________________
स्थानं-५, - उद्देशकः-१
३१५ प्राणातिपातःप्राणिप्राणवियोजनमित्यर्थः तस्माद्विरमणं-सम्यग्ज्ञानश्रद्धानपूर्वकं निवर्त्तनमिति,
तथा सर्वस्मात्-सद्भावप्रतिषेधा १ सद्भावोद्भावन २ अर्थान्तरोक्ति ३ गर्दाभेदात् ४ कृतादिभेदाच अथवाद्रव्यतः सर्वधर्मास्तिकायादिद्रव्यविषयात् क्षेत्रतः सर्वलोकालोकगोचरात् कालतोऽतीतादेराव्यादिवर्त्तिनोवा भावतः कषायनोकषायादिप्रभवात्मृषा-अलीकंवदनंवादो मृषावादः तस्माद्विरमणं-विरतिरिति,
तथा सर्वस्मात्-कृतादिभेदादथवा द्रव्यतः सचेतनाचेतनद्रव्यविषयात् क्षेत्रतो ग्रामनगरराण्यादिसम्भवात् कालतोऽतीतादे रात्र्यादिप्रभवाद्वा भावतो रागद्वेषमोहसमुत्थात् अदत्तंस्वामिना अवितीर्णं तस्याऽऽदानं-ग्रहणमदत्तादानं तस्माद्विरमणमिति,
तथा सर्वस्मात्कृतकारितानुमति भेदादथवाद्रव्यतोदिव्यमानुषतैरश्चभेदात्रूपरूपसहगतभेदाद्वातत्ररूपाणि-निर्जीवानिप्रतिमारूपाण्युच्यन्ते रूपसहगतानितु-सजीवानिभूषणविकलानि वा रूपाणि भूषणसहितानि रूपसहगतानीति क्षेत्रतस्त्रिलोकसम्भवात् कालतोऽतीतादे रात्र्यादिसमुत्थाद्वाभावतोरागद्वेषप्रभवात् मिथुनं-स्त्रीपुंसद्वन्द्वंतस्यकर्ममैथुनंतस्माद्विरमणमिति,
तथा सर्वस्मात्-कृतादेरथवा द्रव्यतः सर्वद्रव्यविषयात् क्षेत्रतो लोकसम्भवात् कालतोऽतीतादेरात्र्यादिभवाद्वाभावतोरगद्वेषविषयात्परिगृह्यते-आदीयतेपरिग्रहणंवापरिग्रहः तस्माद्विरमणमिति ॥
व्रतप्रस्तावात् ‘पञ्चाणुव्वए'त्याधणुव्रतसूत्रं, स्फुटं चेदं, किन्तु अणूनि-लघूनि व्रतानि अणुव्रतानि, लघुत्वं च महाव्रतापेक्षया अल्पविषयत्वादिनेति प्रतीतमेवेति, उक्तंच॥१॥ "सव्वगयं सम्मत्तं सुए चरिते न पजवा सव्वे ।
देसविरई पडुच्चा दोण्हवि पड-सेहणं कुजा" इति अथवा अनु-महाव्रतकथनस्य पश्चात्तदप्रतिपत्तौ यानि व्रतानि कथ्यन्ते तान्यनुव्रतानि, उक्तंच॥१॥ “जइधम्मस्सऽसमत्येजुज्जइ तद्देसणंपि साहूणं।
तदहिगदोसनिवित्तीफलंति कायानुकंपट्ठा " इति अथवा सर्वविरतापेक्षया अणोः-लघोर्गुणिनो व्रतान्यणुव्रतानीति, स्थूला-द्वीन्द्रियादयः सत्त्वाः, स्थूलत्वंचैषांसकललौकिकानांजीवत्वप्रसिद्धः, स्थूलविषयत्वात् स्थूलः तस्मात्प्राणातिपातात् । तथा स्थूलः-परिस्थूल-वस्तुविषयोऽतिदुष्टविवक्षासमुद्भावास्तस्मात् मृषावादात् तथा परिस्थूरवस्तुविषयं चौर्यारोपणहेतुत्वेन प्रसिद्धमतिदुष्टाध्यवसायपूर्वकं स्थूलं तस्माददत्तादानात् तथा स्वदारसन्तोष-आत्मीयकलत्रादन्यत्रेच्छानिवृत्तिरिति, उपलक्षणात्परदारवर्जनमपि ग्राह्यं, तथा इच्छायाः-धनादिविषयाभिलाषस्य परिमाणं-नियमनमिच्छापरिमाणं देशतः परिग्रहविरतिरित्यर्थः ॥ इच्छापरिमाणं चेन्द्रियार्थगोचरं श्रेय इतीन्द्रियार्थवक्तव्यतार्थं पंचवन्नेत्यादित्रयोदशसूत्रीमाह
म.(२४)पंचवन्ना पं० २०-किण्हा नीला लोहिता हालिद्दा सुकिल्ला १, पंच रसा पं० तं०-तित्ता जाव मधुरा २, पंच कामगुणा पं० २०-सदा रूवा गंधा रसा फासा ३, पंचहि ठाणेहिं जीवा सजंतितं०-सद्देहिं जावफासेहिं ४, एवं रजति ५ मुच्छंति ६ गिझंति७, अजोववजंति ८,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org