________________
३१६
पंचहिं ठाणेहिं जीवा विनिघायमावज्रंति, तं०-सद्देहिं जाव फासेहिं ९
पंच ठाणा अपरिन्नाता जीवाणं अहिताते असुभाते अखमाते अनिस्सेताते अनानुगामितत्ताते भवंति, तं० - सद्दा जाव फासा १० पंच ठाणा सुपरित्राता जीवाणं हिताते सुभातेजाव आनुगामियत्ताए भवंति, तं०-सद्दा जाव फासा ११, पंच ठाणा अपरिनाता जीवाणं दुग्गतिगमणा भवंति तं०सद्दा जाव फासा १२, पंच ठाणा परिन्नाया जीवाणं सुग्गमतिगमणाए भवंति तं०-सद्दा जाव फासा १३ ।
स्थानाङ्ग सूत्रम् ५/१/४२४
मू. (४२५) पंचहिं ठाणेहिं जीवा दोग्गंति गच्छंति, तं०-पाणातिवातेणं जाव परिग्गहेणं, पंचहि ठाणेहिं जीवा सोगतिं गच्छतिं, तं०-पाणातिवातवेरमणेणं जाव परिग्गहवेरमणेणं । वृ. प्रकटा चेयं, नवरं पञ्च वर्णाः १ पञ्चैव रसास्तदन्येषां सांयोगिकत्वेनाविवक्षितत्वादिति २, 'कामगुण' त्तिकामस्यमदनाभिलाषस्य अभिलाषमात्रस्य वा सम्पादका गुणा-धर्म्माः पुद्गदलानां, काम्यन्त इति कामाः ते च ते गुणाश्चेति वा कामगुणा इति ३ ।
‘पंचहिं ठाणेहिं' ति पञ्चसु पञ्चभिर्वा (इन्द्रियैः) स्थानषु-रागाद्याश्रयेषु तैर्वा सह सज्यन्तेसङ्गसम्बन्धं कुर्वन्तीति ४, 'एव' मिति पञ्चस्वेव स्थानेषु रज्यन्ते-सङ्गकारणं रागं यान्तीति ५ मूर्च्छन्तितद्दोषानवलोकनेन मोहमचेतनत्वमिव यान्ति संरक्षणानुबन्धवन्तो वा भवन्तीति ६,
गृध्यन्ति-प्राप्तस्यासन्तोषेणाप्राप्तस्यापरापरस्याकाङ्क्षावन्तो भवन्तीति ७, अध्युपपद्यन्तेतदेकचित्ता भवन्तीति तदर्जनाय वाऽऽधिक्येनोपपद्यन्ते - उपपन्ना घटमाना भवन्तीति ८, विनिघातं - मरणं मृगादिवत् संसारं वाऽऽपद्यन्ते प्राप्नुवन्तीति, आह च
119 11
" रक्तः शब्दे हरिणः स्पर्शे नागो रसे च वारिचरः । कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः ॥ पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु रक्तः प्रयाति भस्मान्ततां मूढः ॥ इति ।
'अपरिन्नाय'त्ति अपरिज्ञया स्वरूपतोऽपरिज्ञातानि - अनवगतानि अप्रत्याख्यानपरिज्ञया वा प्रत्याख्यातानि अहिताय - अपायाय अशुभाय-अपुण्यबन्धाय असुखाय व अक्षमायअनुचितत्वाय असमर्थत्वाय वा अनिःश्रेयसाय - अकल्याणायामोक्षाय वा यदुपकारि सत्कालान्तरमनुयाति तदनुगामिकं तत्प्रतिषेधोऽननुगामिक तद्मावस्तत्त्वं तस्मै अननुगामिकत्वाय भवन्ति १० द्वितीयं विपर्ययसूत्रं ११, उत्तरसूत्रद्वयेन तु एतदेवाहितहितादि व्यञ्जितमस्ति, दुर्गतिगमनाय - नारकादिभवप्राप्तये सुगतिगमनाय - सिद्धयादिप्राप्तये इति १२-१३ । दुर्गतिसुगत्योः कारणान्तरप्रतिपादनसूत्रे सुगमे इति ।
इह संवरतपसी मोक्षहेतू, तत्रानन्तरमाश्रवनिरोधलक्षणः संवर उक्तोऽधुना तपोभेदात्मिकाः प्रतिमा आह
यू. (४२६) पंचपडिमातो पं० तं०-भद्दा सुभद्दा महाभद्दा सव्वतोभद्दा भद्दुत्तरपडिमा बृ. 'पंचे' त्यादि व्यक्तं, नवरं भद्रा १ महाभद्रा २ सर्वतोभद्रा ३ द्वि १ चतु २ र्दशभि ३ र्दिनैः क्रमेण भवन्तीत्युक्तं प्राग्, सुभद्रा त्वष्टत्वान्न लिखिता, सर्वतोभद्रा तु प्रकारान्तरेणाप्युच्यते, द्विधेयं क्षुद्रिका महतीच, तत्राद्या चतुर्थादिना द्वादशावसानेन पञ्चसप्ततिदिनप्रमाणेन तपसा
For Private & Personal Use Only
www.jainelibrary.org
॥२॥
Jain Education International