________________
३१४
स्थानाङ्ग सूत्रम् ४/४/४२१
मशेषतद्विपाकहान्यापरिशातितवन्तः ३ इति ।
मू. (४२२) चउपदेसिया खंधा अनंता पन्नत्ता चउपदेसोगाढा पोग्गला अनंता चउसमयद्वितीया पोग्गला अनंता चउगुणकालगा पोग्गला अनंता जाव चउगुणलुक्खा पोग्गला अनंता पन्नत्ता। वृ. पुद्गलाधिकारात्पुद्गलानेव द्रव्यादिभिर्निरूपयन्नाह-'चउप्पएसे'त्यादि सुगममिति
स्थानं-४ उद्देशकः ४ - समाप्तः
स्थानं-४ समाप्तम् मुनि दीपरत्नसागरेणं संशोधिता सम्पादिता अभयदेवसूरि विरचिता स्थानागसूत्रस्य चतुर्थस्थानटीका परिसमाप्ता।
(स्थानं-५.) वृ.व्याख्यातंचतुर्थमध्ययनं, साम्प्रतंसङ्ख्याक्रमसम्बद्धमेवपञ्चस्थानकाख्यंपञ्चममध्ययनं व्याख्यायते, अस्य चायं विशेषाभिसम्बन्धः-इहानन्तराध्ययने जीवाजीवतद्धाख्याः पदार्थाश्चतुःस्थानकावतारणेनाभिहिताः, इह तु त एव पञ्चस्थानकावतारणेनाभिधीयन्ते।
-स्थान-५ उद्देशकः१:इत्येनेनाभिसम्बन्धेनायातस्यास्योद्देशकत्रयवतश्चतुरनुयोगद्वारवतोऽध्ययनस्य प्रथमोद्देशको व्याख्यायते, अस्य च पूर्वोद्देशकेन सह सम्बन्धोऽधिकृताध्ययनवत् द्रष्टव्यः, तस्य चेदमादिसूत्रम्
मू. (४२३) पंच महव्वया पं० २०-सव्वातो पाणातिवायाओ वेरमणं ॥जाव सव्वातो परिग्गहातो वेरमणं । पंचाणुव्वतापं० २०-थूलातो पाणाइवायातो वेरमणं थूलातो मुसावायातो वेरमणं थूलातो अदिन्नादाणातो वेरमणं सदारसंतोसे इच्छापरिमाणे॥
वृ.अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-पूर्वसूत्रे अजीवानां परिणामविशेष उक्तः इह तु सएवजीवानामुच्यत इत्येवंसम्बन्धस्यास्यव्याख्यासंहितादिक्रमेण, सच क्षुन्न एव, नवरंपञ्चेति सङ्ख्यान्तरव्यवच्छेदः, तेन नचत्वारि, प्रथमपश्चिमतीर्थयोः पञ्चानामेव भावात्, महान्ति-बृहन्ति तानिचतानिव्रतानिच-नियमामहाव्रतानि, महत्त्वंचैषांसर्वजीवादिविषयत्वेन महाविषयत्वात, उक्तश्च॥१॥ “पढमंमि सव्वजीवा बीए चरमे असव्वदव्वाई।
सेसा महव्वया खलु तदेकदेसेण दव्वाणं इति, तथायावजीवंत्रिविधंत्रिवधेनेतिप्रत्याख्यानरूपत्वाच्च तेषामिति, देशविरतापेक्षया महतो वागुणिनोव्रतानि महव्रतानीति, पुंल्लिङ्गनिर्देशस्तुप्राकृतत्वादिति, प्रज्ञप्तानि-तथाविधशिष्यापेक्षया प्ररूपितानि महावीरेणाणाद्यतीर्थकरेण च न शेषैरिति,
एतत्किल सुधर्मस्वामी जम्बूस्वामिन -प्रतिपादयामास, तद्यथा सर्वस्मात्-निरवशेषातत्रसस्थावरसूक्ष्मबादरभेदभिन्नात्कृतकारितानुमतिभेदाचेत्यर्थः, अथवाद्रव्यतः षड्जीवनिकायविषयात् क्षेत्रतस्त्रिलोकसम्भवात्कालतोऽतीतादे रात्र्यादिप्रभवाद्वा भावतो रागद्वेषसमुत्थाच, नतुपरिस्थूरादेवेति भावः, प्राणानां-इन्द्रियोच्छ्वासायुरादीनामतिपातः-प्राणिनः सकाशाद्विभ्रंशः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org