा, एवमन्यत्रापि। ___'ठाणाइए'त्ति स्थानं-कायोत्सर्गः तमतिददाति-प्रकरोति अतिगच्छति वेति स्थानातिदः स्थानातिगो वेति, उत्कुटुका सन-पीठादौ पुतालगनेनोपवेशनरूपमभिग्रहो यस्यास्ति स उत्कुटुकासनिकः, तथा प्रतिमया-एकरात्रिक्यादिकया कायोत्सर्गविशेषेणैव तिष्ठतीत्येवंशीलो यः सप्रतिमास्थायी 'वीरासनं भून्यस्तपादयस्य सिंहासने उपविष्टस्य तदपनयने या कायावस्था तद्रूपं, दुष्करं च तदिति, अत एव वीरस्य-साहसिकस्यासनमिति वीरासनमुक्तं तदस्यास्तीति वीरासनिकः, तथा निषद्या-उपवेशनविशेषः, साचपञ्चधा, तत्र यस्यांसमंपादौ पुतौ चस्पृशतः सा समपादपुता १ यस्यां तु गोरिवोपवेशनं सागोनिषधिका २ यत्र तुपुताभ्यामुपविष्टः सन् एकं पादमुत्पाट्यास्ते साहस्तिसुण्डिका ३ पर्यशार्द्धपर्याचप्रसिद्धा, निषधयाचरतिनैषधिक इति, दण्डस्येवायतिः-दीर्घत्वं पादप्रसारणेन यस्यस दण्डायतिकः, तथा लगण्डं किल दुःसंस्थितं काष्ठं तद्वन्मस्तकपार्णिकानां भुवि लगनेन पृष्ठस्य चालगनेनेत्यर्थः यः शेते तथाविधाभिग्रहात् स लगण्डशायी, तथा आतापयति-आतापनां शीतातपादिसहनरूपां करोतीत्यातापकः, तथा न विद्यते प्रावृतं-प्रावरणं अस्येत्यप्रावृतकः, तथा न कण्डूयत इत्यकण्डूयकः, 'स्थानातिग' इत्यादिपदानां कल्पभाष्यव्याख्येयम्॥॥ "उद्धट्ठाणं ठाणाइयं तुपडिमा यहोति मासाई।
. पंचेव निसेजाओ तासि विभासा उ कायव्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org